अथ वक्ष्ये विशेषेण करणानां तु लक्षणम्
कार्यं कर्तुं न शक्यं स्यात् सर्वदा करणैर्विना १
तस्माल्लक्षणसंयुक्ता कर्तव्यं करणास्तथा
कुण्डानां लक्षणं चैव ततः स्रुक्स्रुवौ यास्तथा २
लक्षणं होमपात्राणां परिधीनां तथैव च
परिस्तरणदर्भाणां समिधा लक्षणं तधा ३
आहुतीनां प्रमाणं च तथा स्नानोदकस्तथा
पाद्यमाचमनीयं च अर्घ्यं चापि विशेषतः ४
गन्धपुष्पं च धूपं च दीपं चापि यथाविधिः
वितानलक्षणं चैव प्रच्छिन्नपटलक्षणम् ५
धूपघण्टा महाघण्टा धूपपात्रस्य लक्षणः
ध्वजदण्डप्रमाणं तु बलिदानस्य लक्षणम् ६
एतेषां लक्षणं वक्ष्ये यथाशास्त्रविनिश्चितम्
पूर्वाग्रमुत्तराग्रं च कु र्यात्सूत्रद्वयं पुनः ७
चतुरश्रीकृ ते क्षेत्रे कु ण्डानामथ लक्षणम्
कर्णसूत्रचतुर्भाग कृ त्वैके न तु वर्तयेत् ८
क्षेत्रार्धादधिकं यावत् पार्श्वयोरुभयोरपि
कर्णसूत्रस्य सप्तांशं पूर्वायां दिशि विन्यसेत् ९
पार्श्वयोस्संभ्रमं कु र्या योन्याकारं तु कु ण्डकम्
चतुरश्रीकृ ते क्षेत्रे मध्यान् कर्णं विगृह्य च १०
ततो विसृज्य क्षेत्रर्धं शेषं कु र्यात् त्रिभागिकम्
भागेनैके न संयुक्तं क्षेत्रार्धेन तु योजयेत् ११
वर्तयेत्तेन सूत्रेण वर्तुलं कु ण्डमुच्यते
चतुरश्रं तु कर्णं तु कृ त्वा मत्रैव पूर्ववत् १२
वर्तितं वर्तुलं कु ण्डं तस्यार्धं धनुरुच्यते
क्षेत्रस्याद्यर्धमानेन सहैकादशभागिकम् १३
सूत्रद्वयमनेनैव त्रिकोणं समुदाहृतम्
क्षेत्रं तु सप्तधा कृ त्वा भागमेकं च हि न्यसेत् १४
तस्मान्मध्यस्य हीत्वा तु भ्राम्य वृत्ते तथैव च
कर्णार्धाष्टांशसंयुक्तं कर्णार्धं यद्भवेदिह १५
सूत्रं तत्र भवेदेतत् पञ्चाग्रे तु भुजो भवेत्
प्रागादिसप्तसूत्रेण सप्ताग्रं भवति स्फु टम् १६
पद्मपत्रसमं प्रोक्तं कर्णिकादलसंयुतम्
एवं समासतः प्रोक्तं कु ण्डानां लक्षणं परम् १७
वैकङ्कतमयो वाथ खादिरो वा स्रुवौ भवेत्
अथवा याज्ञिकैर्वृक्षैः कर्तव्यौ स्रुक्स्रुवौ बुधः १८
पालाशखदिराश्वत्थप्लक्षोदुम्बरचन्दनाः
वैकङ्कतशमीबिल्वयाज्ञिकास्तरवो नव १९
द्विधा कृ त्वा ततो गर्भः सूत्रेण सुमितं तथा
चतुरश्रं ततः कृ त्वा कु र्याल्लक्षणतो बुधः २०
रत्निमात्रसमायाम तत्पार्श्वे तु बिलं भवेत्
षडङ्गुलपरीणाहं दण्डमूले विधीयते २१
तदर्धं कण्ठनाभं स्यात् पुष्करं मूलवद्भवेत्
गोवालसदृशो दण्डस्रुवाग्रन्नाधिका समम् २२
पुटद्वयसमायुक्तं कर्षाज्येन तु पूरकम्
स्रुवस्य लक्षणं प्रोक्तं स्रुग्लक्षमथोच्यते २३
षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तृतम्
उत्सेधं तु तदर्धं स्यात् सूत्रेण सुमितं ततः २४
सप्ताङ्गुलभवेदास्यं विस्तारायामतोऽपि हि
त्रिभागैगं भवेदग्रं कृ त्वा शेषं परित्यजेत् २५
कण्ठं तु द्व्यङ्गुलायामं विस्तारं चतुरङ्गुलम्
वेदिकाष्टाङ्गुलायामं विस्तारं तत्प्रमाणतः २६
तस्य मध्ये बिलं कु र्याच्चतुरङ्गुलमानतः
बिलं सुवर्तितं कु र्यादष्टपत्रं सुकर्णिकम् २७
परितो बिलबाह्ये तु पट्टिकार्धङ्गुलेन तु
तद्बाह्ये यवनिम्नं तु पद्मपत्रविचित्रितम् २८
यवद्वयप्रमाणेन तद्बाह्ये पट्टिका भवेत्
वेदिकामध्यतो रन्ध्रं कनिष्ठाङ्गुलमानतः २९
खातं यवान्मखातं स्यात् बिलमानं तु निम्नगम्
दण्डं षडङ्गुलं नाभं दण्डाग्रे गण्डिकात्रयम् ३०
अर्धाङ्गुलविवृद्ध्यन्तु कर्तव्यं चतुरङ्गुलम्
त्रयोदशाङ्गुलायामं दण्डमूले घटो भवेत् ३१
द्वियङ्गुलं भवेत् कु म्भं नाभं विद्याद्दशाङ्गुलम्
वेदिमध्ये तथा कु म्भे पादं कु र्याद्वियङ्गुलम् ३२
पद्मपृष्ठसमाकारं पादे वै कर्णिकाकृ तिः
गजोष्ठसदृशाकारं मत्स्यपृष्ठाकृ तिर्भवेत् ३३
प्रोक्तं स्रुक्स्रुवयोरेवं पात्राणामधुनोच्यते
आज्यस्थाली प्रणीतां च प्रोक्षणीस्तिस्र एव च ३४
सौवर्णं राजतं ताम्रं मृण्मयं वाथ कारयेत्
षडङ्गुलसुविस्तीर्णं पात्राणां मुखमुच्यते ३५
प्रोक्षणी त्र्यङ्गुलोत्सेधं प्रणीतार्धाङ्गुलीधिका
आज्यस्थाली ततस्तस्मादुत्सेधार्धाङ्गुलीयकाः ३६
पात्राणां लक्षणं प्रोक्तं परिधीनामथोच्यते
यैस्समादाहृतं प्रोक्तं तैरेव परिधिर्भवेत् ३७
मध्याङ्गुलिपरीणाहमवक्त्रा निर्वृणास्समाः
द्वात्रिंशदङ्गुलायामास्तिस्राः परिधयो मता ३८
परिधीनामथ प्रोक्तो दर्भाणामधुनोच्यते
स्त्रीपुंनपुंसकाख्याश्च त्रिविधास्समुदाहृताः ३९
स्त्रीलिङ्गामुदवश्यामा पुल्लिङ्गारुजवस्थिताः
अकोमलास्थिराश्चैव अग्राह्यास्तु नपुंसकाः ४०
स्त्रीलिङ्गास्त्रीक्रियायां तु पुल्लिङ्गा पुंस्क्रियासु च
षट्त्रिंशादङ्गुलायामैस्त्रिंशद्दर्भैः परिस्तरेत् ४१
चतुरङ्गुलमग्रे तु ग्रन्थितन्तुप्रदक्षिणे
वेन्निका वेष्टिका वाथ त्रिंशद्दर्भैस्तु विष्टन् ४२
प्रोक्तं परिस्तराणां च समिधामधुनोच्यते
समाग्रास्ससमास्थूलाः कनिष्ठाङ्गुलसंमिताः ४३
यथा सार्द्रा तथा शुष्काग्रन्थिरन्ध्रविवर्जिताः
अवक्रा निर्वृणस्निग्धा द्वादशाङ्गुलसंमितः ४४
द्रव्याणां होमकाले तु प्रमाणमधुनोच्यते
गव्यं घृतं तथाश्रेण स्रुवपूर्णप्रमाणतः ४५
अन्नमक्षप्रमाणं स्यालाजानामुष्टिमात्रकम्
तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ४६
यवापण्टकु लस्थानां तदर्धं स्यात् प्रमाणतः
खण्डत्रयं तु मूलानां +++ सप्रमाणतः ४७
पत्राणां पञ्चकं प्रोक्तं तण्डुलास्तिलसंमिताः
क्षीरस्याथ मधो दध्न प्रमाणं घृतवद्भवेत् ४८
निष्पावमुद्गमाषानां प्रमाणं तिलवद्भवेत्
चतुस्रुवप्रमाणेन स्रुचा पूर्णाहुतिर्भवेत् ४९
तदर्धं स्विष्टकृ त्प्रोक्तं शेषं सर्वमथापि वा
एवं प्रमाणद्रव्याणां स्नानोदकमथोच्यते ५०
कलुषं कृ मिशैवालसंयुक्तं सूर्यवर्जितम्
गन्धवर्णरसैर्दृष्टमशुचिस्नानसंयुतम् ५१
पङ्काश्च दूषितैश्चैव सामुद्रं पल्लवोदकम्
अग्राह्यमुदकं ग्राह्यमेभिर्दोषैर्विवर्जितम् ५२
अष्टद्रोणैरथाद्भिस्तु स्नानकन्न्यासमुच्यते
अभिषेकमथाद्भिस्तु द्विगुणं मध्यमं भवेत् ५३
उत्तमं त्रिगुणैरद्भिरभिषेकमथोच्यते
अभिषेकोदकं प्रोक्तं पाद्यादीनामथोच्यते ५४
श्वेतसिद्धार्थकं दूर्वायुक्तं पाद्यमिहोच्यते
++रं चन्दनोपेतमथवा पाद्यमुच्यते ५५
एलालवङ्ककर्पूरत्रीन् पूजाश्रीफलान्वितम्
आप आचमनीयार्थमुशीरमथ चन्दनैः ५६
आपक्षीरकु शाग्राणि यवसिद्धार्थतण्डुलैः
तिलैर्व्रीहिसमायुक्तैरर्घ्यमष्टाङ्गमुच्यते ५७
तण्डुलं ++ सिद्धार्थतिलोदकसमन्विताः
अर्घ्यपुष्पजलोपेतमथवा समुदाहृतम् ५८
पाद्यादिलक्षणं प्रोक्तं गन्धादीनामथोच्यते
++ चागरुं चैव कु ङ्कुमं गन्धमुच्यते ५९
एकद्वित्रितयं वापि कर्पूरेण चतुष्टयम्
गन्ध एवं समाख्यातं पुष्पाणामधुनोच्यते ६०
श्वेतानि सात्विकान्याहुः राजसं रक्तमुच्यते
पीतानि मिश्रकान्याहुः न सितानि तमांसि च ६१
++ तीतपुष्पाणि लूकसूत्रवृतानि च
के शकीटोपविद्धानि त्यजेत् पर्युषितानि च ६२
श्वेतपद्मं तथा द्रोणं जातीमन्दारमल्लिका
नन्द्यावर्तं च पुन्नागं श्वेतार्कं कु रवं तथा ६३
एतानि सात्विकान्याहु पूर्वात्पूर्वं गरीयसी
रक्तानि चैव पद्मानि तथा रक्तोत्पलानि च ६४
धुत्तूरं बृहतीपुष्पं पाटलीकरविन्दकम्
एषां पुष्पाणि रक्तान्नि राजसानि तु निर्दिशेत् ६५
दुर्धूरं चम्पकं चैव कर्णिकारं तथैव च
आरग्वधं च पीतानि मिश्रकाणि विनिर्दिशेत् ६६
सात्विकं मोक्षफलदं राजसं वृद्धिकरणम्
मिश्रिकं द्विविसिद्ध्यर्थं पुष्पं पुत्रसमृद्धिदम् ६७
शिरीबिल्वमपामार्गकु ++ दूर्वासहास्तथा
पत्राण्येषां विशेषेण पूजार्थं च समुच्यते ६८
निर्गन्धान्युग्रगन्धानि कु ++ तु वर्जयेत्
बन्धूकडाडिमीपुष्पं जपाकु मुदचम्पकान् ६९
यूथिकामदयन्ती च करञ्जं वकु लं तथा
शिरीषके तकी ++ माकु ली च वहीतकम् ७०
एषां पुष्पाणि वर्ज्यानि पैशाचानि शुभानि च
ततो नीलोत्पलादन्यत् तामसानि तु वर्जयेत् ७१
सर्वेषाम + पुष्पाणि पुष्पं नीलोत्परं परम्
मन्त्रैराराध्य पुष्पाणि यथालङ्कारमुत्तमम् ७२
मालाभिरथ पट्टैश्च ग्रथितैः पूजयेच्छिवम्
एवं पुष्पं समाख्यातं धूपलक्षणमुच्यते ७३
कृ ष्णागरुभवेदेकं निर्व्यासं द्विगुणं भवेत्
त्रिगुणं चन्दनं प्रोक्तमीषत्कर्पूरमिश्रितम् ७४
शितारिर्नामविख्यातौ धूपोऽयं मधुसंयुतम्
एष धूपं परं प्रोक्तं उत्तमं धूपमुच्यते ७५
उशीरं चन्दनोपेतं लघुयुक्तं मधुप्लुतम्
मध्यमं धूपमाख्यातमुशीरादिशिवप्रियम् ७६
गुग्गुलुं घृतसंयुक्तमधमो धूपमुच्यते
दीपाङ्गारविनिक्षिप्तं घण्टानादसमन्वितम् ७७
धूपपात्रं समादाय दापये विधिवद्बुधः
++ धूपं समाख्यातं दीपलक्षणमुच्यते ७८
गोघृतेन समायुक्तं दीपं सात्विकमुच्यते
राजसं तिलतैलेन मिश्रामाजेन +++ ७९
चतुरङ्गुलमायामो दीप उत्तममुच्यते
त्र्यङ्गुलायामदीपस्तु मध्यमं दीप उच्यते ८०
अङ्गुलद्वयमानं तु अधमो दीप उच्यते
कपिलेन घृतेनाथ कृ तकर्पूरवर्तिना ८१
दीपः शिवप्रियः प्रोक्तस्सर्वसिद्धिप्रदायकः
तामसो दीप उद्दिष्टो माहिषेण तु सर्पिषा ८२
वाक्षैर्बीजैर्भवेस्नेहैर्दीपैः पैशाच उच्यते
तामसं चैव पैशाचमयोग्यं दीप उच्यते ८३
एव दीपं समाख्यातं पदलक्षणमुच्यते
अधमं पदविस्तारं द्वादशाङ्गुलमुच्यते ८४
मध्यमं पदविस्तारं सप्तद्विगुणमुच्यते
षोडशाङ्गुलविस्तारमुत्तमं पदमुच्यते ८५
प्रोक्तं पदप्रमाणं तु कलशानामथोच्यते
द्वादशाङ्गुलविस्तारमुदरे समुदाहृतम् ८६
वर्तितं तु तदर्धेन नाहं तस्य विधीयते
कण्ठं तुर्यङ्गुलोत्सेधं विस्तारं चतुरङ्गुलम् ८७
ओष्ठं तु द्व्यङ्गुलोत्सेधं निर्गमं तु द्वियङ्गुलम्
एकाङ्गुलं विभज्याथ कर्तव्यो मध्यमोत्तमौ ८८
विस्तारं तु समाख्यातं शेषं बुद्ध्या तु लक्षणम्
प्रोक्तमेव विधानेन कवशानां तु लक्षणम् ८९
प्रमाणं ध्वजदण्डस्य लक्षणेन विधीयते
आयामं शिखरान्तस्याद्ध्वजदण्डप्रमाणतः ९०
ऊर्ध्वं भूमिप्रमाणं तु त्रिभूम्यादौ विधीयते
चतुर्विंशाङ्गुलं नाभं ध्वजदण्डमथोच्यते ९१
तस्माद्व्यङ्गुलहीनस्तु ध्वजदण्डो हि मध्यमम्
विंशदङ्गुलनाभस्तु ध्वजदण्डे हि कन्यसः ९२
स्कन्धद्वयं तु दण्डाग्रे त्रिः प्रादेशान्तरं तथा
षडङ्गुलपरीणाहं वेणुदण्डस्थितं ध्वजम् ९३
स्थूप्याग्रेण समं चैव मध्ये यन्त्रं तु विन्यसेत्
प्रासादाभिमुखं कु र्यात् कु ण्डानि तु विशेषतः ९४
ध्वजदण्डसमाख्यातो बलिदानमथोच्यते
ग्रामे ब्रह्मादिके स्थाने बलिदानमथोत्सवे ९५
कुक्कुटाण्डप्रमाणस्तु बलिरेकत्र कीर्तितः
द्विगुणं त्रिगुणं चापि बलिं शक्त्या + निक्षिपेत् ९६
लयानां लक्षणं प्रोक्तं स्थिरानामधुनोच्यते
दशायुधं च वस्त्रं च दर्पणं पादकं तथा ९७
पिञ्छमाभरणं छत्रं वितानं चामरं ध्वजम्
घण्टा चैव महाघण्टा प्रच्छिन्नपटमेव च ९८
स्थिराण्येतानि सर्वेषां लक्षणं वक्ष्यतेऽधुना
स्थिराणि लोहजान्न्ये च मृण्मया दारुजालयाः ९९
क्रियादौ स्थापयेत्सर्वं क्रियान्ते वर्जयेल्लयम्
शुद्धिं कु र्यात् क्रियादौ तु यथोक्तं शोधये स्थिरान् १००
वज्रं शक्तिं च दण्डं च खड्गपाशं ध्वजं गदा
शूलं चैव च चक्रं च पद्मं चेति दशायुधाः १
सौवर्णं राजतं ताम्रमायसं कांस्यदं तु वा
कु र्याद्यथोदितैरेव लक्षणैरुपलक्षितम् २
अरत्निमात्रमायमविस्तारोऽष्टाङ्गुलं भवेत्
मध्यमाङ्गण्डिका कु र्याच्चतुरङ्गुलमानतः ३
तदूर्ध्वे तदधश्चापि गण्डिकाङ्गुलहीनतः
अष्टाङ्गुलस्त्रिधा कृ त्वा अधश्चोर्ध्वत्रिशूलवत्
पार्श्ववक्त्रं बहिर्वक्त्रं मध्यवक्त्रमृजुर्भवेत् ४
एवं वज्रं समाख्यातं शक्तिलक्षणमुच्यते
अरत्निमात्रमायामं विस्तारं चतुरङ्गुलम् ५
गण्डिकं मध्यतः कु र्याच्चतुरङ्गुलमानतः
चतुरङ्गुलमानेन अधश्चोर्ध्वं त्रिशूलकम् ६
प्रोक्तं शक्तिप्रमाणं तु दण्डलक्षणमुच्यते
मूले त्रिदण्डिकायुक्तं भवेदेकैकमङ्गुलम् ७
एकैकाङ्गुलवृद्ध्या तु विस्तारं गण्डिकात्रयम्
चतुरङ्गुलभवेन्मुष्टिर्नाहं तस्य षडङ्गुलम् ८
तदूर्ध्वे गण्डिकां प्रोक्तं विस्तारं चतुरङ्गुलम्
ऊर्ध्वे षडङ्गुलं तारं अधस्तं चतुरङ्गुलम् ९
नाभं तस्य प्रकर्तव्यं विस्तारार्धेन वर्तितम्
एवं दण्डं समाख्यातं खड्गलक्षणमुच्यते १०
अङ्गुलद्वयविस्तारमधस्तात्कम्बुकं भवेत्
फलकाचतुरश्रं तु षडङ्गुलसुविस्तरम् ११
चतुरङ्गुलं भवेत्कण्ठं नाभं विद्यात्त्रियङ्गुलम्
ऊर्ध्वे षडङ्गुलं दीर्घं विस्तारं स्याद्वियङ्गुलम् १२
ततो द्व्यङ्गुलविस्तारं चतुस्तालं प्रमाणतः
अधर्मस्तु भवेत् खड्गं पञ्चतालस्तु मध्यमः १३
षट्ताल उत्तमः प्रोक्तं खड्ग एवं त्रिधा मतः
पाशस्य लक्षणं वक्ष्ये फणद्वयसमायुतम् १४
अरत्निमात्रमायामं फण स्याच्चतुरङ्गुलम्
षडङ्गुलं फणस्याधः परिणाहमिहोच्यते १५
पाशस्य लक्षणं चैव ध्वजलक्षणमुच्यते
अरत्निमात्रविस्तारं तदर्धं शिखरं भवेत् १६
अद्यर्धरत्निमात्रं तु मध्ये शिखरपुच्छयोः
मध्यवत्पुच्छविस्तारमीनपुच्छाकृ तिर्भवेत् १७
ध्वजस्य लक्षणं प्रोक्तं गदालक्षणमुच्यते
दण्डवल्लक्षणं प्रोक्तं विशेषस्तु निहन्यते १८
ऊर्ध्वं दशाङ्गुलं तारमथवाष्टाङ्गुलं भवेत्
लक्षणं तु त्रिशूलस्य पूर्वमुक्तं सुविस्तरम् १९
चक्रत्रिशूलपद्मानां द्वादशारसमन्वितम्
मध्यनाभिसमायुक्तं परितः पत्रमादयम् २०
एवं चक्रं समाख्यातं पद्मलक्षणमुच्यते
अष्टाङ्गुलं तु मुकु लं दलाष्टकसमन्वितम् २१
षोडशाङ्गुलनालं स्यादेवं पद्मस्य लक्षणम्
अथवारत्निमात्रेण सर्वं कु र्याद्दशायुधम् २२
लक्षणस्सूर्यवत्तत्र विभज्याङ्गानि सर्वशः
एवं दशायुधं प्रोक्तं वस्त्रलक्षणमुच्यते २३
क्षौम कार्पासजं वस्त्रं पट्टं देवाङ्गसंभवम्
अष्टहस्तायतं चैव विस्तारं स्याद्विहस्तकम् २४
मनोरमं तु सुश्लक्ष्णं विशेषं हस्तमुच्यते
लिङ्गायामप्रमाणेन वस्त्रविस्तारमुच्यते २५
विस्ताराष्टाङ्गुणायामं सदृशं तु सलक्षणम्
आखुकाष्ठाग्निदग्धञ्च के शवर्धं च वर्जयेत् २६
वस्त्रमेवं समाख्यातं वक्ष्ये दर्पणलक्षणम्
शुद्धकालस्येह तत्कुर्याद्विस्तारं रत्निमानतः २७
षोडशाङ्गुलविस्तारमधस्ताद्वादशाङ्गुलम्
अर्धपादसमायामं विस्तारं स्यात्तदर्धतः २८
स्वाङ्गुलैः प्रतिमानां तु कु र्याल्लक्षणयो बुधः
अङ्गुष्ठिकां ततः कु र्यादङ्गुलद्वमानतः २९
यथापादं तथा कार्यं लक्षणेन समन्वितः
लोहजै दारुजैर्वाथ कु र्याद्वै पादुकद्वयम् ३०
एवं तु पादुकं प्रोक्तं पिञ्छलक्षणमुच्यते
मयूरपिञ्छै कु र्यात्तु चतुस्तालसुविस्तृतम् ३१
अधोमुखं तु कर्तव्यं अधश्चोर्ध्वमुखं तथा
अधोमुखानां पिञ्छानां मकु टं तु प्रकल्पयेत् ३२
सौवर्णं राजतं ताम्रं तथैव मकु टं भवेत्
पञ्चारत्निप्रमाणेन दण्डस्यादधम स्मृतः ३३
अष्टारत्निप्रमाणस्तु उत्तमो दण्ड उच्यते
तयोर्मध्यममानस्तु दण्डो मध्यम एव हि ३४
एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते
षट् तालं छत्रविस्तारमुत्तमं छत्रमुच्यते ३५
मध्यमं पञ्चतालं स्यात्तालहीनं ततोऽधमम्
मौक्तिकं तु भवेच्छत्रं वस्त्रेण प्रहितं ततः ३६
वस्त्रेण वाथवा कार्यं तालपत्रमथापि वा
छत्रं त्वधोमुखं प्रोक्तं दण्डो वै पिञ्छदण्डवत् ३७
सौवर्णं रत्नसंयुक्तं कु र्यादाभरणानि तु
मकु टं कु ण्डलं चैव हारं के यूरकं तथा ३८
कटकं कटिसूत्रं च पुष्पं पादुकनूपुरम्
कु र्यादुदरबन्धं च ++ च्छसीरं च मेखलाम् ३९
रशनां कर्णपूरं च प्रतिमं च यथार्हकम्
पट्टं च गोलकं चापि लिङ्गमानेन कारयेत् ४०
कृ तेष्वेतेषु जुहुयात् पञ्चब्रह्म षडङ्गकैः
प्रत्येकं तु समिद्भिस्तु घृतेन चरुणा तथा ४१
शतं शतद्वयं वाथ शतत्रयमथापि वा
ततस्सद्येन संग्राह्य वामदेवेन रोपयेत् ४२
भक्त्या वित्तानुसारेण स्नपनं वाथ कारयेत्
एवमाभरणं प्रोक्तं वितानानामथोच्यते ४३
वितानं वस्त्रवत्कुर्यात् विस्तारं वस्त्रमानतः
वस्त्रमात्रमथायामं विचित्रं कारयेद्बुधः ४४
चमर्यैश्चामरं कु र्यात् पिञ्छैश्चापि मयूरजैः
दण्डहस्तप्रमाणं स्यात् पाददण्डप्रमाणतः ४५
हेमं रत्नमयं दण्डं तारं ताम्रमयं तथा
आलोभे दारुदण्डं स्यात् मयूरैः पिञ्छयोजितैः ४६
एवं तु चामरं प्रोक्तं ध्वजलक्षणमुच्यते
क्षौमपट्टदुकू लैर्वा देवाङ्गैश्च विशेषतः ४७
कार्पासं संभवेश्चापि कर्तव्यं तु सलक्षणम्
हस्तमात्रं तु विस्तारं शिखरं स्यात्तदर्धतः ४८
विस्ताराद्यर्धमानं तु पुच्छं कु र्याद्विशेषतः
द्विपुच्छं वा त्रिपुच्छं वा चतुष्पुच्छमथापि वा ४९
कर्तव्यं लक्षणेनैव दण्डं दण्डद्वयार्धकम्
एवं स्थिराणां प्रोक्तं तु लक्षणानां विशेषतः ५०
दारुजानां लयानां च मृण्मयाङ्गां तथैव च
ग्राह्यं परिसमाव्यस्तं कु र्यान्ते तु विसर्जयेत् ५१
लयांशुयाश्चान्न्यतश्च कार्यं तस्य विसर्ज्य च
संस्थिरास्सर्वथा ग्राह्य शुद्धिं कृ त्वा यथोक्तवत् ५२
एवं समासतः प्रोक्तं करणानां तु लक्षणम्
वेणुं जातिपलाशचन्दनतरुं बिल्वस्तथा खादिरं
न्यग्रोधं नृपनालिके रक्रमुकं तालं शमी तिन्त्रिणी ।
माधूकं बकु लं च तत्सुरतरुमेतेषु यत्संभवे-
द्देवेशे वृषभध्वजास्य ++ गुणदण्डायं संकल्पितम् ५३
अष्टबन्धं च सिकतं वसनादी निदाय च
गन्धैर्विलोक्य लिङ्गपीठं च सादयेत् ५४
वस्त्राभ्यां वेष्टयेद्देवं पीठं लाहत वाससा
नालं संपूर्य सिकतैर्मूलेन ससुवर्णकैः ५५
शङ्खसर्जहयालाक्ष षट् चतु चैकभागिका
एकैकलाक्षया तुल्या कर्पासा खरवालुका ५६
लाक्षभागमिता धात्री सर्वं तैलेन पेषयेत्
नवशक्तिमया विद्या त ++ पातसंयुतम् ५७
क्रमुको नालिके रश्च तालो वालंशको मतः
एते वृक्षाश्च हिन्ताला ध्वजदण्डाः प्रकीर्तिताः ५८
अश्माननवहस्तं वा रौद्रसाम्यमथापि वा
मासार्धसदृशं वापि ध्वजदण्डं तु कारयेत् ५९
चन्दनं चम्पकं चैव बिल्वमर्जुनमेव चा
आच्छादिकं तु खदिरं सालनिन्दक एव च ६०
सालवृक्षध्वजं चैव ध्वजदण्डाः प्रकीर्तिताः
हर्म्यमानेन कर्तव्यो ध्वजदण्डशिलामयः ६१
यद्वा पञ्चदशो हस्तं रुद्रसाम्योऽथवा भवेत्
गोपुरोत्सेधतो वापि नवहस्तप्रमाणतः ६२
शततालसमायामं तर्धाशीतितालकम्
तदर्धे हर्म्यमानो वा गोपुरोत्सेध एव वा ६३
पञ्चहस्तप्रमाणो वा नवपञ्चप्रमाणतः
यद्वा द्वादशहस्तश्च छिद्रत्रयसमन्विताः ६४
दण्डाग्रे योजयेद्यष्टिं रज्वा सम्मन्धये स्फु टः
दुकू लपट्टदेवाङ्गकार्पासं वा पटे हितः ६५
नवहस्तपटश्रेष्ठं सप्तहस्तं तु मध्यमम्
अथवा पञ्चहस्तं तु तत्पटे लेखयेद्बुधः ६६
इति स्वायम्भुसूत्रे सङ्ग्रहे करणलक्षण षट्चत्वारिंशतिः पटलः