४५ अद्भुतशान्तिः

अतः परं प्रवक्ष्यामि प्रायश्चित्तं विधिक्रमम्
प्रायो विनाश इत्यर्थः चित्तं सन्धानमिष्यते १
विनाशस्य त सन्धानं प्रायश्चित्तमिति स्फु टम्
कालान्तरगते सर्वे विनश्यन्ति स्वभावतः २
तस्मात्तत्साधनार्थं तु वक्ष्यते सकलं मया
प्रासादपतिते भिन्ने लिङ्गे च पतिते तथा ३
चलिते स्फुटिते लिङ्गे वल्मीकानां च दर्शने
अग्निदग्धे तथा गेहे लिङ्गे दग्धे तथैव च ४
जीर्णे चैव तथा पीठे विश्लिष्टे बन्धनादिभिः
विश्लिष्टे च तले वापि सुधाकर्म विहीनके ५
गजैर्वा चलिते लिङ्गे निम्नगा स्रोतसा तथा
तथापि सूतके स्पृष्टे स्पृष्टे वा तस्करैरपि ६
चण्डालस्पर्शने चापि पतितान्त्यजकश्मलैः
श्वसृगालवराहैश्च कुक्कुटैर्वायसैस्तथा ७
अथान्त्यजातिसंस्पर्शे लिङ्गे गर्भगृहे तथा
परिवारे तु विच्छिन्ने दूषितैर्दूषितैरपि ८
नित्यार्चनविहीने च बलिकर्मविहीनके
होमविहीने च स्नपनाङ्गविहीनके ९
संवत्सरोत्सवे हीने शूलादि पतिते तथा
दशायुधानि विच्छिन्ने प्रायश्चित्तं विधीयते १०
प्रासादं पतिते चैव बालस्थानं च कारयेत्
प्रासादं प्रोक्षणं कृ त्वा प्रोक्षणं कारयेत्ततः ११
प्रासादे वह्निना दग्धे कृ त्वा वै पूर्ववत्ततः
जलसंप्रोक्षणं कृ त्वा ब्राह्मणान् भोजयेत्ततः १२
अग्निना स्फुटिते लिङ्गे जीर्णोद्धारं तु कारयेत्
दूषिते च तथा लिङ्गे दग्धे चापि विशेषतः १३
यथाशक्त्या तथा गव्यैरभिषेकं तु कारयेत्
प्रासादे च तथा भिन्ने संश्लिष्टं कारयेत्ततः १४
पूर्वोक्तेन विधानेन स्नपनं तत्र कारयेत्
पतिते च तथा लिङ्गे स्फुटिते चलिते तथा १५
व्यपोह्य लिङ्गं पूर्वस्थं लिङ्गं तु स्थापयेन्नवम्
प्रासादे वाथवा गर्भवल्मीकं तत्र दृश्यते १६
तत्प्रदेश खनित्वा तु पूरयेद्वालुके तथा
यथापूर्वं ततः कृ त्वा स्नपनं कारयेत्ततः १७
अग्निना स्फुटिते लिङ्गे जीर्णोद्धारं तु कारयेत्
मूर्तिहोमं ततः कृ त्वा स्नपनं कारयेदथा १८
जीणे चापि तथा लिङ्गे कृ त्वा पीठं तथैव च
जलसंप्रोक्षणं कृ त्वा ब्राह्मणान् भोजयेदथा १९
विश्लिष्टे च तथा पीठे कारयेदष्टबन्धनम्
लाक्षासर्जरसं सिक्तं कु रुविन्दं सुगुग्गुलम् २०
गैरिकागुलतैलं च अष्टबन्धं प्रकीर्तितम्
अन्त्यभागविवृद्धिस्यात्पाकचिक्कणवद्भवेत् २१
वेलालवङ्ककर्पूरकु ङ्कुमागरुचन्दनैः
लिङ्गमालिप्य सर्वत्र नववस्त्रेण वेष्टयेत् २२
शुद्धिं कृ त्वा ततः पीठं पूरयेद्वालुकैरथ
सुस्निग्धं कारयेदाथ दिशाहोमं तु कारयेत् २३
स्नपनं कारयेत्तत्र यथाविभवविस्तरम्
विश्लिष्टे च तले चापि स्निग्धं कृ त्वा तु पूर्वतः २४
पञ्चमृत्पञ्चगव्यैश्च शुद्धिं कृ त्वा विशेषतः
पञ्चशुद्धिं ततः कृ त्वा पूजयेत्तु विचक्षणः २५
सुधाकर्मविहीने तु गर्भगेहे विशेषतः
सुधाकर्मन्ततः कृ त्वा पञ्चगव्येन पूरयेत् २६
गजैर्वा चलिते लिङ्गे तल्लिङ्गं विधिना पुनः
स्थापये स्थापको विद्वान् चण्डयागसमन्वितम् २७
चलिते च नदीस्रोतैः शतदण्डविसृज्य च
स्थाप्य लिङ्गं शुचौ देशे प्रासादं कारयेदथा २८
प्रतिष्ठां कारयेत्तत्र यथाशास्त्रविनिश्चितम्
प्रतिष्ठितस्य लिङ्गस्य यावद्वै पीठबन्धनम् २९
तावत्प्रतिदिनं कु र्यात् शान्तिहोमं विशेषतः
सूतकै स्पर्शने चापि स्पचनं कारयेदथ ३०
प्रेतकस्पर्शने चापि मूर्तिहोमं तु कारयेत्
स्नपनं कारयेत् तत्र सुबुद्ध्या वै कृ ते तथा ३१
अबुध्वा स्पर्शने चापि मृद्भाण्डानि विसर्जयेत्
पञ्चशुद्धिं क्रमात् कृ त्वा पूजयेत्तु विशेषतः ३२
तस्करस्पर्शने चापि मृद्भाण्डानि विसर्जयेत्
प्रोक्षयेत् पञ्चगव्यैस्तु पुण्याहं तत्र कारयेत् ३३
शान्तिहोमं ततः कृ त्वा स्नपनं तत्र कारयेत्
चण्डालस्पर्शने चापि पतिते चान्त्यजातिभिः ३४
जलसंप्रोक्षणं कृ त्वा चण्डयागं तु कारयेत्
दिशाहोमं ततः कृ त्वा पुण्याहं तत्र कारयेत् ३५
परिवारे तु विच्छिन्ने पुनर्बन्धं तु कारयेत्
तन्मन्त्रेण शतं हुत्वा स्थापयेत् स्वस्वमन्त्रतः ३६
दूषितैः पुरुषैस्पृष्टे प्रोक्षयेत्पञ्चगव्यकैः
पुण्याहं तत्र कृ त्वा तु प्रोक्षयेत्तु शिवाम्भसा ३७
श्वादिभिर्दूषिते चैव परिवारै स्वमन्त्रकैः
पञ्चमृत्पञ्चगव्यैश्च शुद्धिं कृ त्वा तु पूजयेत् ३८
नित्यार्चनविहीने तु सन्ध्यायां द्विगुणार्चनम्
सन्ध्यातिक्रमणे चैव शान्तिहोमं तु कारयेत् ३९
द्विसन्धाभ्यां तु विच्छिन्ने स्नपनं कारयेदथ
पञ्चाहे स्नपनं कृ त्वा शान्तिहोमं तु कारयेत् ४०
अर्धमासे दिशाहोमं स्नपनं चैव कारयेत्
मासादूर्ध्वं तु विच्छिन्ने जलसंप्रोक्षणं तथा ४१
बलिकर्मविहीने तु दिवसे स्नपनं भवेत्
बलिलिङ्गे तु विच्छिन्ने तद्दिशाहोममुच्यते ४२
नित्यं नैमित्तिकं कर्म विच्छेदं संभवेद्यदि
द्विगुणं तत्र कर्तव्यं तच्छान्त्यर्थं विशेषतः ४३
होमकर्मविहीने तु अघोरेण शताहुतीः
स्नपनाङ्गे तु विच्छिन्ने व्यपोह्याभ्यां तु कारयेत् ४४
अर्चयित्वा तु गन्धाद्यैस्तन्मन्त्रैस्तु शतं जपेत्
साधितो कलशे भिन्ने स्फुटिते पतिते तथा ४५
गृहीत्वा नवमन्यं तु साधयित्वा तु पूर्ववत्
तन्मन्त्रेण शतं जप्त्वा पूजयेद्ध्यानसंयुतम् ४६
संवत्सरोत्सवे हीने दिशाहोमं तु कारयेत्
तदग्रे स्नपनं कृ त्वा प्रारम्भेदुत्सवं ततः ४७
ग्रामप्रदक्षिणे काले शूलादिपतनं यदि
तन्मन्त्रेण शतं जप्त्वा पूजयित्वा विधानतः ४८
प्रदक्षिणं ततः कृ त्वा प्रासादं प्रविशेत्ततः
तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा ४९
तत्तन्मन्त्रमनुस्मृत्य जुहुयाद्दोषशान्तये
आयुधानन्तु विच्छेदे तद्रूपं कारयेदथा ५०
हुत्वा तदस्त्रमन्त्रेण पूर्वोक्तं कारयेत्ततः
ध्वजे वा पतिते भिन्ने छिन्ने नष्टेऽथवा पुनः ५१
ब्राह्मणान् भोजयेत्तत्र पुण्याहं वाचयेदथ
स्नपनं तत्र कु र्वीत चण्डयागं तु कारयेत् ५२
ध्वजमुत्थापयेदन्यध्वजोत्थानक्रमेण तु
अथ ब्रह्मैश्शिवाङ्गैश्च विद्याङ्गैश्च शिवेन तु ५३
हुत्वा घोरेण मन्त्रेण जुहुयात्तु शताहुतीः
शान्तिहोममिति ख्यातं सर्वदोषनिकृ न्तनम् ५४
सर्वदोषसमुत्पन्ने अनुक्तेन विधानतः
शान्तिहोमं तु कर्तव्यं विशेषं चापि पूजनम् ५५
प्रासादस्य चतुर्दिक्षु शान्तिहोमं तु कारयेत्
स्थण्डिलं वालुकैः कृ त्वा निर्दोषैर्विधिना ततः ५६
अग्निं प्रज्वालयेत्पूर्वं पञ्चसंस्कारसंस्कृ तम्
प्लक्षोदुम्बरजाश्वत्थवटाः पूर्वादितः क्रमात् ५७
प्रत्येकं तु सहस्रं वा तदर्धं शतमेव वा
तस्यादिभिः क्रमेणैव जुहुयात्तु घृतप्लुतैः ५८
आज्येन चरुणा वापि जुहुयात्तु तथैव तु
ईशानेन तु मन्त्रेण चतुर्दिक्षु घृतप्लुतैः ५९
तण्डुलैस्तिलसंयुक्तैः जुहुयात्तु शताहुतीः
आदावन्ते च कर्तव्यमग्निकार्यविधानतः ६०
दिशाहोममिति ख्यातं प्रायश्चित्तविधौ तथा
अग्रतस्थण्डिलं कृ त्वा सर्वालङ्कारसंयुतम् ६१
अष्टदिक्षु भवाद्यष्टमूर्तिमन्त्रैर्विधानतः
समिदाज्यचरूक्षीरयवैरष्टशताहुतीः ६२
मध्ये तु कलशान् स्थाप्य स्नपयेद्वित्तानुसारतः
मूर्तिहोममिति ख्यातं विशेषं चात्र पूजनम् ६३
एवं यस्तु विधानेन प्रायश्चित्तं समाचरेत्
ग्रामवृद्धिकरं चैव धनधान्यसमृद्धिदम् ६४
इति स्वायम्भुसूत्रे प्रायश्चित्तविधिः चतुश्चत्वारिंशति पटलः
अथाद्भुताना शान्तिस्तु वक्ष्ये दोषनिवृत्तये
भूमिकम्पे दिशां दाहे प्रतिसूर्यप्रदर्शने १
रात्राविन्द्रधनुं दृष्ट्वा दिवा नक्षत्रदर्शने
एवमादि समुत्पन्ने राज्ञो राष्ट्रस्य नाशकृ त् २
शान्तिमेवं समुत्पत्तौ त्रिसप्ताहस्त कारयेत्
प्रासादे पतिते चैव चैत्यवृक्षनिपातने ३
जाते जनपदव्याधौ ग्रामस्यैव विदोषकृ त्
शान्तिं कु र्याद्विसप्ताहमेवमादि प्रदर्शने
प्रासादे तु मधूत्पत्तौ रक्तकन्या समुद्भवेत् ४
प्रविष्टे पिङ्गलोलूके मृगे वल्मीकवायसैः
एवमादि समुत्पन्ने व्यपोह्य सकलं ततः ५
पञ्चगव्येन संप्रोक्ष्य शान्तिं सप्ताहमुच्यते
चतुर्दिक्षु चतुर्वेदैः कु र्यादध्ययनं ततः ६
दिशाहोमं ततः कु र्यार्मूर्तिहोममथापि वा
स्नपनं च तथा नित्यं यथा वित्तानुसारतः ७
याज्ञिकं वृक्षमादाय पार्श्वयोः पृष्ठतस्तथा
कृ त्वा न्त्रिपादिकान् तत्र यथालिङ्गं तु मध्यमम् ८
द्रोणद्वयप्रपूर्णं तु कु म्भं वै सापिधानकम्
सुवर्णनालिकायुक्तं त्रिसूत्रेण विचित्रितम् ९
पञ्चरत्नसमायुक्तं नववस्त्रसमावृतम्
एलालवङ्ककर्पूरत्रपुजातिफलैर्युतम् १०
क्षीरेण चोदके नाथ पूर्णितं तत्र विन्यसेत्
यथा धारा प्रपद्येत पतते लिङ्गमस्तके ११
संपूज्य विधिवद्देवं त्रिकालं चैव विन्यसेत्
शिवकु म्भमिति ख्यातं सर्वदोषनिकृ न्तनम् १२
अनेन शिवकु म्भेन ज्वरमारी विनाशयेत्
आज्यप्रस्थसहस्रैस्तु शतकु म्भेषु पूरयेत् १३
शतरुद्राधिदैवत्यं पूजयित्वा विधानतः
स्नाप्य देवं ततो विद्वान् रुद्रसूक्तं समुच्चरन् १४
ईशान्यां दिशि बाह्ये तु काष्ठैरग्निप्रदीपयेत्
तत्राग्नौ घृतमावर्ज्य दीपयेदिन्धनैस्ततः १५
एवं कृ ते भवेच्छान्तिं सर्वारिष्टविनाशनम्
प्रतिसंवत्सरं चैव यः कु र्यादभिषेचनम् १६
सर्वदोषनिवृ+र्थं सर्वव्याधिहराय च
अद्भुतानि च शम्यन्ति धनधान्यश्च वर्धते १७
गुरून् सर्वान् समुद्धृत्य रुद्रलोके महीयते
इति स्वायम्भुसूत्रे अद्भुतशान्ति पञ्चचत्वारिंशतिपटलः