४३ बलिविधिपटलः

अथ वक्ष्येऽर्चनान्ते तु विधानं बलिकर्मणा
सौवर्णमुत्तमं प्रोक्तं सजतं मध्यमं भवेत् १
अधमं ताम्रपात्रं तु त्रिविधं बलिपात्रकम्
त्रिकालमुत्तमं प्रोक्तं द्विकालं मध्यमं भवेत् २
विस्तारेण समाख्यातं तयोर्मध्यममध्यमम्
तस्य मध्ये त्रिभागैकं कर्णिकाङ्गुलमुच्छ्रितम् ३
परितोऽष्टन्ततः कु र्यात् कर्णिकोच्छ्रयमानतः
शिवाग्रे स्थण्डिलं कृ त्वा दद्यात्पुष्पासनं ततः ४
सर्वशक्तिसमोपेतं कर्णिकादलसंयुतम्
गन्धादिभिस्समभ्यर्च्य पात्रं तत्रैव विन्यसेत् ५
पात्रमध्ये तु कर्तव्यं बलिलिङ्गं विधानतः
पुष्पलिङ्गं तु पूर्वाह्णे प्रदोषार्घ्यं विशेषतः ६
अन्नलिङ्गं तु मध्याह्ने कारयेत् स्वप्रमाणतः
षोडशाङ्गुलमुत्सेधमुत्तमं तत्प्रचक्षते ७
द्वादशाङ्गुलमुत्सेधं मध्यमं समुदाहृतम्
अधमं तु समाख्यातमष्टाङ्गुलसमुच्छ्रितम् ८
उत्सेधं द्विगुणं नाभं मूलं तत्परिकीर्तितम्
अग्रमङ्गुलविस्तारं कृ त्वा सम्पूजयेत्ततः ९
अस्त्रराजानमावाह्य हृदयेनैव मन्त्रतः
चतुर्भुजं त्रिणेत्रं च शिखाकोटिसमुज्ज्वलम् १०
अभयं दक्षिणं चैव वरदं वामहस्तकम्
गृहीत्वा शूलदण्डाग्रं दक्षिणेन करेण तु ११
त्रिशूलं दण्डमूलाग्रं वामेनैव करेण तु
गृहीत्वा रौद्रदृष्टिस्तु कु र्यात्पाशुपदास्त्रकम् १२
ईशानादि समभ्यर्च्य सद्येनार्घ्यं तु कल्पयेत्
गन्धादिभिस्समभ्यर्च्य ततो घण्टां प्रहारयेत् १३
सोष्णीषस्सोत्तरीयस्तु सर्वदेवमनुस्मरन्
बलिपात्रं समादाय धारयेच्छिरसा हृदा १४
प्रदक्षिणं ततः कृ त्वा तूर्यशङ्खरवैर्युतम्
वितानच्छत्रसंयुक्तं पिञ्छचामरसंयुतम् १५
धूपदीपसमायुक्तं शनैः कु र्यात् प्रदक्षिणम्
किङ्किणीतालवाद्यं तु प्रथमे तु प्रदक्षिणम् १६
ततोऽष्टपरिवाराणां द्वितीये तु प्रदक्षिणम्
वृषस्य वृषतालं तु सोमस्याथ च ढङ्किणी १७
मातॄणां चन्द्रवाद्यं च विघ्नेशस्य तु ढङ्करी
षण्मुखस्योत्कटं चैव ज्येष्ठायां कु न्त्रितालकम् १८
तलप्रहारं दुर्गायां विषमं छिन्नचण्डके
साङ्करी बलिपीठस्य प्रविश्याह्यन्तरं ततः १९
इन्द्रस्य समतालं तु आग्नेर्मन्त्रापणं तथा
यमस्य भृङ्गिनीतालं नैरृत्यामुल्लतालकम् २०
वारुणे नवतालं तु वायव्यां बलितालकम्
सौम्ये तद्घोटरागं तु ईशान्यां चैव ढङ्करी २१
एवं वाद्यविशेषेण त्रिः कृ त्वाथ प्रदक्षिणम्
ततः प्रदक्षिणं कु र्यात् प्रसादेन्द्रादिदैवतम् २२
प्रविश्य गर्भगेहं तु तच्चार्घ्यं पुरुषेण तु
हृदयेणास्त्रराजानं ततो मन्त्रविसर्जयेत् २३
ततोपहारं चण्डायां चण्डमन्त्रेण दापयेत्
यदा प्रदक्षिणे काले लिङ्गं पतति यत्र तु २४
तत्र होमं प्रकर्तव्यं तन्मन्त्रेण शताहुतीः
त्रिकालदिवसे हीने स्नपनं कारयेत्ततः २५
बलिवाद्यं ततः कृ त्वा भूता नागाश्च राक्षसाः
सिद्धविद्याधरश्चैव यातुधानाश्च किङ्कराः २६
ग्रामबाह्यं ततो गत्वा धनधान्यसमृद्धिदम् २७
इति स्वायम्भुसूत्रे बलिविधिपटल चत्वारिंशत्