४२ नैवेद्यप्रमाणम्

अथ वक्ष्ये प्रमाणं तु नैवेद्यस्य विधानतः
भक्त्या वित्तानुसारेण नैवेद्यं तु प्रकल्पयेत् १
पूर्वं पक्वं तु यद्द्रव्यं भोज्यं दत्वा शिवस्य तु
वर्धते तस्य तद्धान्यं फलपुष्पादयस्तथा २
अदत्वा तु शिवस्याथ यद्भुक्तं क्षीयते धनम्
आपेल भवति वा तुल्यं फलमप्यदरिद्रयोः ३
दत्वा शिवस्य नैवेद्य कल्याणं कारयेद्बुधः
अदत्वा तु कृ तं यत्तु कल्याणमशुभाय वै ४
कल्याणं नैव कल्याणं कृ तं चापि विनश्यति
कर्तव्यं सकलं नॄणां नैवेद्यं विधिपूर्वकम् ५
शालीनां तण्डुलश्रेष्ठं यवं वेणु भवस्तथा
अलाभे चैव सर्वेषां व्रीहीणां तण्डुलैस्तथा ६
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यत्
शुक्तिमात्रमिति ख्यातं मानं तेनैव कल्पयेत् ७
तद्वयं तलमित्युक्तं प्रकु ञ्च स्यात्तलद्वयम्
प्रसृतिस्तु द्वयं प्रोक्तं कु डुपं प्रसृतिद्वयम् ८
अञ्जलिस्तु द्वयं प्रोक्तं प्रस्थ स्यादञ्जलिद्वयम्
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्वयं भवेत् ९
तद्वया शिवमित्युक्तं द्रोणं विद्याच्छिवद्वयम्
द्रोणद्वयं भवेत्खारी भारं स्वा त्रयं भवेत् १०
उत्तमं स्याच्छतद्रोणं तण्डुलैः कथितं हविः
तदर्धं मध्यमं प्रोक्तमधमं तु तदर्धकम् ११
एवं विशेषतः प्रोक्तं नित्यानामधुनोच्यते
उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु तण्डुलैः १२
अधिकं यद्भवेत्तस्मात् प्रोक्तं सर्वं महाहविः
षड्द्रोणैस्तण्डुलं प्रोक्तं हविरुत्तममध्यमम् १३
द्रोणं हीनं हविस्तस्मादुत्तमाधममिष्यते
द्रोणेन तण्डुलेनाथ नैवेद्यमधमोत्तमम् १४
तस्य मध्यममित्युक्तमाढकद्वयसंमितम्
आढके न तु संस्निग्धमधमाधममुच्यते १५
तण्डुलैराढके हीनं नैवेद्यन्नं प्रकल्पयेत्
चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते १६
प्रस्थं कु डुपसंयुक्तपिशाचानां बलिर्भवेत्
गन्धवर्णरसैर्दुष्टा अग्राह्या तण्डुलास्तथा १७
प्रक्षाल्य तण्डुलान् सम्यक् निष्पी च मुहुर्मुहुः
सकृ त् प्रक्षालयेत् सम्यक् षडङ्गेन तु मन्त्रतः १८
ज्ञात्वा तु युक्तितस्सम्यक् सद्येन प्रक्षिपेज्जलम्
उद्धृत्य वामदेवेन तण्डुलानर्चयेद्धृदा १९
विन्यस्याग्निमघोरेण अस्त्रेणाग्निं प्रदीपयेत्
पिपीलिकाश्रितैश्चापि क्रिमिकोटरसंयुतैः २०
विष्फुलिङ्गयुतैश्चापि काष्ठैरग्निर्न दीपयेत्
धूम्रवर्णपरिक्लिन्नमतिपक्वं च शीतलम् २१
के शकीटोपविद्धं च त्यजेत् पर्युषसिस्तथा
एवमुक्तस्तु शुद्धान्नं पायसं चाधुनोच्यते २२
तण्डुलद्विगुणं क्षीरं मुद्गं स्यात्तण्डुलार्धकम्
पाचितं पायसं प्रोक्तं गुडान्नमधुनोच्यते २३
पायसं पूर्ववत्कृ त्वा चतुर्भागं गुडं क्षिपेत्
गुडार्धं प्रक्षिपेदाज्यं गुडान्नमिति कीर्तितम् २४
तण्डुलार्धं तु मुद्गा स्युः मुद्गान्नमिति कीर्तितम्
मरीचरजनीयुक्तं जीरकं सर्षपं तथा २५
आलोड्य पाचितं ह्येतत् हरितालं प्रकीर्तितम्
हविषा भेद इत्युक्तः प्रवक्ष्याम्युपदंशकः २६
मुद्गं शिम्बकु लस्थं च राजमाषाढकी तथा
कदलीपनसं चाथ कू श्माण्डं बृहती तथा २७
त्रपुषोर्वारुकं चाथ कालिङ्गन्तं विशेषतः
कन्दमूलफलं चान्ये रासाढ्या उपदंशकान् २८
गुडखण्डसमायुक्तमाज्ययुक्तं दधीघृतम्
हविः कृ त्वा चतुर्भागमूर्ध्वभागं निवेदयेत् २९
सौवर्णराजते पात्रे कांस्यो वापि निवेदयेत्
पञ्चब्रह्म समुच्चार्य नैवेद्यं तु निवेदयेत् ३०
वामदेवेन मन्त्रेण दद्यादाचमनीयकः
तदर्धं बलिदानार्थमन्नं गन्धादिकं तथा ३१
गृहीत्वा द्वारपार्श्वे च महाकालाय दापयेत्
नन्दिं समर्च्य ते तस्य बलिं दद्याद्वृषादिकम् ३२
अक्षिद्वयप्रमाणं तु बलिदानं प्रकीर्तितम्
द्वारस्य दक्षिणे पार्श्वे नन्दीशाय प्रदापयेत् ३३
द्वारस्य वामपार्श्वे तु महाकालाय दापयेत्
वृषभाय ततो दद्यात् पुरतोऽग्नौ तु सौत्रिकम् ३४
याम्ये मातृगणानां तु विघ्नेशाय तु नैरृते
स्कन्दाय वारुणे भागे ज्येष्ठायै वायुगोचरे ३५
दुर्गायै सौम्यदिग्भागे ईशान्यां भास्कराय तु
ततः पुरस्थिते पीठे बलिं दत्वा विशेषतः ३६
यक्षराक्षसपैशाचाभूतगन्धर्वकिन्नराः
पितृदानवनागाश्च ब्रह्माद्यैशानमन्त्रिकम् ३७
प्रणवाद्यं चतुर्थ्यन्तं स्वनामपदमध्यगम्
स्वाहान्तं बलिनिर्देशं सर्वेभ्य इति योजयेत् ३८
ततो गर्भगृहं गत्वा दद्यादाचमनीयकम्
निर्माल्यं तु समादाय चण्डेशाय निवेदयेत् ३९
चण्डस्याचमनं दद्यान्निर्माल्यं तु विसर्जयेत्
ततोऽग्निकार्यमाग्नेय्यं कु र्याद्घृतसंप्लवम् ४०
परिस्तीर्य ततो दर्भैः कृ त्वा तु परिषेचयेत् ४१