अतः परं प्रवक्ष्यामि स्नपनं शङ्करस्य तु
प्रासादस्याग्रतः कु र्यान्मण्टपं चतुरश्रकम् १
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा
दशहस्तं तु विप्राणां विंशद्धस्तं नृपस्य तु २
अष्टहस्तं तु वैश्यानां शूद्राणां सप्तहस्तकम्
पङ्क्तित्रयसमायुक्तं पङ्क्तिमानमथोच्छ्रयम् ३
द्वितालनाभं स्तम्भानां अधौ भूमौ तु हस्तकम्
गोमयालेपनं कृ त्वा प्रोक्षयेद्धृदयेन तु ४
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम्
अष्टस्तम्भचतुष्कोणे स्थापयेदधिदैवतम् ५
बाह्यानां द्वादशानां तु द्वादशादित्यसंयुतम्
पूजयित्वा स्वनाम्ना तु पूजयेत्तोरणस्ततः ६
तोरणं पञ्चहस्तं स्याच्छूलं वै हस्तमानतः
विस्तारं पञ्चहस्तार्धं भूमौ हस्तं निखानयेत् ७
भद्रं च विजयं चैव विजृम्भो लोहितस्तथा
पूर्वादिक्रमयोगेन स्वनाम्ना पूजयेत्पृथक् ८
दर्भमालां समावृत्य समन्तान्मण्डपस्य तु
त्रिचतुः पञ्चभिर्दर्भैर्वेकहस्तप्रलम्बितैः ९
एकाङ्गुलपरीणाहं रज्जुं कु र्यान्मनोहरम्
अष्टदिक्षु ध्वजान्यष्टौ लम्बयेत्तु प्रदक्षिणम् १०
पूर्वायां नीलवर्णं तु रक्तमाग्नेयगोचरे
कृ ष्णवर्णं तु याम्यायां नैरृत्यां पिङ्गदीधितिः ११
वारुण्यां धूम्रवर्णं तु वायव्यां श्वेतवर्णकम्
हरिद्रां चैव सौम्यायामीशान्यां चित्रवर्णकम् १२
पूजयित्वा यथान्यायं लोकपालाधिदैवतम्
वितानमूर्ध्वमाच्छाद्य पुष्पमाल्यै प्रलम्बयेत् १३
द्वारपार्श्वेषु कोणेषु पालिकादीनि विन्यसेत्
पालिका भावयेद्विष्णूः घटिकासु चतुर्मुखः १४
शरावेषु भवेदीशो गन्धाद्यैस्तां प्रपूजयेत्
मङ्गलाष्टकरूपाणि पूर्वाद्या स्थापयेत्क्रमात् १५
दर्भणं पूर्णकु म्भं तु वृषभं युग्मचामरैः
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् १६
याज्ञिकं वृक्षमादाय कारयेत्स्वप्रमाणतः
षोडशाङ्गुलमायामं विस्तारं तु तदर्धकम् १७
अधस्तात्पद्मपीठं तु चतुरङ्गुलमानतः
तदूर्ध्वे दर्पणादीनि कारयेदथ लेखयेत् १८
दर्पणे दर्शन्नं चैवा पूर्णकु म्भे तु कु म्भकम्
वृषभे वृषभश्चैव व्यजने युग्मचामरैः १९
श्रीवत्से चैव श्रीदेवी स्वस्तिके तु सरस्वती
शङ्खे तु विमल प्रोक्तो दीपे तु ज्वलनस्मृताः २०
स्वस्वनाम्न समभ्यर्च्य सूत्रं पात्रं तु कारयेत्
चतुर्दश च सूत्राणि प्राङ्मुखानि समर्पयेत् २१
उदङ्मुखानि सूत्राणि तावदेव हि निर्दिशेत्
एवं कृ ते पदानि स्युः नवषष्ठीपदान् न्यसेत् २२
पञ्चविंशतिमध्ये तु कृ त्वैकमभितस्त्यजेत्
दिक्षु पङ्क्ति दशा प्रोक्तो नवकोणेषु संस्थिताः २३
तेषु पञ्चदशस्वैवा त्रीणि मध्येऽन्तरे त्यजेत्
एवं कृ ते शिवपदं त्यक्त्वाष्टशत ++ २४
पञ्चमृत्पञ्चगव्यैश्च प्रोक्षयित्वा हृदा पुनः
स्थण्डिलं कारयेत्तत्र शालिभिर्विमलैस्तथा २५
प्रत्येकमाढकश्चैव शालिभिश्चोत्तमं भवेत्
त्रिःप्रस्थार्धं तु मध्यं स्यात्त्त्रिःप्रस्थमधमं भवेत् २६
द्रोणं तु शिवकु म्भस्य वर्धन्यास्तु तदर्धकम्
कलशस्य प्रमाणं तु एवमेव सलक्षणम् २७
सुवृत्तं द्रोणपूर्णं तु शिवकु म्भं भवेत्ततः
तस्यार्धैः परिपूर्णं तु वर्धनी समुदाहृता २८
अलङ्कृ त्य तु सर्वत्र तदर्धैस्तण्डुलैस्ततः
जपापुष्पतिलैर्दर्भैर्विकिरेत् समलङ्कृ ते २९
व्यूहेषु नवसु प्रोक्तो शिवव्यूहेति मध्यतः
ऐन्द्रेत्वधर्ममित्युक्ता आग्नेयां धर्म उच्यते ३०
अज्ञानं दक्षिणे चैव ज्ञानं वै निरृतेन्तथा
पश्चिमे तु अवैराग्यं वैराग्यं वायुदेशके ३१
अनैश्वर्यं तु सौम्यायामैश्वर्यं चेशगोचरे
गन्धाद्यैरर्चयेद्यूहा स्वस्वनाम्ना विशेषतः ३२
प्रोक्षयेद्धृदयेनैव सर्वत्र सकु शोदकैः
ब्रह्मघोषसमायुक्तं शङ्खभेरीरवैस्सह ३३
गीतवाद्यरवैर्युक्तं ततस्नपनमारभेत्
तन्तुना चित्रयेत् कु म्भान् एकद्वित्रिकतन्तुभिः ३४
एकद्वित्रितयान्तर्यं रुद्रोमाशिवकु म्भकान्
बाह्यतः कलशान् सर्वान् प्रक्षाल्याधोमुखांस्तथा ३५
ऊर्ध्वाधो दर्भसंयुक्तान् प्रोक्षयेत्पुरुषेण तु
पूरयेद्गन्धतोयेन शिवकु म्भं तु वर्धनीम् ३६
ततः शिवाख्यं कलशं वस्त्रयुग्मसमावृतम्
पञ्चरत्नसमायुक्तं सकू र्चं सापिधानकम् ३७
पञ्चविंशाङ्गुलायामैर्दर्भैर्विंशतिपञ्चभिः
दक्षिणावर्तग्रान्थिस्तु उत्तमं कू र्चमुच्यते ३८
द्श पञ्चाङ्गुलायामैर्दर्भैस्तु दशपञ्चकैः
कू र्चं तु मध्यमं प्रोक्तं कथितं तु प्रमाणतः ३९
द्वादशाङ्गुलमायामं सप्तदर्भैः कनीयसा
उत्तमं शिवकु म्भस्य वर्धन्यां मध्यमं भवेत् ४०
अधमं चैव शेषाणां कलशानां तु कू र्चकम्
उत्कूर्चं पौष्टिकं चापि अधःकू र्चं तु शान्तिकम् ४१
अन्तः कू र्चं न कर्तव्यं मारणं तेन जायते
आचार्यङ्गुलमानेन सर्वकर्माणि कारयेत् ४२
अष्टहस्तायनं चैव विस्तारं तु द्विहस्तकम्
श्लक्ष्णं मनोहरं चैव वस्त्रमुत्तममुच्यते ४३
अष्टर्द्व्यहस्तविस्तारं मध्यमं सप्तहस्तकम्
षड्ढस्तायामविस्तारमेकहस्तं सविस्तृतम् ४४
वस्त्रं तु कन्यसं प्रोक्तं यथाविभवमुच्यते
माणिक्यमुक्तावैडूर्यमिन्द्रनीलप्रवालकम् ४५
पञ्चरत्नमिति प्रोक्तं ग्राह्यालाभे हिरण्मयम्
षडङ्गुलसुविस्तीर्णं विधानकमिति स्मृतम् ४६
एवं संस्कृ त्य विधिवत् सद्यमन्त्रसमुच्चरन्
सकलं शिवरूपं तु ध्यात्वा तु सकलीकृ तम् ४७
सङ्गृह्य वामदेवेन स्थापयित्वा विचक्षणः
अघोरेण ततो विद्वान् अस्त्रेणैवावकु ण्ठयेत् ४८
तालमुद्रां ततः कृ त्वा बीजमुद्रां तथैव च
पद्ममुद्रां ततो बध्वा शिखराख्यं तथैव च ४९
हृदयेणैव मन्त्रेण स्थापये स्थण्डिलोपरि
गन्धाद्यैरर्चयित्वा तु स्थाप्यमष्टोत्तरं शुभम् ५०
सकू र्चं सापिधानं च सद्रव्यं सापि दैवतम्
पञ्चावरणमार्गेण स्थापयेत्तु प्रदक्षिणम् ५१
पाद्यमाचमनं चार्घ्यं पञ्चगव्यं कु शोदकम्
क्षीरं दधि घृतं चैव प्रथमावरणे तथा ५२
मधुलाजसकृ च्चूर्णं लाजचूर्ण हरिद्रकम्
भस्ममिक्षुरसं चैव कदलीफलमेव च ५३
तिलं वै सर्षपं चैव पनसं नालिके रकम्
नारङ्गद्वितयं चैव मातुलङ्गं च डाडिमी ५४
एतानि षोडशा प्रोक्ता द्वितीयावरणे तथा
पूजितं कलशा ह्येतैः यथालाभेन वा पुनः ५५
प्रक्षिप्य जलसंपूर्णान् कलशान् विन्यसेत्क्रमात्
चन्दनं लघुकोष्ठं च खचोरं पुष्पपत्रकम् ५६
कर्पूरहिरिवेरं च दान्तमांसी मुरं तृणाम्
तृतीयावरणे ह्येते द्वादशः परिकीर्तितः ५७
चम्पकं सहदेवीं च शतपत्री च रोपहा
बिल्वं शमी यवा दूर्वा तक्कोलं मेघमेव च ५८
धात्री शौचफलैला च लक्ष्मीं स्थूलारविन्दकम्
रास्ना चा व्यापलाशं च श्वेतार्कं करवीरकम् ५९
धातकी च तथा द्रोणा धुत्तूरं लोध्रमेव च
अपामार्गं च पार्थं च प्लक्षं वै हस्तिपिप्पली ६०
विष्णुक्रान्ती तथा चैव अश्वत्थं नागके सरम्
चतुर्थावरणा ह्येते पूर्वाद्याश्च प्रदक्षिणम् ६१
तुलसी तगरुं चूर्णा तुरुष्कं ते ते गजी तथा
विलङ्गं जीरकं चैव करवी च हरेणकम् ६२
श्रीवेष्टकं गन्धरसं फलनी रक्तचन्दनम्
सौरीयकं व्याघ्रनखं वल्लकी चतुरङ्गुलम् ६३
दर्वी शुक्तिनखी चारु सिता चैव कु टन्नटम्
गुग्गुलुं चैव मुद्वा चा श्रीसिरोगिरिकर्णिका ६४
पटशृङ्गे द्वयावाभ्यां वर्णजम्बू मनश्शिला
शङ्खिनी भृङ्गराजश्च नीवारं गैरिकं तथा ६५
आम्रमोजरसं चापि जाजीपाटलिमर्ज्जुनम्
पञ्चमावरणे ह्येते प्रोक्ताः पूर्वादितः क्रमात् ६६
एवं द्रव्यं समाख्यातं देवता वक्ष्यतेऽधुना
अधर्मादी च धर्मादिप्रथमावरणे तथा ६७
विद्येशान् लोकपालांश्च द्वितीयावरणे तथा
लोकपालास्तथा दिक्षु विद्येशास्तु विदिक्षु च ६८
तृतीयं द्वादशादित्यं वास्तुबाह्ये चतुर्थके
पञ्चमावरणे प्रोक्तमनुपूर्वक्रमेण तु ६९
भवोऽनन्तो महेशं च यज्ञो वामस्तथैव च
पूर्वे पञ्चदशा प्रोक्ता पूर्वायां दिशि संस्थिताः ७०
शर्वश्चैव त्रिमूर्तिश्च पावकः शक्तिमेव च
ज्येष्ठा च पञ्चमः प्रोक्ता आग्नेयां दिशि संस्थिताः ७१
पशोः पतिस्तथा सूक्ष्मा यमो दण्डस्तथैव च
रुद्रास्तु पञ्चमः प्रोक्तो याम्यायां दिशि संस्थिताः ७२
उग्रश्चैव तु श्रीकण्ठो निरृती खड्ग एव च
कालस्तु पञ्चमः प्रोक्तो निरृत्यां दिशि संस्थिताः ७३
रुद्रश्शिवोत्तमश्चैव वरुणः पाश एव च
कलविकरणश्चैव वारुण्यां दिशि संस्थिताः ७४
भीमश्चैव शिखिण्डी च वायुश्चाथ ध्वजस्तथा
बलप्रमथनश्चैव सौम्यायां दिशि संस्थिताः ७५
ईश्वरश्चैव रुद्रश्च ईशानश्शूल एव च
मदनस्सर्वभूताद्यामीशान्यां दिशि संस्थिताः ७६
गन्धाद्यैरर्चयित्वा तु स्वनाम्ना देशिकोत्तमः
अर्घ्यं दत्वा यथान्यायं तत स्नपनमारभेत् ७७
लिङ्गपीठस्थलानां तु शुद्धिं कृ त्वा विचक्षणः
देवतानामधेयेन स्नाप्य लिङ्गं परावरम् ७८
व्योमव्यापि समुच्चार्य आवृतोऽन्तेऽभिषेचयेत्
अथार्चनविधिप्रोक्तं सर्वमन्त्रैस्तु कारयेत् ७९
पञ्चाथावरणैर्वाथ चतुर्भिर्वास्त्रिभिस्तु वा
बाह्यमावरणाह्य वा प्रथमावरणेन वा ८०
देवताद्रव्यसश्वन्धमेवमेव प्रयोजयेत्
यथालाभैर्बुधः कु र्यादात्मा वित्तानुसारतः ८१
हविर्दद्याद्विशेषेण शुद्धान्नं पायसं तथा
गुलान्नं चेति मुद्गान्नं हरिद्रं चेति पञ्चधा ८२
आचार्यं पूजयित्वा तु यथावद्विधिपूर्वकम्
पूजानान्तः क्रियाः सर्वां यथावद्विधिपूर्वकम् ८३
देवार्चनरतः कु र्युः सफलत्वमवाप्नुयुः
क्रिया पूजनया हीना निष्फलत्वं सदा भवेत् ८४
क्रिया शरीरमित्युक्तः पूजना जीवमुच्यते
क्रिया पूजनया हीना निर्जीवं तु स निष्फलम् ८५
क्रिया वैकल्प्यता चापि पूजायां सकलं भवेत्
अङ्गहीनो यथा मर्त्यः चिरं जीवति जीवन् ८६
एवं कृ ते महाशान्ति राज्ञो राष्टस्य निश्चया
धनधान्यप्रवृद्ध्यर्थं भोगमोक्षप्रदायका ८७
इति स्वायम्भुसूत्रे एकचत्वारिंशतितमः पटलः