४० उत्सवविधिः

अथोत्सवविधिं वक्ष्ये यथावदनुपूर्वशः
शैवं गौणं विभूतिं च भौवनं दैविकं तथा १
एकाहमुत्सवं शैवं त्रिदिनं गौणमुच्यते
पञ्चाहं हौत्रिकं प्रोक्तं सप्ताहं भौवनं तथा २
नवाहं दैविकं प्रोक्तमुत्सवः पञ्चधोच्यते
ध्वजारोहणपूर्वं तु भेरीताडनपूर्वकम् ३
अङ्कुरार्पणपूर्वं च त्रिविधास्ते भवन्ति हि
ध्वजमारोपयेदह्नि भेरीं रात्रौ तु ताडयेत् ४
उत्सवस्यादिरात्रौ तु बीजनिर्वाप उच्यते
ध्वजारोहणपूर्वं तु प्रोक्त एवं विधिस्मृतम् ५
भेरीं तु ताडयेञ्चादौ ध्वजमारोपयेत्ततः
एवं विधिस्तथा प्रोक्तं भेरीताडनपूर्वकम् ६
कृ त्वाङ्कुरार्पणं पूर्वं ततो भेरीं तु ताडायेत्
ध्वजारोपणमन्त्रे तु कर्तव्यं प्रथमं निशि ७
एवं समासः प्रोक्तमङ्कुरार्पणपूर्वकम्
आदौ तत्त्रितयेष्वेषु न ध्वजारोपणक्रिया ८
भौवने दैविके चापि ध्वजारोपणमारभेत्
नवाहत्रितये चापि सप्ताहत्रितयेऽपि वा ९
प्रासादं पुरतो विद्वान् मण्टपे संस्कृ ते शुभे
गोमयालेपनं कृ त्वा प्रोक्षयेत् पुरुषेण तु १०
स्थण्डिलत्रितयं कु र्यात् शालिभिर्विमलैस्तथा
तण्डुलैश्शोभितं कृ त्वा दलाष्टकसमन्वितम् ११
परिस्तीर्य ततो दर्भैः लोकपालान् समर्चयेत्
अन्तिके स्थण्डिले स्थाप्य ध्वजं लक्षणसंयुतम् १२
षड्ढस्तमधमं प्रोक्तं मध्यमं सप्तहस्तकम्
उत्तमं चाष्टहस्तं स्यात्पञ्चभागैकविस्तृतम् १३
विस्तारेण समुत्सेधं तदर्धं शिखरं भवेत्
वृषभं चामरं छत्रं तन्मध्ये लाञ्छयेत्ततः १४
एवं लक्षणसंयुक्तमर्चयेद्वृषमन्त्रकैः
तीक्ष्णशृङ्गाय विद्महे वेदपादाय धीमहि
तन्नो वृषभ प्रचोदयात् १५
एतन्मन्त्रं जपित्वा तु गन्धाद्यैर्वृषमर्चयेत्
तदग्रे स्थण्डिले सम्यक्कलशा सादये नवा १६
विद्येश्वरसमायुक्तान्मध्ये वृषभदेवताम्
सकू र्चं सापिधानं च सहिरण्यं सवस्त्रकम् १७
गन्धाद्यैरर्चयित्वा तु स्वैस्स्वैर्मन्त्रैर्विशेषतः
तदग्रे स्थण्डिले स्थाप्य भेरीवस्त्रसमायुतम् १८
दक्षिणे विष्णुमभ्यर्च्य वामे शैवस्तथार्चयेत्
मध्ये प्रजापती पूज्य प्रहरे स्कन्ददैवताम् १९
अर्चयित्वा तु गन्धाद्यैर्वाद्यं गायत्रि मन्त्रतः
आचार्यं पूजयेत्कृ त्वा वाद्यकं पूजयेदथा २०
हृन्मन्त्रेण समभ्यर्च्य पुष्पं हस्ते विधापयेत्
पुष्पं तत्र विनिक्षिप्य वाद्ये तालवितालके २१
स्नपनं तत्र कर्तव्यं स्वैर्मन्त्रैर्वृषभं ततः
ध्वजारोपणपूर्वे तु स्थण्डिलद्वितयं भवेत् २२
कलशस्थापनस्यैकं ध्वजस्यैकं विधीयते
शङ्खदुन्दुभिनिर्घोषैर्गीतवाद्यसमायुतम् २३
पिञ्छचामरसंकीर्णं धूपदीपसमाकु लम्
सर्वालङ्कारसंयुक्तं त्रिशूलेन समन्वितम् २४
ग्रामं प्रदक्षिणं कु र्यात् साधिदैवान् समर्चयेत्
अष्टादशरणाश्चैव त्रयत्रिंशच्च देवताः २५
आहूय लोकपालां च बलिं दद्याद्विशेषतः
आश्राव्य तीर्थदिवसमाचार्यप्रीतमानसः २६
मार्गशीर्षं च मासे तु आर्द्रान्तस्तु शिवोत्सवम्
पुष्यमासे तु पुष्यान्तमाघमासे मघान्तिकम् २७
फल्गुने चोत्तरान्तस्तु चैत्रे चित्रान्त उच्यते
वैशाखे तु विशाखान्तं मूलान्तो ज्येष्ठमासके २८
आषाढे चोत्तराषाढं श्रावणे श्रवणान्तिकम्
तथा भाद्रपदे मासि उत्तराभाद्रिकावधिः २९
अश्विन्यान्तेऽश्वयुङ्मासे कार्तिके कृ त्तिकान्तिकः
सर्वमासे तु कर्तव्या आर्द्रान्तस्तु शिवोत्सवः ३०
उत्सवं तु प्रतिष्ठायां यावत्सप्तदिनान्तरम्
राज्ञा जन्मदिनान्तश्च मरणन्तोऽथव भवेत् ३१
पीठगोपुरयोर्मध्ये पुरतो वृषभस्य वा
अध्यर्धरत्निमात्रं तु खात्वा लिप्यावटं द्बुधः ३२
कू र्मं वा वृषभं वाथ हैमं तत्र विनिक्षिपेत्
वेणुदण्डमृजुं स्थाप्य प्रासादसमदीर्घकम् ३३
वृषगायत्रिमन्त्रेण ध्वजघण्टासमायुतम्
आरोपयेत्ततो मन्त्री यजुमन्त्रेण वित्तमः ३४
चम्पको देवदारुश्च सालस्तबक एव च
क्रमुकं चन्दनञ्चेति ध्वजदण्डाः प्रकीर्तिताः ३५
गन्धादिकं ततो दत्वा मुद्गान्नं तु निवेदयेत्
तस्य मूले तु कर्तव्यां वेदिं पद्मसमावृतम् ३६
रत्निमात्रसमुत्सेधद्विगुणं चैव विस्तृतम्
एवं प्रत्यहमभ्यर्च्य सघृतं गुलसक्तु कम् ३७
मुद्गान्नं दापयेद्धीमान् स्वमन्त्रैद्धृदयेन तु
ततोऽङ्कुरार्पणं कु र्यादुत्सवस्य दिने ततः ३८
प्रत्यग्रे मण्टपं कु र्यादीशान्या पावके तथा
नवहस्ताष्टहस्तं वा सप्तहस्तमथापि वा ३९
तत्र ब्राह्म्यपदं कु र्यां वेदिकारत्निमात्रतः
कलशान्वेदिकामध्ये न्यसेद्वै स्थण्डिलोपरि ४०
विधाने वस्त्रकू र्चाढ्या सहेमापल्लवैर्युतान्
शिवकु म्भं न्यसेन्मध्ये वर्धनी तस्य वामतः ४१
परितोऽष्टौ न्यसेत्तत्र विद्येश्वरसमायुतान्
अर्चयित्वाथ गन्धाद्यै स्वस्वमन्त्रैर्विधानतः ४२
दशायुधानि परितः पूजयेत्साधिदेवताः
अष्टमङ्गलरूपाणि वेदिबाह्ये तु तान् क्रमात् ४३
तोरणानि ध्वजान्यत्र पूजयेच्च विधानतः
दर्भमालासमायुक्तं सर्वालङ्कारसंयुतम् ४४
कु र्यादायतनान्यत्र नव पञ्चैकमेव चा
वृत्तं वा चतुरश्रं वा सर्वकु ण्डानि कारयेत् ४५
पर्यग्निकरणं कृ त्वा पुण्याहं तत्र कारयेत्
गन्धाद्यैरर्चयित्वा तु होमं कु र्याद्विधानतः ४६
समिधाज्य चरून् लाजान् वेणुबिल्वयवस्तथा
प्रत्येकं शतमर्धं वा जुहुयात् क्रमशः पुनः ४७
समिधं पञ्चमेनाथ वस्त्रेणाज्यं तथैव च
अघोरेण चरुं हुत्वा लाजान् होमेन वामयेत् ४८
सद्येन वेणुबीजानि बिल्वपत्रं तथा हृदा
वक्त्रेण तु यवान् हुत्वा प्रत्येकं व्याहृतिस्तथा ४९
पूर्णाहुतिस्तु शिरसा प्रतिद्रव्यं विधानतः
सर्वद्रव्यसमायुक्तं हव्यवाहान् समुच्चरन् ५०
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम्
जयादिरभ्यातानानि राष्ट्रभृच्च यथाक्रमम् ५१
हुत्यन्तेति यदस्येति जुहुयात्तु विशेषतः
सायं प्रातर्बलिं दद्याद्धोमान्ते तु विधानतः ५२
तालकाहल तूर्यैश्च ध्वजैश्च परिशोभितम्
बलिपात्रे ततःकु र्यादन्नलिङ्गं विधानतः ५३
द्वादशाङ्गुलमुत्सेधं नाभं तद्द्विगुणं भवेत्
अग्रं तु द्व्यङ्गुलं तारं दधिमालिप्य सर्वतः ५४
अस्त्रराजाधिदैवत्यं पूजयित्वा तु देशिकः
शिरसावाहयेत्तं तु दशायुधसमायुतम् ५५
प्रथमं विघ्नराजस्य द्वितीयं ब्राह्म्यमुच्यते
भूतान्तु तृतीयं स्याद्गन्धर्वाणां चतुर्थकम् ५६
ऐन्द्रं तु पञ्चमं प्रोक्तमृषीणां षष्ठ उच्यते
सप्तमे वैष्णवं प्रोक्तमष्टमं राक्षसं तथा ५७
नवमं शैवमित्युक्तं दिवसानां तु देवताः
भूतानां दिवसादिस्तु भौवनं समुदाहृतम् ५८
ऐन्द्राद्यास्तु विभूति स्या गौणं तद्वैष्णवादिकम्
देवं तु शैवमित्युक्तं दिवसा संप्रकीर्तिता ५९
लड्डुकं मोदकं चैव मुद्गान्नं गुलसक्तु कम्
प्रथमेऽहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ६०
पद्मपुष्पं सरजनीं पायसं लाजसंयुतम्
द्वितीयेऽहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ६१
हरिद्रान्नं ससर्पिष्कं नालिके रफलैर्युतम्
तृतीयेऽहनि दातव्यं गन्धर्वं मन्त्रमुच्यते ६२
इन्द्रवल्लीसमायुक्तं प्रियङ्गुघृतसंयुतम्
चतुर्थेऽहनि दातव्यं ऐन्द्रमन्त्रमनुस्मरन् ६३
वेण्वन्नं दधिसंयुक्तं पनसस्य फलैर्युतम्
पञ्चमेऽहनि दातव्यमृषीणां मन्त्रमुच्चरन् ६४
घृतक्षारसमायुक्तं शर्क रोदनसंयुतम्
षष्ठेऽहनि तु दातव्यं वैष्णवं मन्त्रमुच्यते ६५
माषान्नं घृतसंयुक्तं आढकी मांससंयुतम्
सप्तमेऽहनि दातव्यं राक्षसं मन्त्रमुच्चरन् ६६
शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम्
अष्टमेऽहनि दातव्यमैश्वरं मन्त्रमुच्यते ६७
नवमेऽहनि दातव्यं तदेवान्नं शिवं स्मरन्
ब्रह्माद्येशानपर्यन्तं गन्धपुष्पादिभिः क्रमात् ६८
विघ्नराजादिमन्त्रैस्तु प्रणवादिनमोन्तिकैः
पूजयित्वा यथान्यायं स्वाहान्तेन्नबलिं क्षिपेत् ६९
प्रतिमां बलिदानान्ते कु र्याद्ग्रामप्रदक्षिणम्
एकं वापि द्वयं वापि त्रयं वा सर्वमेव वा ७०
वाञ्छां तु विद्यते यत्र द्वादशप्रतिमास्तथा
कौतुकं बन्धयेद्विद्वान् उत्सवार्थं हृदा ततः ७१
ग्रथितं कौतुकं यस्मिन् तत्कौतुकमुदाहृतम्
सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् ७२
अङ्गे वा शिबिकायां वा तथैवारोप्य भक्तितः
कौतुकं बलिदानान्ते कु र्याद्ग्रामप्रदक्षिणम् ७३
उत्सवान्ते तु तेनैव कारयेदुत्सवं ततः
राक्षसे दिवसे चैव युद्धारम्भे प्रवाहयेत् ७४
धनुर्धारास्तथा के चित् के चित् खड्गधरास्तथा
के चिदश्वसमारूढा भीताः के चित्तथा स्मृताः ७५
एवं कृ त्वा तु दिवसे रात्रौ कौतुकबन्धयेत्
नद्या वापि तटाके वा ह्रदे वाप्यमथापि वा ७६
पूर्वेद्युरेव कर्तव्यं शूलं कौतुकबन्धनम्
सौवर्णमूर्णासूत्रं वा सूत्रं कार्पासमेव वा ७७
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेद्धृदा
आहूय सर्वदेवां स्तु गन्धाद्यैरर्चयेत्क्रमात् ७८
तीर्थसङ्ग्रहणं चापि कर्तव्यं विधिपूर्वकम्
साधितैः कलशैस्तत्र शूलं वै स्नपयेत्ततः ७९
चूर्णोत्सवं ततःकु र्यात् शैवे तु दिवसे ततः
प्रासादस्याग्रतो वापि याम्ये वा पावके ऽपि वा ८०
कृ त्वा तु मण्डलं सम्यक् गोमयालेपनं तथा
संस्नाप्य शूलं तत्रैव अघोरेणासनोपरि ८१
तदग्रे स्थण्डिलं कु र्यात् शालिभि व मलैस्ततः
विन्यसेदस्त्रमन्त्रेण लूखलं वस्त्रवेष्टितम् ८२
दूर्वां च सहदेवीं च बन्धये लूखला हृदा
पवमानेन संप्रोक्ष्य पुण्याहं वाचयेत्ततः ८३
अर्चयित्वा तु गन्धाद्यैस्त्रिशूलं लूखलं तथा
घृतं शिरोऽर्पणं कु र्यात् लूखलं मुसलं तथा ८४
सघृतैस्सद्यमन्त्रेण हेमदूर्वाङ्कुराक्षतैः
आठकद्वितयं ग्राह्य ग्राह्यमाढकमेव वा ८५
चूर्णयेद्देशिकस्तत्र हृदयेन तु मन्त्रतः
जयशब्दसमायुक्तं भेरीशब्दसमाकु लम् ८६
गीतवाद्यसमायुक्तं स्तोत्रमङ्गलवाचकैः
ततो भक्तजनैस्सार्धं चूर्णके न तु देशिकः ८७
प्लावयेच्छिवमन्त्रेण शिवमभ्यर्चयेत्ततः
तैलेनाभ्यज्य शूलं तु चूर्णेन स्नापयेदथा ८८
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
ग्रामं प्रदक्षिणं कृ त्वा ततः शीघ्रं समारभेत् ८९
कलशान् सादयित्वा तु सहिरण्यान् सवस्त्रकान्
प्रासादस्याग्रतस्सम्यक् विद्येश्वरशिवात्मकान् ९०
संभ्रम्य कलशांश्चैव पालिकाभिस्तथैव च
गन्धादिकं च संगृह्य गीतवाद्यसमायुतम् ९१
गच्छेद्भक्तजनैस्सार्धं ततस्तीर्थं तु देशिकः
तीले समतले सम्यक्
कृ त्वा तु स्थण्डिलद्वयम् ९२
स्थण्डिले स्थाप्य शूलं तु तस्याग्रे कलशं न्यसेत्
अर्चयित्वा यथान्यायं शूलं वै कलशास्तथा ९३
शूलस्य मध्यमे पत्रे शिवमावाहयेत्ततः
दक्षिणे विष्णुमावाह्य वामे पत्रे प्रजापतिः ९४
पार्वतीपालिकायास्तु कु म्भे चैव तु षण्मुखम्
विघ्नेशं तदधस्तत्र दण्डमध्ये तु भास्करम् ९५
चण्डेशं दण्डमूले तु दण्डाग्रे मदनं तथा
श्रीदेवीं पूर्वदिग्भागे दक्षिणे मातरस्तथा ९६
ज्येष्ठां तु पश्चिमे चैव दुर्गादेवी तथोत्तरे
लोकपालान् तथाष्टौ तु त्रयस्त्रिंशस्तु देवताः ९७
पातालानि तथा सप्त शूलमूले समावह्येत्
अनन्तादिशिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ९८
गङ्गे च यमुने चेति निर्मदा च सरस्वती
सिन्धु गोदावरी चेति कावेरी चेति सप्तधा ९९
आवाह्य कलशे चैव मध्यमे देशिकोत्तमः
तन्मन्त्रेण ततस्नाप्य स्नानं तत्र समाचरेत् १००
सह स्नानं तु यः कु र्यात्सर्वपापैः प्रमुच्यते
दिनैष्वेतेषु सर्वेषां दीपैश्च बलिभिस्तथा १०१
विशेषां पूजनं कु र्याद्विभवस्यानुरूपतः
स्नपनं तु ततः कु र्यान्मूलबिम्बे विशेषतः १०२
कौतुकं प्रतिमां चापि स्नपनं कारयेदथ
साधिकान् वेदिकामध्ये स्नपनं कारयेच्छिवे १०३
पुण्याहं वाचयेत्तत्र प्रोक्षयेच्च शिवाम्भसा
ध्वजमारोहणं कु र्याद्वृषभस्थं विसर्जयेत् १०४
ग्रामं प्रदक्षिणं कु र्यात् बलिं दत्वा विशेषतः
विसर्जनं ततः कु र्याद्ब्रह्मादीन् परितस्थितान् १०५
एवं यःकु रुते मर्त्यः उत्सवं विधिपूर्वकम्
कु लैकविंशमुद्धृत्य रुद्रलोके महीयते १०६
इति स्वायम्भुसूत्रे उत्तरसूत्रे उत्सवपटलश्चत्वारिंशत्