अथाङ्कुरार्पणं वक्ष्ये सर्वकामसमृद्धिदम्
उत्सवे स्नपने चैव प्रोक्षणे स्थापने तथा १
अन्यस्मिन् मङ्गले कार्ये मङ्गलाङ्कुरमुच्यते
योगपूर्वेषु सर्वेषु नवमे सप्तमे तथा २
पञ्चमे वा शिवं पूज्य सर्वबीजनिवापयेत्
बीजानामधिपस्सोमस्तस्माद्रात्रौ तु रोपयेत् ३
ग्रामं प्रदक्षिणं कृ त्वा शङ्खभेर्यादिनिस्वनैः
वितानच्छत्त्रसंयुक्तं गजाश्वच्छत्ररोहणैः ४
बीजचामरसंकीर्णैर्ध्वजैश्च परिशोभितैः
शिरोवस्त्रेण संवेष्ट्य वहित्वाथ महेश्वरम् ५
नदीतीरे तटाके वा के दारे वा विशेषतः
शुद्धस्थानमनुप्राप्य शुद्धिं कृ त्वा तु भूतलम् ६
हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिभिस्तथा
अभ्यर्च्य भूतलं सम्यक् खानयेदस्त्रमन्त्रतः ७
मृदं संगृह्य वामेन प्रविशेदालयं प्रति
आलयस्याग्रतः कु र्यान्मण्टपं चतुरश्रकम् ८
गोमयेनोपलिप्याथ सर्वालङ्कारसंयुतम्
पुण्याहं वाचयित्वाथ षडन्तैः प्रोक्ष्य भूतलम् ९
प्राची च दशसूत्राणि दशोदीचीं ततः परम्
मध्यमे च चतुर्दिक्षु तद्वयावृतवर्जितम् १०
आदित्यपार्श्वयोर्द्वे द्वे यमे चैव जलाधिपे
सोमे च लेखयेदेवं पञ्चविंशतिसंख्यया ११
मध्यमे तु पदं कृ त्वा द्रोणकैरपि शालिभिः
तण्डुलैः शोभितं कृ त्वा स परिस्तीर्यकु शस्ततः १२
स्थण्डिलं विधिना कृ त्वा अष्टपत्रं समालिखेत्
पूर्णकु म्भं तथा स्थाप्य सोमराजाधिदैवतम् १३
सकू र्चसपिधानं च सहिरण्यं सवस्त्रकम्
गन्धाद्यैरर्चयेत्सोमं स्वनाम्ना तु विधानतः १४
पालिका घटिका चैव शरावं तु यथाक्रमम्
सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा १५
कर्तव्यं लक्षणैर्युक्तं शास्त्रदृष्टेन वर्त्मना
पालिकावक्त्रविस्तारमयं पञ्चादशाङ्गुलम् १६
षोडशाङ्गुलविस्तारमध्यमं समुदाहृतम्
विंशत्यङ्गुलविस्तारमुत्तमं तु प्रकल्पयेत् १७
विस्तारेण समुत्सेधं तदर्धं पादविस्तृतम्
विस्तारस्य तु षड्भागं परितश्चोष्टसंयुतम् १८
विस्तारस्य त्रिभागैकं दण्डविस्तार उच्यते
कटिका कलशाकारां पालिकासमवेदिकाः १९
पालिका दण्डवत्कुर्याच्चतुरङ्गुलमानतः
तस्योदरस्य विस्तारमधमं द्वादशाङ्गुलम् २०
एकाङ्गुलविवृद्ध्या तु मध्यमं चोत्तमं ततः
वक्त्रं पञ्चकसंयुक्तं विस्तारस्य त्रिभागतः २१
शरावावक्त्रविस्तारमष्टाङ्गुलमुदाहृतम्
तदर्धं पादविस्तारं तयोरर्धं समुच्छ्रये २२
अधमं चैवमुद्दिष्टं मध्यमोत्तममेव चा
मध्यमाङ्गुलवृद्ध्या तु कर्तव्यं सुमनोरमम् २३
विष्णुश्चतुर्मुखेशाद्याः पालिकाद्याधिदैवताः
प्रत्येकं स्थण्डिलं कृ त्वा स्थापयेत् स्थण्डिलोपरि २४
स्थण्डिलं शालिभिः कु र्यात् प्रत्येकं प्रस्थसंमितम्
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चोत्तमं भवेत् २५
तण्डुलैः शोभितं कृ त्वा गन्धाद्यैरर्चयेद्धृदा
स्थण्डिलं विधिवत् कृ त्वा स्थापये स्थण्डिलोपरि २६
आदित्यस्सम्बरीयश्च विवस्वांश्च यमस्तथा
जलाधिपोऽथ मित्रश्च सोमश्च पृथिवीधरः २७
घटिकानां विशेषेण स्थानमेवं प्रचोदितम्
हुताशनस्तथा पूषा पितृदौवारिकस्तथा २८
रोगो नागो दितिश्चैव ईशाश्चाष्टौ प्रकीर्तिताः
तेषां स्थाने शरवान्नी स्थापये स्थापकोत्तमः २९
शेषांश्च पालिकाश्चाष्टौ स्थाप्य बीजानि वापयेत्
कलुषाभिस्समापूर्य मृद्भिस्सद्भिस्तथोपरि ३०
मुद्गमाषकु लस्थाश्च सर्षपां सतिलांस्तथा
निष्पावशल्यपामार्गशिग्रूव्रीहिस्तथैव च ३१
आढकी च तथा श्यामगोधूमयववैणवा
वर्गेषु त्रितयेष्वेषु प्रथमेणाधमं भवेत् ३२
आद्यद्वयेन मत्स्यं स्यात्तृतीयं चोत्तमं भवेत्
पयसा क्षालयित्वा तु निर्वपेद्धृदयेन तु ३३
ततो वै सोमराजस्य पयसं तु निवेदयेत्
सोमाधिदैवतान् कु म्भान् परिषिच्य ततो जलैः ३४
तथैव सितवर्णास्तु वर्धतेऽथ यथाविधिः
विधाय सुविधाने तु गुप्तस्थाने तु धापयेत् ३५
ततः प्रतिदिनं कु र्यात् प्रोक्षणं हृदयेन तु
तेषां तु लक्षणं वक्ष्ये शुभाशुभफलोदयम् ३६
सितान्येवं कोमलानि सम्यगूर्ध्वग्रतानि च
शुभान्येतानि सर्वाणि अङ्कुराणि विशेषतः ३७
अपूर्णानि च कृ ष्णानि श्यामलानि तथैव च
सुधूम्राणि च कृ ष्णानि तथा तिर्यग्गतानि च ३८
अङ्कुराण्यशुभान्याहुस्तद्दोषविनिवृत्तये
पञ्चब्रह्मषडङ्गैश्च प्रत्येकं तु शताहुतीः ३९
एवं कृ ते महाशान्ति कर्तुं कारयितुस्तथा
पद्मे कु म्भमधोमुखं निशित धीस्संस्थाप्य वर्माणुना
धूपामोदपटीरलेपनशुचैः पश्चात्यकू र्चक्षिपेत् ।
तत्स्वाभ्यग्रतरान्प्रपूज्य विधिवत् संशोध्ययादित्रिभिः
कृ त्वोत्तानकमक्षरात्मकवसून् क्वाथोदकान् पूरयेत् ४०
सारसयवकसन्निभतन्तुभि प्रसृतचन्द्रकलादलराजितम्
तुहिनदीधितिकु म्भनुस्नपोद्भवकलेन्दुशीखामणिराजिते ४१
यथा द्विजातिः परमेष्टिसूत्रां ततो विभातीन्दुधरोऽष्टबन्धान्
तुषारबन्धान् कृ तदेशिके शान् खराण्डजामान्तरभातिशूली
४२
रक्तचन्दनकर्पूरबोधिवृक्षश्च पट्पदः
सद्योदीक्षादिकं पूर्ववह्निबीजसमन्वितम् ४३
वीरभद्रपदं न्दे महाबलपदं तथा
होमकाले द्विठान्तस्यादर्चने च नमोन्तिका ४४
बिससितविवृतश्रीतन्तुशुभ्राभ्रशुभ्रैत्त्रिगुणितगुणजालाव्याप्त
वर्माभिरामैः ।
दशशतदलरूपैश्रीनिवासैस्साक्षात् कमलजकलशं
तद्दर्शयत्सिद्धा स्युः ४५
समुद्यत्सहस्रारवृत्तेन रूपं कलापञ्च वृत्तं तदिन्दुस्वरूपम्
ततो दिग्दलाम्भोजमग्निस्वरूपं तदेतत्सरोजं
त्रयीकु म्भकोष्ठाः ४६
नीलतन्तुवृतकावृतपत्रव्याप्तिदिक्परिमितानलकु म्भे
तरिकलाभिरभितन्त्रिततोयादाभिषेकभवसंहृतिरूपाः ४७
इति स्वायम्भुसूत्रे अङ्कुरार्पणपटलः एकोनचत्वारिंशत्