अथ वक्ष्ये विशेषेण प्रोक्षणस्य विधानतः
द्विविधं प्रोक्षणं प्रोक्तं भद्रं योगं तथैव च १
प्रासादकरणे चैव पीठबन्धविधौ तथा
बालस्थानमथो कृ त्वा प्रोक्षणं भद्रमुच्यते २
पतितै दूषिते लिङ्गे चण्डालैश्शिल्पिभिस्तथा
पूजाहीनं तथा मासं प्रोक्षणं योगमुच्यते ३
यात्राहोमयुतं भद्रं योगं वै तद्विहीनकम्
भद्रेण योगमाख्यातं तस्माद्भद्रं समुच्यते ४
प्रासादस्याग्रतः कु र्यात् मण्टपं चतुरश्रकम्
दशद्वादशहस्तं वा दर्पणोदरसन्निभम् ५
स्तम्भैष्षोडशभिर्युक्तं चतुर्द्वारसमायुतम्
अलङ्कृ त्वा वितानैश्च तोरणैश्च ध्वजैस्तथा ६
दीपैः पुष्पैः फलैस्सार्धमङ्कुरैरष्टमङ्गलैः
कृ त्वा नवपदं मध्ये पदमेकं तु वेदिकाम् ७
रत्निमात्रसमुत्सेधं मुष्टिमात्रमथापि वा
कु र्यात् कु ण्डानि परितो दिशासु विदिशासु च ८
चतुरश्रानि कु ण्डानि दिशानि विदिशासु च
मेखलात्त्रयसंयुक्तं एकैकं तु त्रिरङ्गुलम् ९
ऐन्द्रस्येशनयोर्मध्ये प्रधानं तत्र कल्पयेत्
गोमयालेपनं कृ त्वा शोषणं पाचनं तथा १०
पुण्याहं वाचयित्वा तु पर्यग्निकरणं तथा
चन्दनागरुकर्पूरकु ष्ठैलावरकैस्सहैः ११
लिङ्गमालिप्य वस्त्रेण वेष्ट्य पीठं च यत्नतः
पञ्चगव्येन संप्रोक्ष्य पवमानमुदीरयन् १२
शुद्धैरद्भिस्तथा प्रोक्ष्य रुद्धैरुद्धैरिति ब्रुवन्
लिङ्गदर्भैरथावेष्ट्य हृदयेन विचक्षणः १३
होमकौतुकसूत्रैस्तु बन्धयेल्लिङ्गमस्तकम्
बालस्थानं ततो गत्वा पूजयित्वा विधानतः १४
तत्र होमं प्रकर्तव्यं बालस्थानस्य चाग्रतः
स्थण्डिलं तत्र कर्तव्यं निर्दोषैः सिकतैस्सितैः १५
अग्न्याधानादिकं कृ त्वा शिवाग्निं कल्पयेत्ततः
अथ ब्रह्मै षडङ्गैश्च प्रत्येकं तु शताहुतीः १६
स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् तदर्धं वार्धमेव वा
ईशानेन चरुं हुत्वा स्पृशेल्लिङ्गस्य मस्तकम् १८
तस्याग्रे शिवकु म्भं तु संस्थाप्य स्थण्डिलोपरि
पञ्चरत्नं समायुक्तं सकू र्चं वस्त्रवेष्टितम् १९
पञ्चमूर्तिसमायुक्तमष्टत्रिंशत्कलायुतम्
षडङ्गैरपि संयुक्तं वृषारूढं वृषध्वजम् २०
चतुर्भुजं त्रिणेत्रं तु सद्येनावाहयेत्ततः
वामदेवेन संस्थाप्य अघोरेणावकु ण्ठयेत् २१
बीजमुद्रां ततो बध्वा मुकु ला पद्ममुद्रिकाम्
नमस्काराख्यमुद्रां च वध्वास्त्रं दिक्षु योजयेत् २२
पद्ममुद्रां ततो वध्या राध्य गन्धादिभिः क्रमात्
पञ्चगव्येन संप्रोक्ष्य वेदिकां हृदयेन तु २३
स्थण्डिलैः शालिभिः कु र्यादष्टद्रोणैर्विशेषतः
तण्डुलै शोभितं कृ त्वा अष्टपत्रं सकर्णिकाम् २४
नवशक्तिसमोपेतं गन्धाद्यैः पूजयेदथ
आवेष्ट्याहतवस्त्रेण शिरसा वेष्टयेद्घटम् २५
शक्तिभिर्मूलमन्त्रैश्च जप्त्वा ध्यात्वा यथाविधिः
वषट् वश्यं फटोच्चाटे हुं स्तम्भे चे च मारणे २६
स्वाहा पुष्टि स्वधा तुष्टिरित्येते मन्त्र पल्लवाः
प्रदक्षिणत्रयं कृ त्वा प्रासादं घोषसंयुतम् २७
वेदिकोपरि संस्थाप्य वामदेवमनुस्मरन्
तस्योत्तरे न्यसेन्मन्त्री वर्धनीं सहिरण्यकाम् २८
गणाम्बिके ति मन्त्रेण पूज्यते मन्त्रवित्तमैः
अभितः कलशानष्टौ न्यसेद्विद्येश्वरैर्युतम् २९
हेमं चात्र समायुक्तं प्रत्येकं वस्त्रवेष्टितम्
सकू र्चं सापिधानं च पूजयित्वा स्वनामतः ३०
दिशि स्वाध्यायनं कु र्युर्विधिवद्वेदपारगाः
पटेन महतावेष्ट्य ततो होमं समारभेत् ३१
मथित्वाग्निं समादाय सूर्यकान्तोद्भवं तु वा
अग्न्याधानादिकं चैव यथावदनुपूर्वशः ३२
शिवाग्निं कल्पयेत्तत्र षडङ्गैरपि संयुतम्
हुत्वा च ब्रह्मभिर्यस्तद्व्याहृत्या च तथा पुनः ३३
प्रणीताग्निं समादाय स्वैर्मन्त्रैमूर्तिपारगाः
सद्यमन्त्रं तु वारुण्यां वामदेवं तु दक्षिणे ३४
अघोरमुत्तरे चैव वक्त्रमैन्द्रे तथैव च
आग्नेयां हृदये चैव नैरृत्यां तु शिरस्तथा ३५
शिखा वायव्यदिग्भागे ईशान्यां कवचं तथा
पञ्चब्रह्म प्रधानं स्यान्मन्त्राण्येवं प्रकल्पयेत् ३६
समिदाज्यचरून् लाजान् सर्षपांश्च यवान् तिलान्
पालाशोदुम्बराश्वत्थप्लक्षं चेति दिशासु च ३७
शमीखदिरबल्वार्क विदिक्षु क्रमशस्तथा
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ३८
शतमष्टोत्तरं वापि प्रत्येकं जुहुयुः क्रमात्
घृतमीशानमन्त्रेण पुरुषेण चरुं तथा ३९
लाजानघोरमन्त्रेण सद्योजातेन सर्षपान्
तिलान् पाशुपतास्त्रेण कवचेन यवास्तथा ४०
द्रव्यान्ते व्याहृतिर्हुत्वा स्पृशेल्लिङ्गं स्वमन्त्रतः
हव्यवाहं समुच्चार्य सर्वद्रव्यसमन्वितम् ४१
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम्
प्रतिद्रव्यस्वमन्त्रेण दत्वा पूर्णाहुति स्तुवैः ४२
ब्रह्मजज्ञानमन्त्रेण जुहुयात्तु शताहुतीः
इदं विष्ण्विति मन्त्रेण आवो राजानमेव च ४३
वेदादिभिश्च होतव्यं प्रत्येकं तु शताहुतीः
लिङ्गस्य मूलमध्यान्तं स्पृष्ट्वा स्पृष्ट्वा तथोपरि ४४
पूजा प्रभाते कृ त्वाथ रात्रिबन्धं व्यपोहयेत्
सद्यादिपञ्चमन्त्रेण पञ्चगव्याभिषेचनम् ४५
कृ त्वा शुद्धिमथाद्भिस्तु लिङ्गपीठस्थलं क्रमात्
हैमपङ्कजसंयुक्तं पुष्पं शिरसि धारयेत् ४६
आचार्यं पूजयित्वा तु वस्त्रहेमाङ्गुलीयकैः
कटकं कु ण्डलं चैव यज्ञसूत्रं सहैमिकम् ४७
यथाशक्त्या च दातव्यं ग्रामं भूमिं च गास्तथा
सुमुहूर्तं ततो ध्यात्वा देवदेवं त्रियम्बकम् ४८
आत्मानं सकलीकृ त्य गन्धाद्यैरर्चयेदथा
लिङ्गे वै मूर्तिपस्थाय कलाङ्गा विन्यसेत्क्रमात् ४९
शिवकु म्भं ततो नीत्वा विधानं तु व्यपोह्य च
तस्मात्तु स्थापयेल्लिङ्गं प्रासादं समनुस्मरन् ५०
सान्तयान्तसमायुक्तं षष्ठस्वरसमायुतम्
त्रयोदशान्तु संभिन्नं बिन्दुनादसमायुतम् ५१
प्रासादमिति वव्यातं बीजं शिवमयं तथा
साक्षात्सदाशिवं मन्त्रं तैर्व्याप्तं सकलं जगत् ५२
ध्यानेन ध्येयमालोक्य न्यसेदेवं सदाशिवः
स्वैस्वैर्मन्त्रैस्तु कलशैरभिषिच्य यथाविधिः ५३
गन्धाद्यैरर्चयेद्देवं यथोक्तं मन्त्रवित्तमः
पञ्चावरणमभ्यर्च्य परिवारं तु पूजयेत् ५४
निवेद्यं च बलिं दद्यात् नृत्तगेयसमाकु लम्
सर्वोपकरणं तत्र आचार्याय निवेदयेत् ५५
एवं यः कु रुते मर्त्यः स पुण्यं गतिमाप्नुयात्
मोक्षदं मोक्षकामानां विजयं जयकामिनाम् ५६
अप्रजानां प्रजावृद्धिं धनदं धनकामिनाम्
उत्सवं कारयेत्पश्चादङ्कुरार्पणपूर्वकम् ५७
इति स्वायम्भुसूत्रे प्रोक्षणपटल अष्टत्रिंशत्