३७ बाल्यस्थानम्

अथ वक्ष्ये विशेषेण बाल्यस्थानविधिक्रमम्
प्रासादे पतिते भिन्ने वल्मीके चोत्थिते तथा १
विश्लेषे च तथा पीठे लिङ्गे तु चलिते तथा
शिल्पकर्मान्तरे चैव बालस्थानक्रमान्वितः २
प्रासादस्याग्रतो वाथ अग्रवामेऽग्रदक्षिणे
कृ त्वा विमानं वेदाङ्गं तेन यच्चाद्यवादितः ३
चतुरश्रे कृ ते क्षेत्रे वास्तुरूपं तु कल्पयेत्
विस्तारस्यार्धमुत्सेधं समं मण्टपसंयुतम् ४
शिलादारुमयो वाथ लिङ्गं दारुमयस्य तु
पूजाभागसमायामं नाहं तेन प्रकल्पयेत् ५
विस्तारोत्सेधमानं तु पीठिकालिङ्गमानतः
नालपट्टसमायुक्तं यथा तथ्य प्रकल्पयेत् ६
बाल्यस्थानस्य पुरतो मण्टपं दशहस्तकम्
सर्वालङ्कारसंयुक्तं यथाविधिपुरस्सरम् ७
तत्राष्टौ चतुरश्राणि कु ण्डं कृ त्वा विधानतः
पुण्याहं वाचयित्वा तु वास्तुहोमं तु कारयेत् ८
यात्राहोमं तु कर्तव्यं प्रासादस्य ततोऽन्तिके
सर्वं कृ त्वा निसंस्कारं ततो यजनमारभेत् ९
आयाहिसंपुटं कृ त्वा कालाङ्गैर्जुहुयात् क्रमात्
अङ्गारकाद्यैर्वारैश्च तिथिभि प्रथमादिभिः १०
नक्षत्रैरश्वयुक्पूर्वैर्मासैर्मेषादिभिस्तथा
जुहुयादेवमेवं तु वत्सरस्य विशेषतः ११
आद्वादशाब्दो देवं स्यात्तस्मादूर्ध्वं न कारयेत्
ततो देवस्य पुरतो शिवकु म्भं तु वर्धनीम् १२
स्थण्डिलोपरि विन्यस्य वर्तयेदाननत्रयम्
लिङ्गादैवं समावाह्य सम्यङ्मन्त्रं समुच्चरन् १३
वामदेव संस्थाप्य प्रासादसमनुस्मरन्
गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् १४
उमादेवीं समावाह्य वर्धन्युपरि विन्यसेत्
गणाम्बिकायै संपूज्य मुकु लं तत्र दर्शयेत् १५
वहित्वा शिरसं कु म्भं कृ त्वा चैवं प्रदक्षिणम्
वेदिकापरि संस्थाप्य कृ त्वा स्थण्डिलपूजनम् १६
विन्यसेत्तस्य वामे तु वर्धनीं तु विशेषतः
वस्त्रेणावेष्टितं लिङ्गं वायवे दक्षिणं ततः १७
अर्चयित्वा तु गन्धाद्यैरभितोऽष्टौ घटान् न्यसेत्
हैमैर्दिगायुधैर्युक्तं विद्येश्वरसमायुतम् १८
सम्पूज्य विधिवत्सर्वान् होमकर्म समारभेत्
कु र्यात्सर्व यथोद्दिष्टं प्रोक्षणं सकलं ततः १९
सुमुहूर्ते तथा लिङ्गं स्थापयेत्पञ्चमेन तु
शर्क रासर्जपूर्णं तु समं कृ त्वा विशेषतः २०
माहिषं नवनीतं च यथायुक्त्या नियोजयेत्
मुखलेपममक्ष्युभ्य यथा स्निग्धान्तरं तथा २१
वज्रबन्धमिति ख्यातं विवरे तस्य योजयेत्
स्थापनं स्नपनं चाथ निर्दिष्ट प्रोक्षणं तथा २२
लक्षणोक्ताधिकं न्यूने दिशाहोमं तो कारयेत्
कु र्यात् संवत्सरं होमं पूर्वोक्तानुक्रमेण तु २३
पुण्याहं वाचयित्वा तु स्नपनं तत्र कारयेत्
ब्राह्मणान् भोजयित्वा तु प्रोक्षणं कारयेदथ २४
न्यूने सा वत्सराद्धोममर्धं सर्वं तु कारयेत् २५
इति स्वायम्भुसूत्रे बालस्थापनपटलसप्तत्रिंशत्