३६ परिवारस्थापनम्

अथाष्टपरिवाराणां नाम वर्णालयं तथा
मन्त्राणि स्थापनं चैव तत्रार्थं कथ्यते शृणु १
वृषभं पूर्वतः प्रोक्तं आग्नेय्यां तु महानसम्
याम्ये मातृगणाश्चैव नैरृत्यां तु विनायकः २
सुब्रह्मण्यस्तु वारुण्यां ज्येष्ठायां वायुगोचरे
दुर्गा तु सौम्यदिग्भागे ईशान्यां भास्करं तथा ३
विमानमेषां कर्तव्यं गर्भविस्तारमानतः
पूजाभागसमायुक्तं तेषां लक्षणमुच्यते ४
द्वारमानेन वा कु र्याद्गर्भमानेन वा पुनः
वृषभस्यालयं कु र्याच्चतुर्द्वारसमायुतान् ५
आग्नेयां गोपुराकारं मातॄणां तु तथैव तु
हस्तिपृष्ठं गणेशस्य नन्द्यावर्तं गुहस्य तु ६
ज्येष्ठायां चतुरश्रं तु दुगायां तु गुहस्यवत्
वेसरं भास्करस्योक्तं विमानाकृ तिरुच्यते ७
पुरतो मण्टपं कु र्यात् परिवारालयस्य तु
कु ण्डानि कारयेत्तत्र चतुर्दिक्षु विधानतः
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम् ८
नवकु ण्डानि मातॄणां यथोक्तं च विधानतः
कृ त्वा सव्यं यथेदेष्टं गोमयालेपनं ततः ९
ततस्सर्वं यथोक्तं तु संस्कारं मण्टपस्य तु
मातॄणां लक्षणं प्रोक्तं सर्वेषां च यथाविधि १०
वृषभस्य वकारस्थं जकारो जायते सदा
हकारो वीरभद्रस्य गणेशस्य ग एव च ११
यकारादिसकारान्तं मातॄणामक्षरं भवेत्
कु मारस्य ककारं तु ज्येष्ठायाश्चाद्यमक्षरम् १२
दुर्गायास्तु दुकारस्याद्भकारो भास्करस्य तु
एवं बीजं समाख्यातं मन्त्राण्येते प्रकल्पयेत् १३
ह्रस्वांत्सद्यादयं प्रोक्तं दीर्घास्तु हृदयादयम्
सविसर्ग भवेदस्त्रमनुस्वारभवर्जिकम् १४
सानुस्वार भवेनेत्रां सर्वेषां समुदाहृतम्
आदौ नामं समुच्चार्य मध्ये बीजं सरेण च १५
अन्त्ये समुच्चरेन्मन्त्रं चतुर्थ्यन्तं विशेषतः
यस्य नामानि तद्बीजं सर्वेषां समुदाहृतम् १६
एवमेवं तु सर्वेषां ततो मन्त्राणि कल्पयेत्
यदुक्थं स्थापनायां च चले चैवाचलेषु च १७
रत्नन्यासादिसर्वं तु यथोक्तं कारयेत्ततः
होमं ध्यानप्रतिष्ठां च समानं सर्वमेव च १८
मन्त्रैरेतैस्तथा कु र्यात् पूजाहोमक्रियादयः
सर्वेषामालयालाभे पीठमेव प्रकल्पयेत् १९
विस्तारं तु द्विकालं स्यान्मेखलात्रयसंयुतम्
प्रमाणेन ततः कु र्यादेकैकचतुरङ्गुलम् २०
कर्तव्यं पद्मपीठं वा शिलायामिष्टके तु वा
तावदेवं तु विस्तारं त्रिभागैकं तु कर्णिका २१
पत्रं श्येनदलं कु र्याद्विस्तारोत्सेधमानतः २२
इति स्वायम्भुसूत्रे परिवारस्थापनः पटल षट्त्रिंशत्