३४ शूल-स्थापन-पटलम्

अथ गौरीप्रतिष्ठां तु प्रवक्ष्यामि विशेषतः
त्रिविधं तु समाख्यातं वीरं योगं क्रमं तथा १
के वलं यत्र गौर्यास्तु स्थापनं वीरमुच्यते
पूर्वं देवं प्रतिष्ठाप्य गौर्यास्तु स्थापनं ततः २
ततो विवाहभेदेन योगं तत्परिकीर्तितम्
उमाशङ्करयोरैक्यस्थापनक्रममुच्यते ३
लोहजं योगमाख्यातं वीरं वै मृण्मयं स्मृतम्
लोहजेन तथात्सश्चैत्सर्वथा क्रममुच्यते ४
रत्नन्यासं न कर्तव्यं लोहाच्च स्थापनक्रमे
जलाधिवासनं नोक्तं मृण्मये तु कदाचन ५
समानमन्यत्सर्वेषां यथायुक्ति विधीयते
चित्रशास्त्रविधानेन उमाया प्रतिमा करोत् ६
ग्रामे चतुर्भुजं कु र्यान्नगरे षड्भुजं तथा
गृहान्तरे द्वयं कु र्यात् पर्वताग्रे तु षोडश ७
त्रिणेत्रं श्यामवर्णं तु सर्वलक्षणसंयुताम्
यथोक्तं प्रतिमां कृ त्वा ततो नयनमोक्षणम् ८
कारयेद्विधिवत्सम्यक् मण्टपे संस्कृ ते शुभे
स्थण्डिलं तत्र कृ त्वा तु शालिभिर्विमलैस्तथा ९
तण्डुलैः शोभितं कु र्यादष्टपत्रं सुकर्णिकम्
ततो मध्ये न्यसेद्देवीं शुद्धिं कृ त्वा विशेषतः १०
ततोऽहतेन महता पटेनाच्छाद्य सर्वतः
पुण्याहं जयशब्देन स्तोत्रमङ्गलवाचकैः ११
सुस्वर्णसूच्या तत्खात्वा मधुनाप्लावितेन तु
गौरीबीजमनुस्मृत्य मण्डलानि क्रमाल्लिखेत् १२
कृ ष्णमङ्गलमालिख्य ततो वै दृष्टिमङ्गलम्
ज्योतिर्मण्डलमालिख्य मधुना प्लावयेदथ १३
घृतेन च तथा प्लाव्य नेत्रबीजान् तथा न्यसेत्
हिरण्येन च युक्ताभ्यामङ्गुलीभ्यां न्यसेत्ततः १४
चतुरीयं तु तर्जन्यां सान्त वै मध्यमाङ्गुलौ
तर्जन्यां दक्षिणं नेत्रं मध्यमाङ्गुलवामतः १५
एवं विन्यस्य बीजे तु मधुमन्त्रैर्घृतं तथा
क्षीरे सवत्सधेनौ च नेत्रमन्त्रेण दर्शयेत् १६
प्रच्छन्नपटमावर्ज्य स्नानवेद्यां न्यसेत्ततः
शुद्धिं कृ त्वा ततो देवीं पञ्चगव्यकु शाम्भसा १७
ग्रामं प्रदक्षिणं कृ त्वा तूर्यशङ्खादिभिर्ध्वनैः
ततो जलाशयं प्राप्य तीरे समतले पुनः १८
संज्ञाप्य देवीं तत्रस्थां कू र्चां शिरसि धारयेत्
आपादलम्बितं सूत्रं कू र्चेन सह वेष्टयेत् १९
मूर्धादिपादपर्यन्तं सहवस्त्रेण वेष्टयेत्
चतुर्गात्रसमायुक्तं वितानोपरिशोभिते २०
जलमध्ये न्यसेद्देवीं हृदयेन विचक्षणः
परितः कलशानष्टौ लोकपालाधिदैवतम् २१
सकू र्चसापिधानं च ससूत्रान् साधिदैवतत्
विन्यसेद्रक्षणार्थं तु स्वनाम्ना तु यथाक्रमम् २२
पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा
प्रासादं पुरतः कृ त्वा मण्टपं विधिपूर्वकम् २३
वेदिकां च ततः कृ त्वा कु र्यादायतनानि तु
योन्याकाराणि कु ण्डानि चतुर्दिक्ष्वष्टदिक्षु वा २४
मेखलत्रयसंयुक्तं कु र्यादालेपनादिकम्
जलाधिवासितां देवीमानीय स्नानमण्टपे २५
व्यपोह्य वस्त्रकू र्चं च स्नापयेच्छुद्धवारिणा
श्वोभूते पूर्वरात्रौ तु कर्तव्यमधिवासनम् २६
पुण्याहं तत्र कु र्वीत कृ त्वा घृतशिरोर्पणम्
हैमकौतुकसूत्रं तु बन्धयेद्दक्षिणे करे २७
गौरीगायत्रिमन्त्रेण सर्वालङ्कारसंयुताम्
सदशाहतवस्त्रेण देवीमावेष्टयेत्ततः २८
शालिभिस्थण्डिलं कृ त्वा वेदिमध्ये विधानतः
तण्डुलैश्शोभितं कृ त्वा गन्धाद्यैश्च दिशार्चयेत् २९
शयनं तत्र कर्तव्यमण्डजाद्यैर्विशेषतः
हृदयेन तथाभ्युक्ष्य नवबीजं न्यसेत्पुनः ३०
शयीत शयने देवी शिरोमन्त्रेण संस्मरेत्
प्राक्शिरस्कां ततः कृ त्वा नववस्त्रेण वेष्टयेत् ३१
अकालमूलकलशान् त्रिणेत्रं परिवेष्टितान्
सकू र्चान् हेमसंयुक्तान् प्रत्येकं वस्त्रवेष्टितान् ३२
द्रोणार्धतोयसंपूर्णा विन्यसे स्थण्डिलोपरि
वामीं पूर्वे तु विन्यस्य ज्येष्ठीमाग्नेयगोचरे ३३
रौद्री तु दक्षिणे भागे काली नैरृतिगोचरे
कलपूर्वां विकलिनीं वारुणे विन्यसे घटे ३४
बलिविकलिनीं देवीं वायव्ये विन्यसे घटे
बलप्रमथिनीं देवी उत्तरे विन्यसेत्ततः ३५
सर्वभूतदमनन्ये तु ईशान्या विन्यसेत्ततः
मध्ये मनोन्मनीं देवीं विन्यसेद्दक्षिणाश्रयः ३६
पञ्चरत्नेन संयुक्तं विन्यसेत्तु मनोन्मनीम्
वस्त्रयुग्मसमायुक्तं देवीबीजमनुस्मरन् ३७
अर्चयित्वा तु गन्धाद्यैस्तत्तन्मन्त्रेण देशिकः
ततो होमं प्रकु र्वीत चतुर्दिक्ष्वष्टदिक्षु वा ३८
पालाशोदुम्बराश्वत्थवदा पूर्वोदितः क्रमात्
प्लक्षबिल्वार्क मायूरमाग्नेयादिक्रमान्न्यसेत् ३९
गौरीगायत्रीमन्त्रेण प्रत्येकं तु शताहुतीः
आज्यं तु हृदयेनाथ शिरसा चरुरुच्यते ४०
शिखामन्त्रेण लाजान् वै कवचेनाथ सर्षपान्
अस्त्रेण तु यवाश्चाथ नेत्रेण तु तिलाहुतिम् ४१
प्रत्येकं तु शतं हुत्वा व्याहृतीर्जुहुयात्ततः
ततो मुहूर्तमन्वीक्ष्य प्रज्वाल्याग्निं विशेषतः ४२
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
मूर्तिपान् पूजयेत्तत्र यथाविधि विशेषतः ४३
सुलग्ने सुमुहूर्ते च नक्षत्रकरणान्विते
शिवादिमूर्तिसंयुक्तं सवस्त्रान् सहिरण्यकान् ४४
गन्धादिभिस्समभ्यर्च्य ततो होम समारभेत्
कु ण्डे वा स्थण्डिले वापि चतुर्दिक्षु च होमयेत् ४५
पालाशोदुम्बराश्वत्थप्लक्षवृक्षसमुद्भवैः
समिद्भिस्सद्यमन्त्रेण जुहुयाच्च शताहुतीः ४६
स्पर्शहोमं घृतेनाथ प्रत्येकं तु शताहुतीः
आवो राजानमन्त्रेण पत्रं स्पृष्ट्वा तु मध्यतः ४७
इदं विष्ण्विति मन्त्रेण स्पृष्ट्वा दक्षिणपत्रकम्
ब्रह्मजज्ञानमन्त्रेण पत्रं स्पृष्ट्वा तु चोत्तरम् ४८
फलकां तु ततः कृ त्वा गौरीगायत्रिमन्त्रतः
अयं कु मारमन्त्रेण कु म्भं स्पृष्ट्वा तु होमयेत् ४९
दण्डाग्रं त्वथ संस्पृष्ट्वा गणानां त्वेति मन्त्रतः
उदुत्येन तु मन्त्रेण स्पृष्ट्वा दण्डस्य मध्यमः ५०
दण्डमूलं ततः स्पृष्ट्वा चण्डमन्त्रेण होमयेत्
पादमूल तत स्पृष्ट्वा पातालानां स्वमन्त्रतः ५१
चरुणा च तथा लाजैस्तण्डुलैश्च यवैस्तथा
प्रभाते सुमुहूर्तेऽपि स्नानवेद्यं तु विन्यसेत् ५२
आद्यक्षराणि सर्वेषां स्वस्थाने विन्यसेत्ततः
भवादि सादितै चापि कलशै स्नापितै ततः ५३
नैवेद्यं च ततो हुत्वा कु र्याद्ग्रामप्रदक्षिणम्
एवं यः कु रुते शूलविधिपूर्वेण स्थापितम् ५४
भुक्त्वा तु विपुलान् भोगान् रुद्रलोके महीयते
इति स्वायम्भुसूत्रे शूलस्थापनपटल पञ्चत्रिंशत्