अथ वक्ष्यामि ते ब्रह्मन् बलस्थापनमुत्तमम्
आयुरारोग्यदं चैव पुत्रश्रीकीर्तिवर्धनम् १
प्रथमं रत्नविन्यासं द्वितीयं नेत्रमोक्षणम्
तृतीयं प्रतिमाशुद्धिः चतुर्थं ज्ञानपर्यणम् २
जलाधिवासनं विद्यात् पञ्चमं तु प्रकल्पयेत्
षष्टे मण्टपसंस्कारं सप्तमे शयनक्रिया ३
अष्टमे होमकार्यं तु नवमे दक्षिणा तथा
दशमे स्थापने कार्या क्रममेषां प्रकीर्तितम् ४
रत्नन्यासं प्रवक्ष्यामि यथावदनुपूर्वशः
विचित्रे मण्टपे रम्ये वितानोपरि शोभिते ५
मङ्गलाङ्कुरसंयुक्ते पुष्पमालसमायुते
तत्र पीठं समास्थाय कृ त्वा चैव दिशार्चनम् ६
पदानि नवकृ त्वा तु रत्नानि विधिवन्न्यसेत्
ऐन्द्रे मरतकं प्रोक्तं वैडूर्यं वह्निगोचरे ७
इन्द्रनीलं तु याम्यायां मुक्ता नैरृतिगोचरे
वारुणे स्फटिकं प्रोक्तं पद्मरागं तु वायवे ८
वज्रं तु सौम्यदिग्भागे ईशान्यां तु प्रवालकम्
माणिक्यं मध्यमे चैव न्यसेदेवं क्रमेण तु ९
नवबीजसमायुक्तं शिव ध्यानपरायणाः
ततो देवं समायोज्य सुस्निग्धं कारयेत्ततः १०
नवमं मोक्षणं कु र्यान्मोक्षद्वययुते दिने
प्रच्छन्नपटसंयुक्तो मण्टपे च सुसंस्कृ ते ११
पूर्वाभिमुखमास्थाप्य प्रतिमां स्थण्डिलोपरि
लोकपालाधिदैवत्यं कलशैरपि संवृतम् १२
कृ त्वा दिनार्चनां तत्र गन्धपुष्पादिभिस्तथा
हेमसूचीं प्रभाराभ्यामाचार्या शिल्पिभिस्सह १३
लक्ष्मरेखां पुरा कृ त्वा ततो वैष्णवमण्डलम्
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्रसमायुतम् १४
सुवर्णदूर्व्यया विद्या मध्वाज्यां तु तर्पयेत्
तर्जन्यनामिकामध्ये सूर्यसोमानि देवता १५
हिरण्यनखसंप्रोक्तै न्यसेत्तद्बीजसंयुतम्
ताम्रपात्रे मधुप्रस्थे सहिरण्ये प्रदर्शयेत् १६
मधुवातादिमन्त्रेण मधुना तर्पयेत्ततः
घृतं मिमिक्षे मन्त्रेण कांस्यपात्रे घृतं तथा १७
गौर्धेनुभव्य मन्त्रेण सवस्त्रागां प्रदर्शयेत्
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान् वेदपारगान् १८
वेदादद्भिस्तु ते प्रोक्ष्य साक्षतं सकु शोदकम्
प्रच्छन्नपटमावर्ज्य जनान् सर्वान् प्रदर्शयेत् १९
जयशब्दादिसंयुक्तं तूर्यघोषैर्महारवैः
शुद्धिं कृ त्वा महादेवं निर्मलं तु यथा तथा २०
पवमानं समुच्चार्य पञ्चगव्याभिषेचनम्
गत्वा नद्यास्तटाके वा देवखाते मनोहरे २१
तोयपूर्णे तथा पात्रे संपूज्य वरुणं पुनः
कृ त्वा शुद्धोदके नाथ शुद्धैरूक्षैरिति ब्रुवन् २२
स्नाप्य देवान् ततो विद्वान् पुण्याहं तत्र कारयेत्
गीतवाद्यसमायुक्तं तूर्यवाद्यादिसंयुतम् २३
ग्रामं प्रदक्षिणी कु र्यात् सर्वालङ्कारसंयुतम्
यस्तत्र नर्तनं कु र्याद्भक्तियुक्तस्सदा नरः २४
अश्वमेधसहस्रस्य फलमाप्नोति मानवः
एवं प्रदक्षिणं कृ त्वा जले चैवाधिवासयेत् २५
वस्त्रयुग्मपरिच्छन्नं दर्भैस्तु परिवेष्टितम्
प्रतिमां कण्टमग्ने तु जले चैवाधिवासयेत् २६
चतुष्पादसमायुक्तं वितानध्वजसंयुतः
एकरात्रं त्रिरात्रं वा पञ्चरात्रमथापि वा २७
ततो मण्टपसंस्कारं कु र्याद्विभवविस्तरम्
दशहस्तस्तु विस्तारं दर्पणोदरसन्निभम् २८
षोडशस्तम्भसंयुक्तं मङ्गलाङ्कुरशोभितम्
अष्टदिग्ध्वजसंयुक्तं वितानोपरि शोभितम् २९
मण्टपं तु त्रिधा भज्य भागमेकं तु वेदिका
रत्निमात्रसमुत्सेधं मुष्टिमात्रमथापि वा ३०
अष्टदिक्षु च कु ण्डानि कारयेत्स्वप्रमाणतः
चतुरश्रं तु पूर्वायां आग्नेयां तु भगाकृ तिः ३१
अर्धचन्द्रं तु याम्यायां नैरृत्यां सप्तकोणके
वारुणं वर्तुलं कु ण्डं वायव्यां पञ्चकोणके ३२
त्रिकोणमुत्तरे चैवामीशान्यामष्टकोणकम्
ईशान्या शक्रयोर्मध्ये कु ण्डं वृत्तं तु कल्पयेत् ३३
अरत्निमात्रं विस्तारं तावन् खातं त्रिमेखलाम्
चतुस्त्रिद्व्यङ्गुलोत्सेधं विस्तारं तावदेव हि ३४
गोमयालेपनं कृ त्वा शोषणप्लावनं तथा
शयनं कल्पयेद्विद्वान् वेदिकोपरि शालिभिः ३५
अर्धद्रोणसमायुक्तं तदर्धैस्तण्डुलैस्तथा
अण्डजैर्म्मण्डजैर्वापि रोमजैश्चर्मजैरपि ३६
नवशक्त्यादिभिर्युक्तं गन्धाद्यैः पूजयेत्पुनः
ततो देवं समुच्चार्य शुद्धिं कृ त्वा तु पूर्ववत् ३७
शयने कल्पयेद्विद्वान् प्राक्शिरस्कं सपीठकम्
द्विगुणीकृ त्य वस्त्रेण परिधाय सवस्त्रकम् ३८
अभितः कलशानष्टौ त्रिसूत्रे परिवेष्टितान्
हैमशस्त्रसमायुक्तान् सकू र्चान् सापिधानकम् ३९
द्रोणार्धवारिसंपूर्णान् वस्त्रयुग्मसमावृतम्
अष्टविद्येश्वरैर्युक्तान् गन्धाद्यैः पूजयेत्पुनः ४०
ईशानशक्रयोर्मध्ये शिवाख्यं कलशं न्यसेत्
उमाख्यं वर्धनीं चापि स्थापयेत्तस्य वामतः ४१
उमाख्यात्पञ्चरत्नाम्बु शिवाख्यं हेमसंयुतम्
आवाहनादिकं कृ त्वाराध्य गन्धादिभिस्तथा ४२
अर्घ्यं दत्वा यथान्यायं ततो होमं समारभेत्
अग्न्याधानमुपस्थानं परिस्तरणमेव च ४३
पात्राणां साधनं चैव प्रोक्षणी प्रोक्षणं तथा
कू र्चाधानं प्रणीतां च घृतसंस्कारमेव च ४४
स्रुक्साधनपरीधानं परिषेकं समारभेत्
इध्मप्रवेशनं चापि तत्तन्मन्त्रेण देशिकः ४५
आघारमाज्यभागं तु व्याहृत्यग्निमुखक्रमम्
समिधाज्यचरून् लाजान् सर्षपांश्च यवान् तिलान् ४६
होमद्रव्याणि सप्तैते कल्प्यन्ते विधिपूर्वकम्
अश्वत्थं चैव पूर्वायां आग्नेय्यां वह्निरुच्यते ४७
उदुम्बरं तु याम्यायां खादिरं नैरृते तथा
प्लक्षं तु वारुणे भागे वायव्यां बिल्वमेव च ४८
न्यग्रोधं चैव सौम्यायां ईशान्यां तु पलाशकम्
पालाशं तु प्रधानं स्यात् सर्वेषामिध्ममुच्यते ४९
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा
अष्टोत्तरशतं वापि प्रत्येकं जुहुयात् क्रमात् ५०
सद्योजातं तु पूर्वायामाग्नेयां हृदयं तथा
वामदेवं तु याम्यायां नैरृत्यं शिव उच्यते ५१
अघोरं वारुणे भागे वायव्यां तु शिवं तथा
सौम्ये तत्पुरुषं प्रोक्तं ईशान्यां नेत्रमुच्यते ५२
ईशानं तु प्रधानं स्यात् मन्त्रमेवं प्रकल्पयेत्
भवरुद्रस्तु पूर्वायां शर्वमाग्नेयमेव च ५३
याम्ये पशुपतिं चैव उग्रं नैरृतिगोचरे
रुद्रं तु वारुणे भागे भीमो वै वायुगोचरे ५४
महादेवं तु सौम्यायामीशान्यामीशमुच्यते
प्रधानं तु शिवः प्रोक्तं तत्तद्ध्यानपरायणः ५५
स्वाहान्तेनैव मन्त्रेण जुहुयाच्च विधानतः
आज्यादिभिस्तथा षड्भिर्जुहुयाद्धृदयादिभिः ५६
द्रव्यान्ते चैव मन्त्रेण व्याहृतीर्जुहुयात्पुनः
प्रतिद्रव्यं कु शै स्पृष्ट्वा घृतेनैवाहुतिर्भवेत् ५७
त्रियम्बके ति मन्त्रेण समिधाज्यमुखाहुतिः
घृतं मिमिक्षे घृतस्येति अन्नप्राणं चरेस्तथा ५८
विरूपाक्षद्वयं चापि लाजसर्षपयोस्तथा
आवो राजानमन्त्रेण यवहोमस्य कीर्तितः ५९
यत्ते वयं तिलस्यापि प्रत्येकं जुहुयात्ततः
वेदादिश्च ततो हुत्वा प्रत्येकं तु शताहुतीः ६०
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरेत्
स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम् ६१
अथ ब्रह्मषडङ्गैस्तु कु र्यादाच्याहुतिः पुनः
प्रभाते दक्षिणां कु र्यात् यथाशास्त्रार्थ चोदितः ६२
आचार्यं पूजयेत्पूर्वं वस्त्रहेमाङ्गुलीयकैः
अधमं पञ्चनिष्कं तु द्विगुणं मध्यमं भवेत् ६३
उत्तमं त्रिगुणं प्रोक्तमाचार्यस्य तु दक्षिणा
दशभागैकभागं तु मूर्तिधारकदक्षिणा ६४
द्विगुणं वास्तुहोमस्य दैवज्ञस्य तथैव तु
अर्धं वै मूर्तिधारस्य दक्षिणाध्ययनस्य तु ६५
अस्त्रजप्य यथाशक्त्या शास्त्रज्ञानं च योगिनाम्
भक्तानां परिवाराणां यथाशक्त्या तु दक्षिणा ६६
एवमुक्तप्रमाणेन कृ त्वा कालं परीक्षयेत्
मुहूर्तान्नाडीकां पूर्वे सर्ववाद्यसमन्विते ६७
उत्थाप्य शयनाद्देवमाचार्यो मूर्तिपैस्सह
जयशब्दसमायुक्तस्नानं वेद्युपरि न्यसेत् ६८
स्मृतेश्शिरोर्पणं कु र्याद्धेमदूर्वाङ्कुराक्षतैः
सघृतैस्सद्यमन्त्रेण मूर्ध्नि मध्ये च पादयोः ६९
शुद्धोदके न संस्नाप्य षडङ्गं च ततो न्यसेत्
ततो मुकु लमुद्रां च पद्ममुद्रां च दर्शयेत् ७०
सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्न्यसेत्
ध्यात्वा तत्प्रतिमाकारं सकलीकृ तविग्रहः ७१
प्रासादबीजप्रतिमान्न्यसेत्प्रियतमानसः
जयादि प्रतिपद्याथ स्विष्टान्तं कारयेत्तथा ७२
अग्निकार्यविधानोक्तिं ततस्सर्व समाचरेत्
ततः स्ननाममन्त्रेण कलशानभिषेचयेत् ७३
शिवकु म्भं तु सद्यादि पञ्चवक्त्रेण सेचयेत्
उमागायत्री मन्त्रेण वर्धन्यस्थापयेत्ततः ७४
अथार्चनविधिं सम्यक् कु र्यात्सर्वं यथोदितम्
सप्ताहमुत्सवं कु र्यात् पश्चात्स्नपनमारभेत् ७५
इति स्वायम्भुसूत्रे स्थापनपटल त्रयस्त्रिंशत्