३२ स्थापकः पटलः

अथ देवं सुरेशानमपृच्छ स्वयथार्थतः
तैर्लिङ्गैर्देशिके युक्तो को वा स्थापक उच्यते १
एवमुक्तो हरप्राह प्रस्फु रच्चन्द्रशेखरः
शैवं पाशुपतं सोमं लाकु टं चतुर्विधम् २
तंत्र भेदास्समाख्यातास्सङ्करं न समारभेत्
एके न दीक्षितोऽन्येन कु र्या स्थापनसत्क्रिया ३
स्थापनार्चान्यतन्त्रेण तन्त्रसंकर उच्यते
तन्त्रसंकरदोषेण राज्ञा राष्ट्रा विनश्यति ४
तस्मात् सर्वप्रयत्नेन न कु र्यात्तन्त्रसंकरम्
अष्टाविंशतिभेदेन विभिन्नं देवमुच्यते ५
कामिकं योगजं चिन्त्यं कारणं च जितं तथा
दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदतः ६
नारसिंहं च निश्वासं स्वायम्भुवमतः परम्
आग्नेयं वीरभद्रं च रौरवं मकु टं तथा ७
विजयश्चन्द्रहासञ्च मुखबिम्बं तथैव च
प्रोद्गीतं सलिलं चापि देव्यां मतमतः परम् ८
तलोत्तरं वातुलं च सिद्धसंज्ञानसंज्ञकम्
शर्वानगीतं च परमं किन्नरं पारमेश्वरम् ९
शैवभेदास्समाख्याता अष्टाविंशतिसंज्ञकाः
सत्कारा ह्येषु भेदेषु न दोषाय प्रकल्पयेत् १०
एकस्यैव तु भेदत्वान्न भवेत्तन्त्रसंकरः
शैवतन्त्रार्हक प्रोक्ता आदिशैवा इति स्मृताः ११
कौशिकः काश्यपश्चैव भरद्वाजोऽत्रिरेव च
पराशरञ्च पञ्चैते पञ्चवक्त्रेषु दीक्षिताः १२
कौशिकश्शिवमूर्धा तु दीक्षितश्शिवगोचरः
शिखागोचर इत्युक्तः काश्यपं त्वीश्वरेण तु १३
ईशानेन भरद्वाज दीक्षितो ज्योतिशेखरः
सावित्रीगोचरात्रिस्तु ब्रह्ममूर्द्ध्या तु दीक्षितः १४
पराशरे व्योमसंज्ञा ऊर्ध्ववक्त्रेण देशिकः
शिवश्शिखामथाज्योतिसावित्री व्योमसंज्ञिकाः १५
एते तु गोचरा प्रोक्ता गोचरं कु लमुच्यते
कु लेष्वेतेषु संज्ञातो आदिशैवा इति स्मृताः १६
आदिशैवा इति प्रोक्तास्सशिवब्राह्मणो गुरुः
देशिकस्थापकश्चेति परिर्यायेण चोदितः १७
आदावेव हि शैवत्वादादिशैव इति स्मृताः
शिवेन दीक्षितत्वा च शिवब्राह्मण उच्यते १८
सर्वेषां तु गुरुत्वा च गुरुरित्युच्यते बुधैः
देश आदिश्यते एन स देशिक इति स्मृतः १९
लिङ्गस्थापकयोद्ध्यात्वा स्थापको नाम कीर्तितः
शिखी मुण्डी जटी चैव भस्मोद्धूलितविग्रहः २०
दीक्षितः कर्मकु शलः सर्वागमविशारदः
अप्रमत्तो भवेन्नित्यं देवाग्निगुरुपूजनम् २१
ईदृग्लक्षणसंयुक्तमचोर्यस्समुदाहृतः
काणश्च मत्सरो धूर्णो दीर्घाङ्गो बधिरशठः २२
शिपिविष्टो दुराचारो दुष्कर्मकु नखी कृ शः
खञ्जश्च श्यामदन्तश्च वामनं कृ पनो जलः २३
सरोगो विकटाङ्गश्च बालो वृद्धस्तथैव च
एतैस्तु लक्षणैर्युक्ता स्थापको वर्जितो मताः २४
इति स्वायम्भुसूत्रे स्थापकः पटल द्वात्रिंशत्