३१ लिङ्गस्थापनम्

अथ वक्ष्ये सुशैलानां लिङ्गस्थापनमुत्तमम्
प्रासादस्याग्रतः कु र्यान्मण्टपं नातिदूरतः १
दशद्वादशहस्तं वा विंशद्धस्तमथापि वा
स्तम्भैष्षोडशभिर्युक्तैर्द्वात्रिंशद्भिरथापि वा २
पादान्तं वा कपोतान्तं पङ्क्तिमानमथाच्छ्रयम्
कु र्याद्वारं चतुर्दिक्षु चतुर्भिस्तोरणैर्युतम् ३
प्लक्षौदुम्बरमश्वत्थवटाः पूर्वादितः क्रमात्
आयामं पञ्चहस्तं स्याद् विस्तारं तु तदर्धतः ४
हस्तमानं खनित्वा तु दृश्यं हस्तचतुष्टयम्
श्यामं रक्तं तथा कृ ष्णं धूम्रं श्वेतं च पीतकम् ५
बभ्रुः पाण्डरवर्णश्च पूर्वादिध्वजवर्णतः
हस्तमानं तु विस्तारं तदर्धं शिखरं भवेत् ६
मीनपुच्छाकृ तिं कु र्याद्धस्तमानेन तस्य तु
अध्यर्ध्यं हस्तमायामं मध्ये शिखरपुच्छयोः ७
गजाजमहिषीसिंहमत्स्यकृ ष्णाश्वगोवृषान्
लाञ्छयित्वा यथान्यायं लोकपालानथार्चयेत् ८
भद्रमालाभिरावृत्य हस्तमानप्रलम्बकैः
अलङ्कृ तवितानैश्च पुष्पमालाङ्कुरादिभिः ९
तस्योत्तरे तथा पार्श्वे कु र्या स्थापनमण्टपम्
आनयेत्तं रथारूढलिङ्गमण्टपमध्यतः १०
रथभङ्गे तथा कु र्यादीशानेन शताहुतीः
ईशाभिः कर्षणं कृ त्वा दक्षिणद्वारमारभेत् ११
ब्रह्मघोषसमायुक्तं तूर्यघोषैस्समङ्गलैः
संपूज्य ++ हेमाद्यै स्थापकं स्थापितं तथा १२
ऊर्ध्वभागं विभज्याथ दश द्वादशदाष्टधा
एवमेतं विजानीयात्सर्वलिङ्गविधौ मतः १३
एवमत्र निमग्ना तु रेखा च परिकीर्तिता
भज्य षोडशधा पूजा भागाद्वयमथास्त्यजेत् १४
नवनालं तदूर्ध्वं तु मुकु लं भागमुच्यते
भागमेकं त्रिधा भज्य द्विभागं तार उच्यते १५
नालायाममधस्तीर्य कृ त्वा तत्पार्श्वयो द्वयोः
तस्मादमुकु लाद्यावत् तेन सूत्रेण लम्बयत् १६
तयोस्तु सङ्गमङ्कार्यो यावत्पृष्ठान्तगोचरः
प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु १७
भागमेकमधस्त्यक्त्वा दशांशं नाल उच्यते
दशांशं पुष्करं प्रोक्तं त्यक्त्वार्धं तु तुरीयकम् १८
लम्बलं संभ्रमं चापि कु र्यात्पूर्ववदेव ता
द्वितीयं लक्षणं प्रोक्तं तृतीयं लक्षण शृणु १९
पूजाभागं समस्तं तु भज्य द्वादशधा समम्
ऊर्ध्वे भागे द्वयं त्यक्त्वा भागमेकमधस्त्यजेत् २०
अष्टभागं तु नालं स्यात् शेषं तु मुकु लं भवेत्
तृतीयं लक्षणं प्रोक्तं चतुर्थं लक्षण शृणु २१
पूजाभागं त्रिभागं तु कृ त्वैकं तु त्रिधा भवेत्
अंशमेकमधस्त्यक्त्वा त्यक्त्वांशद्वयमूर्ध्वतः २२
शेषं तु पूर्ववत्सर्वं यथोक्तं कारयेद्बुधः
रेखाद्वयं तु नालं स्यात् मुकु लं पद्मसन्निभम् २३
दक्षिणे ब्रह्मरेखा स्यात् सव्ये वैष्णवमुच्यते
रौद्रं तु नालमित्युक्तं त्रिधैवं लक्षणं भवेत् २४
हिरण्यसूच्या तु लिखेदाचार्यो मन्त्रसंयुतः
ब्रह्मजज्ञानमन्त्रेण ब्रह्मरेखां समालिखेत् २५
अघोरास्त्रेण मन्त्रेण रुद्रलेखां समालिखेत्
मधुवाता ऋता एति मधना तर्पयेत्ततः २६
घृतं मिमिक्षे मन्त्रेण तर्पयेच्च घृतेन तु
कृ शा सकृ द्भस्ममृद्भि तस्योद्वर्त्य पुनः पुनः २७
प्रक्षालय पञ्चगव्येन पवमानमुदीरयेत्
लिङ्गं रथ स्थितं कृ त्वा प्रवेश्याथ जलाशयम् २८
चतुर्गात्रसमायुक्तं वितानध्वजशोभितम्
व्योमव्यापिं समुच्चार्य ततो लिङ्गं स्पृशेद्गुरुः २९
त्रिरात्रं वा द्विरात्रं वा पञ्चरात्रमथापि वा
जलाधिवासितं लिङ्गमानयेच्च रथस्थितम् ३०
मण्टपस्योत्तरे भागे शुद्धिं कृ त्वा तु मन्त्रतः
आवेष्ट्याहतवस्त्राभ्यां दर्भैरावेष्टयेत्ततः ३१
रक्तवस्त्रेण संवेष्ट्य लिङ्गं सर्वं समस्तकम्
कृ त्वा रथस्थितं लिङ्गं नयेन्मण्टपमध्यतः ३२
अष्टद्रोणे शालीनां स्थण्डिलं कारयेत्ततः
तदूर्ध्वेऽष्टदलं पद्मं तण्डुलेन तु कारयेत् ३३
नवशक्तिसमायुक्तमर्चयेद्गन्धपुष्पकैः
शय्यं कल्प्य यथा न्यायमण्डजाद्यैरनुक्रमात् ३४
प्राङ्मस्तकमधः सूत्रं शयीत शयने तथा
वस्त्रेणाच्छाद्य तं लिङ्गं दर्भैः पुष्पैस्तथोपरि ३५
साधयेत्तु तथा पीठलिङ्गवल्लिङ्गमूलतः
गन्धादिकं ततो दत्वा सद्यादिब्रह्मभिस्तथा ३६
अर्घ्यं दत्वा यथान्यायं ईशानेन विशेषतः
कु र्युरध्ययनं दिक्षु चत्वारो वेदपारगाः ३७
ऋग्वेदं दिशि पूर्वायां यजुर्वेदं तु पश्चिमे
सौम्यायां साम ++ अथर्वेदं तु दक्षिणे ३८
श्रीसूक्तं पुरुषसूक्तं च रात्रिसूक्तं वृषा कपिम्
पवमानस्य वानीयो ऋग्वेदाध्ययनो भवेत् ३९
शमापृच्युमाहानम्यं रुद्रं होतारमेव च
शान्तिद्वयं पा +++ रुणं नारायणं तथा ४०
यजुषाध्ययनं कु र्यात् त्वरितं रुद्रमुच्यते
भरुण्डानि च सामानि ज्येष्ठसाम रथन्तरम् ४१
देवव्रतं पुरुषव्रतमावो राजानमेव च
बृहच्चन्द्रं तथा सोमं सामध्ययनमिष्यते ४२
अथर्वशिरसं चैव नीलरुद्रं तथैव च
विरूपाक्षं स्कन्दसूक्तं अथर्वाध्ययनं भवेत् ४३
प्रत्यग्रे स्थण्डिलं कृ त्वा शालिभिर्हस्तमानतः
पञ्चगव्येन संपूर्णं कलशं तत्र विन्यसेत् ४४
विधायिके न वस्त्रेण ध्यात्वा देवं त्रियम्बकम्
अकालमूलकलशा आढकद्वयपूरिताः ४५
विधानवस्त्रकू र्चाढ्या हेमसूत्रसमायुता
अष्टविद्येश्वरे युक्तान् स्थापयेदष्टदिक्ष्वपि ४६
गोमूत्रं गोमयं क्षीरं दधिसर्पिकु शोदकम्
गन्धोदकं मधुं चैव कलशेषु विनिक्षिपेत् ४७
हृदयादिरथोभ्यर्च्य मन्त्री गन्धादिभिस्तथा
द्वारपार्श्वे तथा चाष्टौ कलशान् विन्यसेत् क्रमात् ४८
भद्रं च विजयं चैव विजृम्भो लोहितस्तथा
पूर्वादौ स्थाप्य संपूज्य तोरणे कलशे तथा ४९
ततो होमं प्रकु र्वीत कु ण्डे वा स्थण्डिलेऽपि वा
द्वात्रिंशद्वा चतुर्विंशत् षोडशाष्टावथापि वा ५०
कु र्यादयतनान्यत्र ततो होमं समाचरेत्
पलाशौदुम्बराश्वत्थमयूरं च दिशासु च ५१
शमीखदिरश्रीवृक्ष न्यग्रोधान् कोणदिक्षु च
द्वादशाङ्गुलमायाममेकैकं तु शतत्रयम् ५२
दिक्षु सद्यादिभिर्मन्त्रैर्विदिक्षु हृदयादिभिः
हुत्वा शतान्ते लिङ्गस्य दर्भैर्मूलादिसंस्पृशेत् ५३
ईशाने शिरसि स्थाने लिङ्गस्य जुहुयाद्गुरुः
आज्यं हृदयमन्त्रेण शिरसा च चरूं स्तथा ५४
लाजांस्तु शिखया प्रोक्ता कवचेन यवास्तथा
अस्त्रेण सर्षपांश्चैव नेत्रेण तु तिलस्तथा ५५
स्पृष्ट्वा लिङ्गस्य मूर्धानां प्रत्येकं तु शताहुतिः
द्रव्यान्ते व्याहृतिहुत्वा स्रुचा पूर्णाहुतिर्हृदा ५६
आज्यं चरूं मधुक्षीरं जुहुयाच्च तथा पुनः
पुण्याहं वाचयित्वाथ दद्यादर्घ्यं विशेषतः ५७
एकरात्रं द्विरात्रं वा त्रिरात्रं वाधिवासयेत्
गुरुपूजां ततः कु र्यात् मूर्तिपास्तु विशेषतः ५८
ब्राह्मणान् भोजयेत्तत्र यथाशक्त्या विधानतः
तपस्वीं पूजयेद्भक्त्या वस्त्रहेमाशनादिभिः ५९
अथ प्रभाते विमले रत्नन्यासं समारभेत्
श्वभृङ्गर्भगृहे कार्यं सूत्रेण सुषिरं तथा ६०
स्थाप्य ब्रह्मशिलां तत्र न निम्नं नोन्नतं तथा
गर्भाक्षयां चतुर्भागं तुयश्रात्सावटानिला ६१
प्रकाल्य पञ्चमृद्भिस्तु गोमूत्रेणाम्भसा ततः
हृदयेन तु मन्त्रेण चन्दनेन तु लेपयेत् ६२
ततो रत्नानि धातुं च बीजान्योषधयस्तथा
विन्यसेच्च क्रमात्तत्र नवबीजमनुस्मरन् ६३
वज्रं मरतकं नीलं पुष्पं स्फटिकशङ्खजम्
वैडूर्यं मौक्तिकं चापि शक्रादिक्रमशो न्यसेत् ६४
कालं शिलाजनं श्यामकरासीसंक्षिकं तथा
दरोदरा गैरिकां च पूर्वादिक्रमशो न्यसेत् ६५
गोधूमतिलनीवारसर्षपान् दिक्षु विन्यसेत्
विदिक्षु यवमुद्गाश्च श्यामाका व्रीहयस्तथा ६६
भारद्वयागरूश्चैव मूलकौ शिर एव च
विष्णुक्रान्ति सहायैव लक्ष्मणा च क्रमान्न्यसेत् ६७
वृषभ हेमसंभूतं कू र्मं वा मध्यमे न्यसेत्
प्रतिलिङ्गं तथा स्थाप्य क्षीरदारुमयं शुभम् ६८
ज्ञात्वारुजुस्थितं तत्र किञ्चिदीशानमाश्रितः
व्यपोह्य प्रतिलिङ्गं तु ततस्थापनमारभेत् ६९
शङ्खभेरीनिनादैश्च वेदमङ्गलवाचकैः
पुण्याहं जयशब्दैश्च नृत्तगेयसमाकु लैः ७०
आचार्यै मूर्तिपैस्सार्धं सहायैर्बलवत्तरैः
सद्येनोत्पाटयेर्लिङ्गं रथं वामेन शोधयेत् ७१
अघोरेणावकु ण्ठ्याथ वक्त्रेणाराध्य यत्नतः
ईशानेन ततो दद्यात् अर्घ्यमष्टाङ्गमुत्तमम् ७२
प्रदक्षिणं ततः कृ त्वा मूर्तिपैर्गुरुणा सह
पुत्रभ्रातृकलत्रं च यजमानो व्रजेदनु ७३
विश्राम्य द्वारदेशे तु दद्यादर्घ्यं विधानतः
प्रवेशयेत्ततो लिङ्गं गर्भगेहं समाकु लम् ७४
पायसेनानुलिप्याथ साज्यं ब्रह्मशिलावटम्
रथं सम्यक् निवेश्याथ लिङ्गावटसमं यथा ५
पञ्चमेन ततस्थाप्य गुरुर्वै मूर्तिपैस्सह
विन्यसेत्तत्र प्रासादं लिङ्गमध्ये समाहितः ६
सुस्थितं दुस्थितं वापि स्थापितं न तु पालयेत्
चलिते तु महादोषो राज्ञां राष्ट्रस्य वै भवेत् ७
पीड्येशान्यां स्थितं लिङ्गं सर्ववृद्धिकरं शुभम्
यत्किञ्चिदन्यदिक्पीड्यं स्थितं लिङ्गमशोभनम् ८
वालुकाभिस्समापूर्या वादिमातृकया न्यसेत्
विवाय दक्षिणं हस्तं गुरुर्लिङ्गस्य मूर्धनि ९
व्योमव्यापिं समुच्चार्य कलाङ्गानि न्यसेत्तदा
संकल्प्यासनमाराध्य बाह्यस्थापनमारभेत् १०
पूर्वोक्तैरेव मन्त्रस्तु मध्ये तारभिषिञ्चयेत्
स्वैर्मन्त्रैरेव कलशैः गुरुस्नापनमारभेत् ११
ततो विधिवदाराध्य चण्डयागं समारभेत्
इति स्वायम्भुवसूत्रे लिङ्गस्थापनपटल एकत्रिंशत्