अथ वक्ष्ये विशेषेण प्रतिमालक्षणं परम्
निष्कलं लिङ्गमित्युक्तं सकलं प्रतिमा भवेत् १
त्रिविधं तु समाख्यातमचलं मृण्मयं तथा
चलं लोहमयं प्रोक्तं शैलमुक्तं चलाचलम् २
मृण्मयप्रतिमायां तु शूलास्थापनमारभेत्
खदिरादेवदारूश्च सारसस्तञ्च एव च ३
कृ सरं चन्दनं चेति सारेरेषां तु कारयेत्
दण्डं प्रोक्तं शैलमुक्तं अष्टबन्धमथापि वा ४
पदमेकोनपञ्चाशत्कृ त्वैकं मध्यमं भवेत्
ब्राह्म्यं तदभितश्चाष्टौ दैविकं तस्य बाह्यतः ५
मानुषं षोडशाख्यातं शेषं पैशाचमुच्यते
मानुषे परभागे तु शूलस्थापनमारभेत् ६
तदग्रे मानुषे भागे कर्मार्चास्थापनं भवेत्
अधिवास्या ततो रात्रौ तण्डुले शालिसंभवेत् ७
गन्धादिस्समभ्यर्च्य सद्यादिब्रह्मभिस्ततः
अभितः कलशानष्टौ विद्येश्वरसमायुतान् ८
वस्त्राढ्यान् कू र्चसंयुक्तान् सहेमान्परिपूरिताः
गन्धादिभिस्समभ्यर्च्य ततो होमं समाचरेत् ९
समिधस्सद्यमन्त्रेण सर्पिर्वामेन होमयेत्
अघोरेण चरुं हुत्वा लाजान् तत्पुरुषेण तु १०
ईशानेन यवान् हुत्वा प्रत्येकं तु शताहुतीः
प्रभाते सुमुहूर्ते तु शूलस्थापनमारभेत् ११
शिलापादधरं स्थाप्य रत्नादि क्रमशो न्यसेत्
ऐन्द्रे तु विन्यसेद्वज्रं वैडूर्यं वह्निगोचरे १२
इन्द्रनीलं तु नैरृत्यां याम्यामे पुष्यरागकम्
प्रवालं वरुणे भागे मौक्तिकं वायुदेशतः १३
सूर्यकान्तं तु सौम्यायामीशान्यां स्फटिकं तथा
माणिक्यं मध्यमे चैव नवबीजानि विन्यसेत् १४
ईशानेन तु मन्त्रेण शूलं संस्थापयेदथ
गन्धादिभिस्समभ्यर्च्य पुण्याहं वाचयेत्ततः १५
पूजयेद्वस्त्रहेमाद्यैस्थापकं स्थापितं तथा
प्रतिमां तु ततः कृ त्वा संस्कृ तेन मुदान्वितः १६
श्वेतां रक्तां तथा पीतां कृ त्तिकां तु समाहरेत्
अतसीतैलसंयुक्तं घृतं क्षीरयुतं तथा १७
गोधूमयवमाषाणां पूर्णैः कपिसमायुतैः
सज्जगुग्गुलुनिर्यासं लाक्षश्रीवेष्टकं तथा १८
चूर्णैः क्वाथ समायोज्य क्षीरवृक्षत्वचं तथा
पिञ्जिलेन कषायेन समालोप्य सकृ त्ततः १९
मासपक्षोषितेनाथ सुश्लक्षेण मुदा सह
तदेव नालिके रस्य फलं कोशेन संयुतम् २०
स्रक्षणेन समायुक्तं कर्तव्यममलं ततः
ब्रह्माविष्णुहरं चैव दशतालेन योजयेत् २१
अर्धतालविहीना स्युः तदेन्द्वादित्यवज्रिणः
अश्विश्चण्डेश्वरं चैव यमश्च वरुणस्तथा २२
वायुश्चापि कु बेरश्च नवतालेन कारयेत्
उमादुर्गा तथा लक्ष्मी ज्येष्ठा चापि तथा भवेत् २३
अर्धतालविहीना स्युः विद्येशा निरृतिस्ततः
अष्टतालनरास्तत्र राक्षसाश्च गणेश्वराः २४
सप्ततालं पिशाचास्तु पञ्चतालगणाधिपम्
वामनस्तु तथैवा स्यात् चतुस्तालं तु भूतकाः २५
विभज्य प्रतिमायामं तालगुण्ये नवाङ्गुलम्
द्व्यङ्गुलात्तु कला ज्ञेयात् भागं विद्यात् कलात्त्रयम् २६
भागं द्वयं मुखं विद्यात् यमतालं च कीर्तितम्
द्वारमानेन कर्तव्यमचलं तु प्रमाणतः २७
उत्तमं तु समाख्यातमचलं द्वारसंमितम्
नवभागविहीनं तु मध्यमं समुदाहृतम् २८
अष्टभागैकहीनं यदधमं समुदाहृतम्
त्रिभागैकं भवेत्पीठमधमेन तु कल्पयेत् २९
स्थानके तु चतुर्भागं पञ्चभागैकमेव वा
गर्भमानेन तुर्यात्तु चलं चैव चलाचलम् ३०
गर्भं तु नवधा भज्य भवेदेकैकहीनकम्
प्रोक्तं तु नवधा नाममुत्तमादित्रयं त्रयम् ३१
अथ वक्ष्याम्यशेषेण मानोन्मानप्रमाणतः
मानमायाममित्युक्तं उन्मानं नागमुच्यते ३२
एषां चिह्नं प्रमाणं स्यात् वक्ष्यतेऽतः परं क्रमात्
उष्णीषमङ्गुलं प्रोक्तं त्र्यङ्गुलं शिर उच्यते ३३
भागमेकं ललाटं स्यात् नासिकां तु कलाद्वयम्
चिबुकं भागमेकं स्यात् कण्ठं भागप्रमाणतः ३४
कण्ठान्तु हृदयं तालं नाभिस्तस्मात्तथा भवेत्
तस्मान्मेढ्रं तु तालं स्यादूरुतालद्वयं भवेत् ३५
भागमेकं भवेज्जानु जङ्घा तालद्वयं तथा
गुल्फं कलाद्वयं प्रोक्तं मानमेवं प्रकीर्तितम् ३६
एवं समानं सर्वेषामधिकं चाष्टभाजितम्
मूढात्कण्ठत्वजानू च गुल्फं हित्वाभिवर्जयेत् ३७
न्यूने चाप तथा न्यूनं कर्तव्यं तु विजानता
षट्त्रिंशदङ्गुलं प्रोक्तं शिरसो नाग एव तु ३८
कर्णयोरन्तरालं तु ललाटे तु दशाङ्गुलम्
मस्तकात्तु तथा कर्णं द्वादशाङ्गुलमुच्यते ३९
चतुरङ्गुलकर्णं स्याद्विस्तारं स्यात्तदर्धनः
ओष्ठमेकाङ्गुलं प्रोक्तमुत्तरोष्ठं तदर्धतः ४०
कलाद्वयं भवेदास्यं कर्णनालं त्रियङ्गुलम्
कलायामं तथा नेत्रं विस्तारं स्यात्तदर्धतः ४१
त्रिभागैकं भवेत्तारं ज्योति स्यात् पञ्च भागकम्
विकलं नासिकायामं तलं चैव पुटद्वयम् ४२
कू टमध्ये यवं प्रोक्तं नासिकाग्रं तथा भवेत्
अग्रं तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः ४३
भ्रुवो नेत्रसमायामौ कलाविद्यात्तदन्तरम्
त्र्यङ्गुलं तु गलोत्सेधं द्विबुधं चतुरङ्गुलम् ४४
षड्भागं कण्ठनाहं स्यात् द्विभागं स्कन्दमुच्यते
उरौ नाभस्तथा प्रोक्तं पञ्चविंशत्कला भवेत् ४५
नाभिमध्ये तथा नाभौ द्विचत्वारिंशदङ्गुलम्
नाभिप्रदक्षिणावर्ण निम्नमर्धाङ्गुलं भवेत् ४६
कण्ठा स्तनं मुखं ज्ञेयं स्तनयोरन्तरं तथा
विस्तारेण समाख्याता कटिरष्टादशाङ्गुला ४७
ऊरुमूले तथा नाहौ द्वात्रिंशत्र्यङ्गुलानि तु
सप्तभागं तु तन्मध्ये पञ्चभागं तु जानुतः ४८
जनुनाभात् कलाहीनं जङ्घमध्ये प्रकीर्तितम्
कलाहीनं ततस्तस्मात् जङ्घाग्रे नाल उच्यते ४९
बाहुनाहौ नवकला कलाहीनं च बाहुकम्
कराग्रै षट्कलानाभौ मणिबन्धे कलानिधिः ५०
तदूर्ध्वं तु कलं ज्ञेयं सप्ताङ्गुलमुदाहृतम्
करमध्याङ्गुलायामं पञ्चाङ्गुलमुदीरितम् ५१
तस्मादर्धाङ्गुलग्रासोऽनामिकायाः प्रमाणतः
तर्जनी तत्समा ज्ञेया भागमङ्गुष्ठमुच्यते ५२
आयामं तत्प्रमाणेन कनिष्ठाङ्गुलसंमिता
अङ्गुलीनां तु सर्वं स्यात् पञ्चभागैकमूर्ध्वतः ५३
द्विभागं मध्यपर्वं स्यात् अधस्तात् तत्समं भवेत्
अङ्गुष्ठं तु द्विपर्वं स्यात् अधश्चोर्ध्वं समं भवेत् ५४
नखं स्यादग्रपर्वान्तमङ्गुलीनां प्रमाणतः
आयामसदृशानाभमङ्गुष्ठस्य विधीयते ५५
तस्मादर्धाङ्गुलग्रासो मध्यमायास्त्वनाहतः
त्र्यङ्गुलं च तथा प्रोक्तं तर्जनी नाभ उच्यते ५६
तत्समानामिका ज्ञेया कनिष्ठाष्टाङ्गहीनका
त्र्यङ्गुष्ठकं प्रदेनाहुः ++ पञ्चाङ्गुलो मताः ५७
तत्समानामिका ज्ञेया नाहुविद्याच्चदङ्गुलम्
षोडशांशैकहीनास्यादायामेनाहतस्तथा ५८
मध्यमानामिका ज्ञेयानामिकाया कनिष्ठिका
द्वाः पादशाङ्गुलमायामं मकु टं चाधमं भवेत् ५९
चतुर्दशाङ्गुलायामं मकु टं मध्यमं भवेत्
षोडशाङ्गुलमायामं मकु टं चोत्तमं भवेत् ६०
अष्टाङ्गमधिकं नाभं राक्षसाञ्चासुरास्तथा
भूतानां द्विगुणं नाभं विघ्नेशस्य तथा भवेत् ६१
पिशाचस्य मुखादन्यनाभमर्धमुदीरितम्
एवं प्रमाणमुद्दिष्टमधुनाकृ तिरुच्यते ६२
सुखासनं तु प्रथमं द्वितीयमुमया सह
तृतीयं वृषभारूढं चतुर्थं त्रिपुरान्तकम् ६३
पञ्चमं नृत्तरूपं तु षष्ठं वै चन्द्रशेखरम्
अर्धनारीश्वरं तत्र कु र्याद्वै सप्तमं ततः ६४
अष्टमं हरिरधं स्याद् ईश्वरार्धं तु कारयेत्
चण्डेश्वरप्रमाणं तु नवमं कारयेत्ततः ६५
कु मारीं दशमं कु र्यात् कलानाशमतः परम्
द्वादशालिङ्गसंभूतं द्वादशप्रतिमस्तथा ६६
त्रिणेत्रं भुजचत्वारी बालेन्दुकृ तशेखरम्
व्याघ्रचर्माम्बरं चैव हारके यूरसंयुतम् ६७
यज्ञोपवीतं संयुक्तं कु ण्डलाभ्यामलङ्कृ तम्
एवं द्वादशमूर्तीनां सामान्यं समुदीरितम् ६८
अतः परं विशेषं तु वक्ष्यो त क्रमशोऽधुना
आसने तु सुखासीनं कृ ष्णं परशुधारिणम् ६९
देवं कु र्यात्सुखासीनमुमासहितमुच्यते
उमाशङ्करयोर्मध्ये स्कन्दं वै बालरूपिणम् ७०
सुखासीनं ततः कु र्यात्पूर्ववत्सर्व एव तु
तस्यैव वामपार्श्वे तु भवानीं श्यामला शुभाम् ७१
भुजद्वयसमायुक्तं प्रसारितकरान्वितम्
दक्षिणेऽब्जधरं देवीं सर्वाभरणभूषिताम् ७२
तप्तकाञ्चनसंकाशं गौरीं ध्यायेद्विचक्षणः
अष्टबाहुचतुर्मूर्ते शक्तिमेतां प्रकीर्तिताम् ७३
पाशाङ्कुशधरां देवीं वराभयधृतान्विताम्
सभोगसमते चैव प्रसारित करान्विताम् ७४
इत्थं भूतवरारोहां भावयेत्तं विचक्षणः
द्विरष्टहस्तमूर्तेस्तु शक्तिरेषां प्रकीर्तिताम् ७५
अघोरशक्तयः प्रोक्तं विकरालीति संज्ञितम्
भुजाष्टकसमायुक्तां ध्यायेत्ताघोररूपिणीम् ७६
वरं च फलकं चैव टङ्कं पाशं तथाङ्कुशम्
गदात्रिशूलचक्रं च पद्मं चेति यथाक्रमम् ७७
द्वात्रिंशद्धस्तमूलैस्तु शक्तयस्ताः प्रकीर्तिताः
नासान्तमुत्तमं प्रोक्तं कण्ठान्तं मध्यमं भवेत् ७८
स्तनान्तमधमं चैव त्रिविधा मूर्तिकल्पना
वृक्षारूढमथो वक्ष्ये वृषभं पृष्ठतस्थितम् ७९
उमेश्वरौ स्थितौ कृ त्वा कोर्परं वृषमुच्यते
कृ ष्णापरशुसंयुक्तं कर्तव्यं वृषवाहनम् ८०
धनुर्बाणसमायुक्तं कृ ष्णापरशुधारिणम्
उमया सहितं देवं कु र्याद्वै त्रिपुरान्तकम् ८१
शूलं डमरूहस्ताभ्यां नृत्यन्तं शान्तरूपिणम्
जनाभिस्सविकीर्णं तु नृत्तरूपं तु कारयेत् ८२
रज्वागतस्मितं देवं कृ ष्णापरशुधारिणम्
जटामकु टसंयुक्तां कर्तव्यं चन्द्रशेखरम् ८३
ईश्वरं दक्षिणं पार्श्वं वामपार्श्वं तु पार्वती
प्रकोष्ठे शुकसंयुक्तं हरं परशुसंयुतम् ८४
अर्धनारीश्वरं प्रोक्तं हरिरर्धमथोच्यते
वामपार्श्वे हरिं कु र्याद्दक्षिणे परमेश्वरम् ८५
हरिश्चक्रधरं देवं ईश्वरे परशुस्थितः
पीताम्बरधरं विष्णुं व्याघ्रचर्माम्बरेश्वरम् ८६
विष्णुं किरीटसंयुक्तं जटामकु टमीश्वरम्
हरिरर्धमिदं प्रोक्तं श्यामं विष्णुशिवं तथा ८७
प्रत्यालीढस्य देवस्य चण्डेशं पार्श्वतो न्यसेत्
प्रकृ ष्टपरशुं कृ त्वा हृदये तु कृ ताञ्जलिः ८८
चण्डेश्वरप्रसादं तु प्रोक्तमेवं विधानतः
कु मारीरुग्ररूपं तु कामपार्श्वेतिपाततः ८९
कु मारमेवं कु र्यात्तु कामनाशमतः परम्
दक्षिणे तु करे शूलं परशुं वामबाहुके ९०
कालस्य हृदये पादमेकपादस्थितं भवेत्
कालनाशमिति प्रोक्तं लिङ्गोत्पत्तिरथोच्यते ९१
लिङ्गं कृ त्वार्धतो ब्रह्मन् पक्षयुक्तं तु कारयेत्
विष्णुं वराहयुक्तं तु लिङ्गस्याधः प्रकल्पयेत् ९२
हृदयेऽजलि संयुक्तो ब्रह्मा विष्णुश्च पार्श्वतः
लिङ्गमध्ये ततः कु र्यात्पूर्ववच्चन्द्रशेखरम् ९३
एवं द्वादशमूर्तीनामन्येषामधुनोच्यते
चतुर्मुखं चतुर्बाहुं कमण्डल्वक्षसूत्रिणम् ९४
रक्तवर्णजटायुक्तं कु र्याद्ब्रह्माणमुज्ज्वलम्
शङ्खचक्रधरं देवं श्यामं पीताम्बरं हरिम् ९५
कु र्यात् कु मारं रक्ताङ्गमक्षशक्तिधरं परम्
हस्तैर्द्वादशभिर्युक्तं द्विभुजं वा चतुर्भुजम् ९६
कथितं तु कु मारस्य गणेशस्य तु वक्ष्यते
गजाननं चतुर्बाहुं दन्तहस्तं त्रिलोचनम् ९७
लम्बोदरं बृहत्कुक्षिं व्यालयज्ञोपवीतिनम्
कु र्याद्गणेशमेवं तु दुर्गायामधुनोच्यते ९८
अष्टहस्ता भगवतीं महिषस्य शिरस्थितम्
शूलं खड्गं शरं चक्रं दक्षिणे तु चष्करौ ९९
खेटकं च तथा पाशं शङ्खं चापं च वामतः
श्यामला पीतवस्त्रां तु दुर्गामेवं तु संस्मरेत् १००
भास्करस्य तथा रूपं रक्ताभा रक्तकु ण्डलम्
ज्येष्ठादेवि तथा कु र्याद्विभुजा श्यामरूपिणीम् १०१
त्रपुकन्यां समायुक्ता कलिपत्नीं कु मारयेत्
द्विभुजं वामहस्तं तु कु र्यात्पत्रे तु संस्थितम् १०२
ब्रह्माणीं ब्रह्मवत्कुर्यादीश्वरीमीश्वरोपमाम्
कु मारवश्च कौमारीं विष्णवाद्वैष्णवं तथा १०३
हलायुधां तु वाराहवराहसदृशाननाम्
इन्द्राणीमिन्द्रवत्कुर्यात् चामुण्डीं च त्रिलोचनाम् १०४
सुविकीर्णजटाधारीं श्यामवर्णां चतुर्भुजाम्
कपालशूलहस्तां तु चामुण्डीं कारयेद्बुधः १०५
चण्डेशं द्विभुजं कु र्यात् सुशान्तं चक्रधारिणम्
पुरन्दरस्ततः कु र्याद्द्विभुजं वज्रधारिणम् १०६
श्यामवर्ण गजारूढ आवृतं चाप्सरोगणैः
अग्निं कु र्यादजारूढं सुरक्तं रक्तलोचनम् १०७
ऊर्ध्वनाभिश्शिखाभिश्च युक्तं शक्तिधरं परम्
दण्डहस्तं यमं कु र्यान्महिषासनसंस्थितम् १०८
करालवदनं वर्णं ऋद्धं लोकभयङ्करम्
निरृतिं खड्गहस्तं च श्यामवर्णं सुलोचनम् १०९
करालं राक्षसाकारं कु र्यात्सिंहासनस्थितम्
वरुणं पाशहस्तं च श्वेताङ्गं मकरासनम् ११०
मृगासनं धूम्रवर्णं कु र्याद्वायुध्वजायुधम्
श्यामवर्णं गदाहस्तं हयारूढं द्विबाहुकम् १११
रक्ताक्षरक्तवर्णं तु कु र्याद्यक्षेश्वरं परम्
चतुर्भुजं त्रिणेत्रं च शूलपाणिं जटाधरम् ११२
ईशानं वृषभारूढं कु र्याद्वीणाधरं परम्
द्विभुजाः पद्महस्तास्तु पद्महस्तासनस्थिताः ११३
आदित्या द्वादश प्रोक्ता रक्तमण्डलसंयुताः
पुस्तकाभयहस्तेन सोत्तरीयौ सुरूपिणौ ११४
शुक्लवस्त्रधरोष्णीषावश्विनौ द्वौ तु कारयेत्
के शहारसमायुक्ता नानाभरणभूषितान् ११५
सुरूपा नागहस्तात्तु रोहिण्यस्सप्त उच्यते
छत्रदण्डधराश्चैव शुक्लवस्त्रसमन्विताम् ११६
पीतवर्णा सुवृद्धास्तु पितरस्त्रय उच्यते
सर्पाभरणसंयुक्ताः पुष्पमालासुशोभिताः ११७
पीताश्चाप्सरसप्रोक्ता पीनोरुजघनस्तनाः
सुमुखा दशहस्तात्तु जटावलकलधारिणः ११८
सप्त ते ऋषयः प्रोक्ता पीता पिङ्गललोचनाः
खड्गखेटकहस्तात्तु सर्वाभरणभूषितान् ११९
रक्तवर्णास्तथा वीरा अष्टौ वसव उच्यते
कपालशूलहस्तास्तु जटामकु टधारिणः १२०
रुद्र एवेषधराश्चैव रुद्र एकादशा स्मृताः
वक्ष्यतेऽथ विशेषेण वृषभस्य तु लक्षणम् १२१
चतुर्भागमुखं ज्ञेयं त्रिभागं नासिका तथा
द्व्यङ्गुलं तु भवेन्नेत्रं विस्तारं तु तदर्धतः १२२
शृङ्गमूलभवेद्भागं द्विभागं तदनन्तरम्
अक्षीवर्णान्तरं भागं शृङ्गमानं तथा भवेत् १२३
अष्टाङ्गुलभवेद्वक्त्रं विस्तारं तु चतुर्दश
कला तु कर्णमूलं स्यात् आयामं तु दाशाङ्गुलम् १२४
जङ्घा चाष्टाङ्गुला ज्ञेया तदर्धे तु चतुष्कला
षडङ्गुलं भवेद्गुल्फं तदर्धं खुरमुच्यते १२५
जङ्घात्तु पश्चिमा पश्चा कलार्धं तु कलाधिकम्
पुच्छं स्यादङ्घ्रिमूलं तु चतुरङ्गुलविस्तृतम् १२६
तन्मूला द्व्यङ्गुलं तारमग्रमेकाङ्गुलं भवेत्
वृषणो द्विकलायामौ विस्तारं स्यात्त्रियङ्गुलम् १२७
वृषस्य लक्षणं प्रोक्तं पीठानामधुनोच्यते
त्रिगुणं लिङ्गविस्तारं पीठविस्तार उच्यते १२८
अथवा पीठविस्तारं लिङ्गायाममथोच्यते
कृ त्वा षोडशधोत्सेधं द्व्यंशके न तु पट्टिका १२९
तदूर्ध्वं तु ततः कु र्यात् एकांशावृतमारुणीम्
पञ्चभागं तदूर्ध्वे तु पद्मदण्डमथोच्यते १३०
द्व्यंशके न तदूर्ध्वं तु वृत्तं तत्र तु कल्पयेत्
वूर्ध्वपद्मं चतुर्भिस्तु द्वाभ्यामूर्ध्वे तु पट्टिका १३१
तदूर्ध्वे तु ततः कु र्यात् एकांशावृतमारुणीम्
पीठोत्सेधं ततः कृ त्वा नालोत्सेधं तथोत्तरे १३२
बिलमार्गं त्रिभागेन कु र्यात्तत्र विशेषतः
एवं तु पद्मपीठ स्यात् भद्रपीठमथोच्यते १३३
पूर्ववत् षोडशांशस्तु कृ त्वोत्सेधं विधानतः
भागेन वाममेके न चतुर्भिर्जगती तथा १३४
कु मुदं तु त्रिभिर्भागैर्भागेनैके न पट्टिकाम्
कण्ठं कु र्यात्त्रिभिर्भागैरेकांशेन तु पट्टिका १३५
द्वाभ्यां तु पट्टिका कु र्यादेके न कृ तवारुणीम्
भद्रपीठसमाख्यातं देवीपीठमथोच्यते १३६
कृ त्वोत्सेधमथाष्टांशमधश्चोर्ध्वं तु भागतः
कृ त्वा तु पट्टिकाशेषं समं वै चतुरश्रकम् १३७
देवीपीठसमाख्यातं परिमण्डलमुच्यते
भद्रमेव हि वृत्तं स्यात् परिमण्डललक्षणम् १३८
प्रतिमास्तु ततः पीठनालहीनमथोच्यते
प्रतिष्ठां तु ततः कु र्यादेवं कृ त्वा सलक्षणम् १३९
इति स्वायम्भुवसूत्रे प्रतिमालक्षणपटलस्त्रिंशत्