२९ लिङ्गलक्षणम्

अथ वक्ष्यामि ते ब्रह्मन् लिङ्गलक्षणमुत्तमम्
शैलजं रत्नजं चैव धातुजं दारुजं तथा १
मृण्मयं क्षणिकं चैव षडङ्गं लिङ्गमुच्यते
चतुर्विधं तु शैलं स्यात् सप्तधा रत्नजं तथा २
अष्टधा धातुजं प्रोक्तं दारुजं षोडशोच्यते
मृण्मयं द्विविधं प्रोक्तं क्षणिका सप्तधोच्यते ३
श्वेतं रक्तं तथा पीतं कृ ष्णञ्चेति चतुर्विधम्
शैलजं लिङ्गमाख्यातं तस्य लक्षणमुच्यते ४
गोक्षीरसन्निभा चैव शङ्खकु न्देन्दुसन्निभा
तिलाख्यातासमाश्वेता साप्यर्गप्रदायिका ५
जपाकु सुमसंकाशं शत्रुशोणितसन्निभा
बन्धूकपुष्पप्रतिमा जातलिङ्गेन्द्रगोपवत् ६
शिला रक्तसमाख्याता जयदा लक्षणान्विता
पीता सुवर्णसदृशा रजनीचूर्णसन्निभा ७
शिलालक्षणसंयुक्ता धनधान्यसुखप्रदा
माषगुग्गुलसङ्काशा महिषाक्षनिभा तथा ८
शृङ्गमुद्गसमाकारप्रजावृद्धिकरा मता
शिला कृ ष्णा तु सर्वेषां सर्ववृद्धिप्रदायिका ९
विप्रक्षत्रियवैश्यानां पीता धनसमृद्धिदा
द्विजानां च नृपाणां च शिला रक्ता जयप्रदा १०
श्वेता मोक्षप्रदा प्रोक्ता ब्राह्मणानां विशेषतः
चातुर्वर्णशिला या तु स्त्रीपुंनपुंसकं ज्ञितम् ११
चतुरश्रं तु पुल्लिङ्गं चतुरायतमेव च
स्त्रीलिङ्गे वृत्तरूपं च वृत्तायतममैव च १२
त्र्यश्रं नपुंसकं प्रोक्तं त्रिकोणायतमेव च
घण्टारवं तु सर्वेषां पुल्लिङ्गे शैलमेव च १३
कांस्यभाण्डध्वनिर्नारी निश्शब्दन्तानपुंसका
पुल्लिङ्गे लिङ्गमित्याहुः स्त्रीलिङ्गे पीठमुच्यते १४
कू र्मं नपुंसके कु र्यात् स्त्रीपुन्नपुंसकं भवेत्
स्त्रीलिङ्गं तु यथा लिङ्गं राजराष्ट्रविनाशनम् १५
पुल्लिङ्गे तु यथा पीठं स्त्रीणां गर्भविनाशनम्
स्त्रीलिङ्गे कू र्ममित्याहुः सर्वसस्यविनाशनम् १६
नपुंसके लिङ्गपीठे सर्वेषां तु नपुंसकम्
एवं परीक्ष्य बहुधा शिलाया लिङ्गकर्मणि १७
माणिक्यं च प्रवालं च वैडूर्यं स्फटिकं तथा
मरतकं पुष्यरागं च नीलं चैव तु रत्नजा १८
माणिक्यं श्रीप्रदं प्रोक्तं प्रवालं वश्यकारकम्
आकर्षणं तु वैडूर्यं स्फटिकं पुत्रवृद्धिदम् १९
द्वैषं मरतकप्रोक्तं स्तम्भनं पुष्यरागिकम्
नीलं तु मरणं कु र्यात् रत्नजानां फलं भवेत् २०
हैमं रौप्यं तथा ताम्रं कांस्यपीतं तथैव च
अयसा सीसकं चैव त्रपुकं चेति धातुजम् २१
हैमं मोक्षप्रदं प्रोक्तं रौप्यं राज्यप्रदायिकम्
ताम्रं पुत्रसमृद्ध्यर्थं कांस्यविद्वेषकारकः २२
प्रोच्याटनं मारकू टमायसं क्षयकारकम्
सीसकं रोगकरणं त्रपुषायुर्विवर्धनम् २३
एवं तु धातुजं प्रोक्तं ततो दारुजमुच्यते
देवदारुश्शमीवृक्षपिप्पलं चन्दनं तथा २४
असनं खदिरं चैव बकु लं सिंशवं तथा
मधूका पद्मबन्धूकं कर्णिकारं तथैव च २५
तिन्दुकं जातिका चैव प्लक्षमौदुम्बरं तथा
एते वर्यास्तु चत्वारो द्विजादिक्रमशो गतः २६
मृण्मयं द्विविधं प्रोक्तं क्वद्वाप्रक्वप्रभेदतः
सैकतं गोमयं चाणुं चैष्टं गोलफलं तथा २७
नवनीतं च सप्तैते क्षणिकास्समुदीरिताः
सैकतं मोक्षदं प्रोक्तं गोमयं रोगनाशनम् २८
अणुमन्नाद्यकामं स्यात् पैष्टं पुष्टिप्रदायकम्
गोलं प्रीतिप्रदं ज्ञेयं फलमिष्टप्रदायकम् २९
लाजतन्नवनीतं च क्षणिकानां फलं भवेत्
स्वयोनिरेव पीठ स्यात् सर्वेषामिति चोदितम् ३०
अथवान्यप्रकारोऽयं वक्ष्यते तदसंभवे
शैलाद्यनिष्टकाभिस्तु रितैर्ल्लैहस्तु कारयेत् ३१
इष्टकाभिस्तु दार्वा च कु र्याल्लक्षणतो बुधः
क्षणिकानां च लिङ्गानां न कु र्यात्पीठबन्धनम् ३२
अङ्गुल्यादिवितस्त्यन्तं कु र्याल्लिङ्गं तु रत्नजम्
एकाङ्गुलविवृद्ध्या तु कु र्यादाद्वादशाङ्गुलम् ३३
ततस्त्वङ्गुलवृद्ध्या तु कु र्याच्छैलं यथाक्रमम्
नवहस्तान्तरं लिङ्गं कु र्याच्छिवमयं बुधः ३४
आयामसदृशा नाहं शिरोवर्तनसंयुतम्
लिङ्गं कृ त्वा त्रिभागं तु द्विभागं दृश्यमुच्यते ३५
पीठस्या वादमध्ये तु भागमेकं प्रवेशयेत्
शैलजे दारुजे वापि प्रस्थानं पूर्वमारभेत् ३६
यस्मिन् देशे शिलास्तीति गच्छेन्निश्चित्यमानसः
प्रयाणकाले शकु नाः शुभाशुभफलप्रदाः ३७
शुभवाक्योदकु म्भानां गजराजं द्विजोत्तमम्
छत्रमांसं दधिक्षीरं दुन्दुभिध्वनिरिष्यते ३८
अशोभनास्तथा वाचाः शपमाना अरातयः
विकीर्णके शं विग्रन्थ्य मुण्डतैरात्मदर्शनम् ३९
रक्तकु म्भं निरोधोक्तिः तैलभाजनदर्शनम्
प्रयाणकाले नष्टास्तु विपरीतफलप्रदाः ४०
सुमुखे दुष्टशकु ने स्थित्वा पक्षमशोभने
शिलां प्राप्य शुभे देशे खात्वा नूपहतान्तु तत् ४१
आयाम परिणामान्या शिला दोषविवर्जिता
अनूषरजलक्लिन्नामतप्तामर्क रश्मिभिः ४२
पञ्चगव्येन संप्रोक्ष्य पवमानमुदीरयेत्
गन्धपुष्पं ततोऽपूपंदीपनैवेद्यमेव च ४३
सद्यादिब्रह्मभिर्जप्त्वा दक्वा चास्त्रेण भूतलम्
पुरतस्तत्र कर्तव्यं होमं सविधिकं ततः ४४
समिदाज्यचरूणां तु प्रत्येकं तु शताहुतीः
हृदयेन समिद्धोमं सर्पिरीशानमन्त्रतः ४५
आघोरेण चरुं हुत्वा प्रत्येकं व्याहृतिस्ततः
ततस्स्विष्टकृ तं हुत्वा परिषेकान्तमाचरेत् ४६
परितं कलशानष्टौ लोकपालाधिदेवतान्
संस्थाप्याभ्यर्च्य गन्धाद्यैस्त्मन्त्रेणैव देशिकः ४७
अभिषिच्य शिलं तैस्तु मुहूर्ते करणान्विते
अघोरास्त्रेण मन्त्रेण घृतैर्मधुयुतेन वा ४८
शिलादोषं परीक्ष्याथ कर्तव्यं लिङ्गमादरात्
अधोभागमुखं तस्यात् पृष्ठमूर्ध्वं प्रकल्पयेत् ४९
पूर्वतश्चोत्तरे वाथ शिरोभागं प्रकल्पयेत्
मुखं पृष्ठ तथा भागं पार्श्वं चैव शिरस्तथा ५०
लाञ्छयित्वाक्षराण्यत्र तत्र लक्षणमारभेत्
बाला तु यव्वने वृद्धा ज्ञातव्यं लक्षणैस्ततः ५१
स्निग्धा मृदुतला चैवं बाला क्षीणा स्वभा तथा
सुस्वराकात्त्रिसंयुक्ता यव्वना सा शिला मता ५२
सुस्निग्धा जयरारूक्षा वृद्धा सा निश्वरा शिवा
बाला क्षयकरा प्रोक्ता यव्वना सर्वसिद्धिदा ५३
कार्यनाशकरी वृद्धाग्राह्या ज्ञत्वा शिला तथा
अभितस्तत्क्षणं कृ त्वा शिलादोषास्तु लक्षयेत् ५४
लिङ्गं प्रलिप्य क्षीरेण विषल्काससगैरिकैः
एवं रात्रौषितं लिङ्गं संप्रक्षाल्याम्भसा पुनः ५५
शिलादोषं परीक्ष्याथ कर्तव्यं विधिचोदितम्
रेखाबिन्दुतलर्कां च शिलादोषा प्रकीर्तिता ५६
मण्डलं तु भवेद्यत्र तत्र गर्भविनिर्दिशेत्
सिते तु मण्डले सर्परक्ते तु कृ कलासता ५७
पीते तु मण्डले गोधा मञ्जिष्ठे दर्दुरो भवेत्
कपिलेमूषिका प्रोक्ता चित्रवर्णं तु मूषिकाः ५८
श्वेतरक्तविमिश्रे तु मण्डूको मण्डलो भवेत्
क्षाद्रवर्णे तु खद्योतं कपोते गृहगोलिका ५९
गुलवर्णे तु पाषाणे निस्त्रिंशाभे जलं भवेत्
वर्जयेद्गर्भसंयुक्तं विमलैरन्वितं तथा ६०
विमलोदमका संख्या लाभाख्यं तु त्रिधा मता
परीक्ष्येवं प्रकर्तव्यं लिङ्गगर्भप्रमाणतः ६१
प्रासादगर्भमानं तु सूत्रेण सुमितं ततः
गर्भं कृ त्वा तु पञ्चांश त्र्यैंशेनैवोत्तमं भवेत् ६२
नवधा भाजिते गर्भे पञ्चांशैर्मध्यमं भवेत्
गर्भार्धमधमं प्रोक्तं त्रिविधा स्यात्प्रमाणतः ६३
अधमोत्तमयोर्मध्ये विभज्य नवधा पुनः
त्रीण्युत्तमानि चान्त्यानि त्रीणि मध्यानि मध्यतः ६४
अधमानि तथान्त्यानि त्रीणि कु र्याद्यदृच्छया
हस्तमानेन वा कु र्यात् पूर्वलिङ्गे कृ ते तथा ६५
एकहस्तद्विहस्तं वा त्रिहस्तमधमं भवेत्
मध्यमं स्याच्चतुर्हस्तं पञ्चहस्तं च षट्करम् ६६
उत्तमं सप्तहस्तं स्यात् नवहस्ताष्टहस्तकम्
कृ त्वायामं चतुर्भागं प्रमाणैर्निश्चिताशिलाम् ६७
भागमेकं तु विष्कम्भं कृ त्वा भागं त्रिधा पुनः
नवधा गर्भगारं च एकांशे लिङ्गविस्तरम् ६८
सूत्र्यंशे पीठमित्याहुः नवं गर्भगृहं भवेत्
अधोभागं भवेद्ब्राह्म्यं मध्यमं वैष्णवं भवेत् ६९
चतुरश्रं भवेद्ब्राह्म्यं अष्टाश्रं वैष्टवं तथा
तुर्यच्छैवं तथा वृत्तं क्रमेणैवायतं ततः ७०
एतत्सर्वं समं लिङ्गं सर्ववृद्धिकरं शुभम्
त्रिभागमष्टधा कृ त्वा विष्कम्भं पञ्चभागिकम् ७१
सप्तांशं ब्राह्म्यमायाममष्टांशं वैष्णवं भवेत्
शैवं शेषं समाख्यातं लिङ्गमेतच्छिलाधिकम् ७२
यावल्लिङ्गस्य चोत्सेधा त्रयस्त्रिंशतिभागिकम्
आदित्याश्शिवभागं तु रुद्रा वैष्णवमुच्यते ७३
लोकत्पद्मोद्भवं चैव स्वस्तिकं लिङ्गमुच्यते
लिङ्गायामं तु यद्दीर्घमेकत्रिंशतिभागिकम् ७४
दशैव वैष्णवं चैव ब्राह्म रुद्रसमाहितम्
पुष्करं लिङ्गमित्युक्तं सर्वकामार्थमोक्षदम् ७५
ब्रह्मा विष्णुमहेशं च समं कु र्यात्त्रिभागिकम्
तुर्यश्रमष्टभागं तु अष्टाश्रं सप्तभागिकम् ७६
वृत्तं षड्भागमेवं तु तल्लिङ्गानाममेष तु
विप्राणां वर्धमानं तु नृपाणां स्वस्तिकं भवेत् ७७
वैश्यानां पुष्करं युक्तं शूद्रैस्सर्वसमं भवेत्
चातुर्वर्ण्यहितं प्रोक्तं लिङ्गं सर्वसमं भवेत् ७८
नवधा भाजिते लिङ्गे वृत्तं षड्भाग उच्यते
सप्तभागमथाष्टाश्रं चतुरष्टाश्रभागिकम् ७९
एतत्सुरार्चितं लिङ्गं लिङ्गशास्त्रविशारदाः
शिरसो वर्तनं तेषां तच्चतुर्विधमुच्यते ८०
प्रथमं त्रपुषाकारं ब्राह्मणां तु प्रशस्यते
अर्धचन्द्रनिभाकारं राज्ञा चैव द्वितीयकम् ८१
छत्राकारं नृपाणां तु वैश्यानां वर्तुलं तथा
कु क्
कु टाण्डनिभं चैव शूद्राणां तु चतुर्थकम् ८२
कृ त्वा भागं तु षड्भागं लिङ्गस्य तु शिरस्ततः
सार्धेन तु विभागेन वर्तीत त्रपुषाकृ तिः ८३
विस्तारं तु त्रिधा कृ त्वा द्विभागेन तु वर्तितुम्
अर्धचन्द्रमिति प्रोक्तं छत्रं स्यात् समवर्तितम् ८४
कु क्
कु टाङ्ग भवेत्तत्र विस्तरार्धेन वर्तितम्
लिङ्गं तु प्रोक्तमव्यक्तं सुव्यक्तं मधुनोच्यते ८५
इति स्वायम्भुवे उत्तरसूत्रे लिङ्गलक्षणपटल एकोनत्रिंशत्