२८ मूर्धकाष्टकःपटलः

अथ वक्ष्ये विशेषेण ऊर्ध्वकविधिवक्रमम्
प्रासादस्योत्तरे पार्श्वे मण्टपे च सुसंस्मृते १
स्थण्डिलं तत्र कर्तव्यं शालिभिश्चतुरङ्गुलम्
तण्डुलै शोभितं कृ त्वा दभैरपि परिस्तरेत् २
नवशक्तिसमोपेतं गन्धाद्यैरर्चयेत्क्रमात्
तस्य मध्ये न्यसेद्विद्वान् सुस्निग्धा निर्घृणा दृढान् ३
मूलमग्रं विदित्वा तु चतुरश्राष्टकान्यसेत्
किञ्चिदग्रं भवेन्निम्नं मूलं वै किञ्चिदुन्नतम् ४
अधोभाग भवेत्पृष्ठमूर्ध्वभागमुखं भवेत्
शालिपिष्टमयेनाथ रेचयेदक्षराणि तु ५
यकारं पुरतो लेख्यं रकारं दक्षिणे न्यसेत्
लकारं पश्चिमे लिख्य वकारं चोत्तरे न्यसेत् ६
लोहजं दारुणं वापि स्यूपं तत्रैव विन्यसेत्
आयामं दीर्घविस्तारं विस्तारं पादसम्मितम् ७
अग्रमङ्गूमविस्तारमानुपूर्व्यानुशन्तथा
चतुरश्रं भवेन्मूलं त्रिभागैकं समानतः ८
वृत्तं तदूर्ध्वतः कु र्यात् शिखिपादमथो न्यसेत्
विस्तारं त्रिगुणायामं विस्तारं समविस्तृतम् ९
तद्पयेन समायोज्य सवह्नौ मथितं तथा
पञ्चमूर्तिसमायुक्तं गन्धाद्यैरर्चयेत् क्रमात् १०
आच्छाद्य पीतवस्त्रेण दर्भैश्चोपरि संस्तरेत्
ततः प्रभाते विमले नक्षत्रकरणान्विते ११
तदग्रे स्थण्डिलं कृ त्वा सुशुद्धैर्वालुकस्तथा
समिदाज्यचरून् लाजान् यवान् सद्यादिभिः क्रमात् १२
प्रत्येकं शतमर्धं वा स्पृष्ट्वा स्पृष्ट्वा तु होमयेत्
सुमुहूर्ते सुलग्ने स्यापथस्थापतितं तथा १३
शुक्लवस्त्रपरिच्छन्नौ शुक्लमालानुलेपनौ
हेमाङ्गुलीयकटककु ण्डलाद्यैरलङ्कृ तौ १४
अन्योन्यमनसावेतौ विन्यसेदिष्टका क्रमात्
सद्योवाममघोरं च तत्पुरुषं च स्मरेद्गुरुः १५
मध्यमे नवरत्नानि विन्यसेच्च यथाक्रमम्
ऐन्द्रे परतकं प्रोक्तं वैडूर्यं वह्निगोचरे १६
महानीलं तु याम्यायां मुक्ता नैरृतिगोचरे
वारुणे स्फटिक प्रोक्तं पद्मरागं तु वायवे १७
वज्रं तु सौम्यदिग्भागे ईशान्यं तु प्रवालकम्
माणिक्यं मध्यमं चैव न्यसेद्देवं क्रमात्ततः १८
नवबीजसमायुक्तं नवरत्नानि विन्यसेत्
ईशानेन तु मन्त्रेण व्यूपीं तत्रैव विन्यसेत् १९
स्थापको मन्त्रयोग्यस्तु स्थापतिः कर्मयोग्यकः
त्रिभागैकं भवेद्दृश्यं व्यूपी शेषं तु बन्धयेत् २०
इति स्वायम्भुसूत्रे उत्तरसूत्रे मूर्धकाष्टकःपटल अष्टविंशतिः