अथ वक्ष्ये विशेषेण प्रासादानां तु लक्षणम्
प्रासादं कु रुते येन प्रासादयिति कीर्तितम् १
त्रिविधं तु समाख्यातं अङ्गुलस्य प्रमाणतम्
मानाङ्गुलं तु प्रथमं मात्राङ्गुलमतः परम् २
तृतीयं तु समाख्यातं देहालब्धप्रमाणतः
त्रिसरेणाभिरष्टाभिरीक्षलूका यवैस्तथा ३
क्रमशोऽष्टगुणैर्वृद्धिमानाङ्गुलमिति स्मृतम्
मध्यमाङ्गुलमध्यं तु आदौ मात्राङ्गुलं स्मृतम् ४
प्रतिमाया विभागेन कालगण्डेन भाज्य तम्
अङ्गुलं तु समाख्यातं देहालब्धप्रमाणतः ५
प्रासादमण्टपानां च मानाङ्गुलविधानतः
यागोपकरणानां तु मात्राङ्गुलविधानतः ६
देहालब्धप्रमाणेन प्रतिमा कारयेत्तथा
अङ्गुलैः किष्कुमित्युक्तं चतुर्विंशतिभिस्तथा ७
पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम्
षड्विंशति धनुः षष्ठी सप्तविंशधनुर्गृहम् ८
हस्ताङ्गं लक्षणं प्रोक्तं मात्राङ्गुलमुदाहृतम्
त्रिहस्तादिसमारभ्य नवहस्तान्तमेव च ९
अयुग्मैरथ हस्तैस्तु कु र्यात्तु दशहस्तकैः
द्वितलं तु ततः कु र्यात् तत्रयो दशहस्तकैः १०
दशपञ्चाधिकैर्हस्तै प्रासादं स्यात्त्रिभूमिकम्
तलं प्रत्यधिकं कु र्याद्विहस्तं तु विशेषतः ११
आद्वादश तलादेवं कु र्याद्विस्तारमानतः
विस्तारद्विगुणोत्सेधमुत्तमं तु प्रचक्षते
विस्तारः सप्तधा कृ त्वा द्वादशान्तममध्यमम् १२
एकादशांशमधमं विस्तारे सप्तधा कृ ते
आद्वादशतलादेवमुत्सेधं तद्विधीयते १३
प्राङ्मुखोदङ्मुखैस्सूत्रेः पदैः कु र्यात्तु षोडश
गर्भगेहं समाख्यातं मध्यमं तु चतुष्पदम् १४
बाह्यतो द्वादशपदं भित्त्यर्थमुपकल्पयेत्
षड्भि षड्भिस्तथा सूत्रैः पदं वै पञ्चविंशतिः १५
एतद्गर्भगृहं मध्ये भीत्यर्थं शेषमुच्यते
त्रिविधास्तु समाख्याताः प्रासादकृ तयस्तथा १६
नागरं द्राविडं चैव वेसरं च त्रिधा भवेत्
स्थूलं तु चतुरश्रं स्या नागरं समुदाहृतम् १७
कण्ठान् प्रभृतिरष्टश्रं प्रासादं द्राविलं भवेत्
कण्ठात्प्रभृति वृत्तं स्यात् वेसरं तत्प्रचक्षते १८
लिङ्गं पूर्वस्थितं यत्र यत्र लिङ्गवशाद्भवेत्
यावल्लिङ्गस्य विस्तारं त्रिगुणं पीठ उच्यते १९
पीठस्य त्रिगुणं गर्भं गर्भार्धं भित्तिरुच्यते
गर्भगेहत्रिभागैकं भित्तिं वा तत्र कारयेत् २०
अग्रतो मण्टपं कु र्यात् प्रासादसमविस्तरम्
प्रासादे सममायामं विस्तारं वा त्रिपादतः २१
आयाममर्धमेवं स्यात् त्रिपादं विस्तृतं तथा
प्रासादस्याग्रतो द्वार कर्तव्यं लक्षणान्वितम् २२
व्रतेरुपरि सीमान्तं द्वारस्योत्सेधमुच्यते
कृ त्वा नवांशकु म्भं तु भागैकं कु म्भमुच्यते २३
कु म्भं चतुर्भिराजैस्तु कण्ठं भागमुदाहृतम्
आस्यमेकांशमित्युक्तं शेषं कु र्याच्चंशकैः २४
एके न पदमेके न वृत्तमेके न भीरुहौ
दुक्कण्ठौ स्थम्भविस्तारौ द्विगुणं कु म्भमुच्यते २५
अद्यर्धमस्य विस्तारं भीरुकौ मूलपादवत्
विस्तारमेवमुक्तं स्यात् मण्डेर्लक्षणमुच्यते २६
मण्डे स्त्रीपादमुत्सेधं विस्तारं तु चतुर्गुणम्
त्रिभागैका भवेत्पद्मं वेत्रमेकं तथैव च २७
भागं वै फलमाकारमावेत्रात्पादरूपवत्
पादाग्रकर्णमानेन स्तम्भं कु र्याद्विधानतः २८
स्तम्भाग्रसमविस्तारं विराकाण्डस्त्रिभागतः
तदूर्ध्वे येरकां कु र्याद्विस्तारं पादसम्मितम् २९
समं त्रिपादमर्धं वा पोतिकोत्सेधमुच्यते
त्रिदण्डमधमायामः चतुर्दण्डन्तु मध्यमम् ३०
उत्तमं पञ्चदण्डं स्यात् पोतिकायाममुच्यते
वल्लीपत्रयनेश्चापि तरङ्गैश्च सुशोभितम् ३१
एवं पादप्रमाणं स्यात् प्रस्तरं चोत्तराधिकम्
विष्कम्भ पादविस्तारे मुत्सेधं त्रिविधं भवेत् ३२
अधमं ह्यर्धमुत्सेधमुत्तमं स्याद्विधानतः
स्तम्भार्धस्य त्रिभागैकं तस्योर्ध्वे पट्टिका भवेत् ३३
द्विभागेन तदूर्ध्वे तु कर्तव्या पद्मपट्टिका
द्विदण्डे तु कपोतं स्यात् उपानासमनिर्गमम् ३४
शेषं प्रस्तरमानं तु कर्तव्यं पञ्चभागकम्
एतेन पट्टिकां कु र्यात् कलमेके न कारयेत् ३५
द्वाभ्यामूर्ध्वे च कर्तव्यमेकांशेन तु पट्टिका
एवं प्रस्तरमाख्यातं तोरणं वक्ष्यतेऽधुना ३६
पार्श्वयोः पृष्ठतश्चापि कर्तव्यं तोरणं तथा
व्रतेरुत्तरसीमन्तं रोतणस्योच्छ्रयं भवेत् ३७
विस्तारं तु तदर्धं स्यात् विस्तारं पञ्च भागिकम्
मकरांशत्रिभागेन शेषं पाद इति स्मृतः ३८
पादान्तरार्धमथवा विस्तारं तोरणस्य तु
पूर्वोक्तमेव कर्तव्यं मकरांशप्रमाणतः ३९
प्रमाणं तोरणस्योक्तं नासीकायांस्तु लक्षणम्
वक्ष्यते तु प्रमाणेन यथाशास्त्रविनिश्चितम् ४०
गर्भगेहार्धविस्तारं महानासीति कीर्तितम्
निर्गमं तु तदर्धं स्यात् त्रिभागं सममेव वा ४१
शिखरेषु चतुर्दिक्षु कु र्याद्देवं तु नासिकम्
विस्तारं तु तदर्धं स्यात् कपोतेष्वष्टनासिका ४२
नासिकालक्षणं प्रोक्तं कू टशालं विधीयते
कृ त्वा प्रासादषड्भागं कू टस्यादेकभागतः ४३
दिग्भागेन तु शाला स्याद्भागार्धं पञ्जरं भवेत्
चतुरश्रं भवेत्कू टं शाला स्याद्गोपुराकृ तिः ४४
शालविस्तारमानेन पार्श्वयोर्नासिका भवेत्
अननासंतु तन्मध्ये कर्तव्यं तु सलक्षणम् ४५
कू टनामाकृ तिं प्रोक्तं प्रासादाकृ तिरेव हि
एकनासिकया युक्ता पञ्जरं समुदाहृतम् ४६
तत्तत्कण्ठार्धमानेन शिखरं वार्धयेत्ततः
कण्ठद्विदण्डमित्युक्तं शिखरस्य तु निर्गमम् ४७
निर्गमाद्वर्तनाद्बाह्यो वर्धमानं तदर्धके
स्यचीकु म्भसमायुक्तं कु र्याद्दण्डद्वयेन तु ४८
विस्तारं तत्प्रमाणेन शिखराकृ ति इष्यते
तदूर्ध्वे कण्ठमित्युक्तं तदर्धं फलका भवेत् ४९
क्रमेण कृ शतां कु र्याद्यावदन्तं तु सूक्ष्मतः
चतुःकू टचतुश्शालायुक्तः कैलास उच्यते ५०
अष्टकू टचतुश्शालायुक्तो मन्दर उच्यते
अष्टकू टाष्टशालाभिर्युक्तो मेरुरिति स्मृतः ५१
अष्टकू टाष्टशालाभि युक्तो षोडशपञ्जरैः
हर्म्यवातीति विख्यातः प्रासादस्तु सलक्षणम् ५२
अष्टभिः पञ्जरैर्युक्तमष्टकू टसमन्विता
अष्टशालसमायुक्तं नीलपर्वतमुच्यते ५३
चतुःकू टश्चतुश्शालापञ्जरैरष्टभिर्युतम्
एवं लक्षणसंयुक्ते महेन्द्रो नाम पर्वतः ५४
प्रासादलक्षणं प्रोक्तं मण्टपानामथोच्यते
नन्दी वृत्तचतुष्काद युक्तो मण्टप उच्यते ५५
स्तम्भैष्षोडशभिर्युक्तो मण्टपश्री प्रतिष्ठितम्
द्वादशस्तम्भसंयुक्तो वीरासन इति स्मृतः ५६
द्वात्रिंशद्गात्रसंयुक्तो जय भद्रस्तु कथ्यते
षट्त्रिंशद्गात्रसंयुक्तो नन्द्यावर्तः सुशोभनः ५७
चतुष्षष्टिसमायुक्तो स्तम्भाना मानिभद्रकम्
स्तम्भानां तु शतैर्युक्तो विशाला इति संज्ञिताः ५८
प्रासादवत्समाख्यातं प्रस्तरं तत्प्रमाणतः
वाजनोपरि कर्तव्या द्वारग्रास्तत्तुला भवेत् ५९
स्तम्भविस्तम्भमुत्सेधचतुर्भागेन विस्तृतम्
तुलाविस्तारमानेन जयन्ती स्यात् समोन्नता ६०
ततो दण्डार्धबाहुल्यामनुमानं तदूर्ध्वतः
इष्टकाभिस्तदूर्ध्वे तु छादयेत्कु लकानितः ६१
पादाधिकमथाप्यर्धद्विगुणं पादहीनकम्
चतुर्विंशमथायामं कर्तव्यं मण्टपस्य तु ६२
आयामेन यथायुक्तं स्तम्भाना विधिरुच्यते
द्विहस्तं वा त्रिहस्तं वा चतुर्हस्तमथापि वा ६३
स्तम्भान्तरं प्रकर्तव्यं यथायुक्त्या विशेषतः
मण्टपस्याग्रतः कु र्याद्वृषभास्यालयं तथा ६४
कर्तव्यं स्यात् तदग्रे तु मध्यहारे प्रमाणतः
प्रासादसममुत्सेधं विस्तारं स्यात्त्रिपादतः ६५
अध्यर्धं द्विगुणं वापि कर्तव्यं दक्षिणोत्तरे
तस्मादध्यध्यमुत्सेधं कु र्यान्मध्यादिभित्तिके ६६
द्विगुणं तु समुत्सेधं महामर्यादभित्तिके
गोपुरादग्र तङ्कुर्यात् बलिपीठं विधानतः ६७
एवं क्रमात् समाख्यातं प्रकारमधुनोच्यते
प्राकारं परितः कु र्यात् प्रासादस्य प्रमाणतः ६८
प्रासादस्य तु विस्तारं तस्य दण्डमिहोच्यते
अन्तर्मण्डलमित्युक्तं दण्डार्धेन कृ तं तथा ६९
अन्तर्हारं तु दण्डेन मध्यहारद्विदण्डतः
चतुर्दण्डप्रमाणेन युक्तो मर्यादिभित्तिकः ७०
महामर्यादिभित्तिं स्यात् सप्तदण्डप्रमाणकम्
अर्ध्यर्ध्यं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ७१
मुखायाममिति ख्यातं प्राकाराणां विशेषतः
कपोतान्तं समुत्सेधं भित्तिहस्तप्रमाणतः ७२
कू टशालयुतं वापि कू टशालान्तमेव वा
कु र्यात् प्राकारसंयुक्तां परिवारं विधानतः ७३
प्रासादगर्भमानेन परिवारालयं भवेत्
पुरतो गरुडस्थानं आग्नेयां तु महानसम् ७४
याम्ये मातृगणाश्चैव गणेशस्य तु नैरृते
सुब्रह्मण्यस्य वारुण्यं ज्येष्ठायां वायुगोचरे ७५
दुर्गायां सौम्यदिग्भागे सूर्यस्यैशानगोचरे
ईशगोपुरयोर्मध्ये वाद्यस्थानं प्रकीर्तितम् ७६
अग्निगोपुरयोर्मध्ये धनधान्यगृहं भवेत्
कु र्यान्मजनशालायां मातृपावकमध्यतः ७७
विघ्नेशमातृमध्ये तु पुष्पमण्टपमुच्यते
कु मारविघ्नयोर्मध्ये कू पस्थानमुदाहृतम् ७८
अन्तर्भरे तु चण्डेशं ईशान्या दिशि कल्पयेत्
मध्यस्थाने तु कर्तव्यमथाष्टपरिवारकम् ७९
मर्यादाभित्तिके कु र्या परिवाराणि षोडश
इन्द्रश्चाग्नियमश्चैव निरृतिवरुणोऽनिलः ८०
कु बेरस्य तथेशानं पूर्वादिक्रमशो न्यसेत्
इन्द्र ईशनयोर्मध्ये आदित्या द्वादश स्मृताः ८१
इन्द्राग्नियमयोर्मध्ये अश्विनौ द्वौ तु विन्यसेत्
आग्नेययाम्ययोर्मध्ये रोहिणी सप्त विन्यसेत् ८२
याम्यनैरृतयोर्मध्ये पितृस्थानं विधीयते
निरृतिजलयोर्मध्ये अप्सरोगणमुच्यते ८३
वरुणानिलयोर्मध्ये ऋषिस्थानं विशेषतः
वायव्यसोमयोर्मध्ये वसवोऽष्टौ तु विन्यसेत् ८४
सोम ईशानयोर्मध्ये रुद्रा एकादशा स्मृताः
प्राकारयोर्द्वयोर्मध्ये बलिपीठं विधीयते ८५
द्वारविस्तारमानेन प्रथमं पीठमुच्यते
द्वितीयं द्विगुणं प्रोक्तं तृतीयं त्रिगुणं भवेत् ८६
विस्तारेण समोत्सेधं कर्तव्यं तु प्रमाणतः
तत्कृ त्वा षोडशोत्सेधमेके नोपानमुच्यते ८७
चतुर्भिर्जगती कु र्यात्कु मुदं तु त्रिभागतः
भागेन पट्टिका कु र्यात्कण्ठं कु र्यात्त्रिभागतः ८८
भागेनैके न कर्तव्या त्कण्ठस्योर्ध्वेन पट्टिका
विस्तारार्धप्रमाणे तु पद्मं कु र्यात्तदूर्ध्वतः ८९
कर्णिका तत्र भागैकद्विभागं दलमुच्यते
ततो मूर्धेष्टकं कु र्याद्विधानेन विशेषतः ९०
इति स्वायम्भुसूत्र उत्तरसूत्रे प्रासादलक्षणपटलस्सप्तविंशतिः