अथ वक्ष्ये विशेषेण गर्भन्यासविधिक्रमम्
प्रासादं गर्भसंयुक्तं कु र्वतस्सर्वसम्पदः १
तस्मादादौ प्रकर्तव्यं गर्भन्याससमृद्धिदम्
त्रयं प्रासादमूलास्तु पूर्वे तु प्रथमेष्टकाः २
उपानोपरे मध्यं स्यात् व्रतेरुपरि चान्ततः
भूगर्भं शूद्रजातीनां उपाने नृपवैश्ययोः ३
व्रतैरुपरि विप्राणामनुलोम्येन कारयेत्
सर्वेषां भूगतं कु र्यात्सर्वसिद्धिकरं शुभम् ४
इन्द्रपावकयोर्मध्ये प्राग्द्वारे तु प्रशस्यते
द्वारस्य दक्षिणे कु र्यात् पश्चिमेऽपि तथैव तु ५
कवाटार्गलयोगेर्वा व्यस्तव्यं गर्भभाजनम्
दृढताम्रमयी फे ला स्फटिका वा प्रशस्यते ६
पादविष्कम्भविस्तारफे लं नवपदान्वितम्
शङ्खस्फटिकवर्ज्या सा स्तम्भमूलाकृ तिस्तथा ७
घनं विंशतिभागैकास्तदर्धाः कोष्ठभित्तयः
विस्तारं च चतुर्भागं कोष्ठभित्त्युच्छ्रयं भवेत् ८
उत्तमं तु समोत्सेधं त्रिभागं मध्यमं भवेत्
अधमं चार्धमुत्सेधं त्रिविधं तत्प्रचक्षते ९
त्रिभागैकं विधानं स्यात् त्रिभागं भाजनं भवेत्
अन्तरे वाङ्गुलाधिक्यं भाजने भिन्नभित्तिकम् १०
संयोगर्थविहीनं स्याद्विधानाभ्यन्तरे तथा
प्रक्षाल्य पञ्चगव्येन सुशुद्धं गर्भभाजनम् ११
प्रासादपूर्वदिग्भागे मण्टपे समलङ्कृ ते
गोमयेनोपलिप्याथ पुण्याहं वाचयेत्ततः १२
पिष्टके न समालिख्य भुजङ्गफणमण्डलम्
स्थण्डिलं कारयेत्तत्र शालिभिश्चतुरङ्गुलम् १३
स्थण्डिलैरभितं कु र्यात्सप्तद्वीपार्णवाकृ तिः
वस्त्रान्तरे कु शास्तीर्य वस्त्रैर्लाजसमायुतैः १४
ध्यात्वा तु भुवनं सर्वं विन्यसेद्गर्भभाजनम्
ब्राह्मं तु मध्यमपदं अष्टौ तदभितस्सुराः १५
पाल्यस्थाः षोडश सुराः पदस्थानान् समर्चयेत्
ब्रह्मा मध्यपदस्थन्तु तमावृत्य स्थितास्सुराः १६
मरीचयश्च सावित्रो विवस्वाश्च तृतीयकः
इन्द्र इन्द्रजयश्चैव मित्र रुद्रा महीधराः १७
आपवत्सन्तु पूर्वान्त्य ईशान्यान्त्यास्तु बाह्यकाः
ईशे जयन्त आदित्यो भृशाग्नि वितथो यमः १८
भृङ्गराजस्तु निरृतिस्सुग्रीवो वरुणस्तथा
खासो रोगश्च मुख्याश्च सोमादितिरिति स्मृताः १९
एषान्नामस्य अभ्यर्च्या पदास्थां स्थण्डिलोपरि
समर्च्य के न्यसेद्वज्रं पावित्रौ मौक्तिकं न्यसेत् २०
वैवस्वतेति वै सूर्यं ऐन्द्रेशं खन्न्यसेत्पदे
मैत्रे तु स्फटिकान् न्यस्य रौद्रे पुष्यन्न्यसेत्पृथक् २१
पृथ्वीकान् न्यस्य श्यामाकं नैरृतं न्यसेत्
वारुणे माषबीजानि रोगे चैव कु लस्थकान् २२
न्यसेत् सौम्येषु निष्पावमीशाने तु यवास्तथा
मनश्शिलाज्जयान्ते तु हरितालं भृशे तथा २३
अञ्जनं वितलं चैव श्याम वै भृङ्गराजनी
सुग्रीवे सीसकं प्रोक्तं शेषे सौराष्ट्रकं न्यसेत् २४
रोचनं च तथा मुख्ये गैरिकं चादितो न्यसेत्
कपालकू र्मखट्वाङ्गं परशुं वृषभं तथा २५
पिनालं हरिणं शूलं ब्राह्म्ये पूर्वादितो न्यसेत्
ततो होमं प्रकु र्वीत चतुर्दिक्षु विशेषतः २६
सद्यादिभिश्चतुर्दिक्षु समिद्भिस्सर्पिषा तथा
वरुणाञ्च तथा लाजैः प्रत्येकं तु तथाहुतीः २७
तस्य दक्षिणतो बह्यौ होमं कु र्यात् समाहितः
अष्टत्रिंशत्कलाभिश्च षडङ्गैश्च दशाक्षरैः २८
संपातविधिवद्धुत्वा मध्ये वै भाजनस्य तु
निधाय वस्त्रैराच्छाद्य गन्धाद्यैरर्चयेद्धृदा २९
ततोऽभ्युक्ष्य हृदा गव्यैर्गर्भस्थानं सुनिश्चिताम्
सामुद्रेण मुदा तत्र कु र्याच्च पृथिवीं समाम् ३०
पर्वते च तथा तीर्थैः नद्यस्तीर्थे तथा मृदः
पूर्वादिषु न्यसेद्दिक्षु मध्ये वृषविषङ्गजम् ३१
कु लीरवासवल्मीकशान्तस्वगजदन्तके
आग्नेयादिषु कोणेषु न्यसेदेतान् मृदः क्रमात् ३२
सुवर्णपूर्वतो न्यस्य राजतं दक्षिणे न्यसेत्
आयसं पश्चिमे भागे त्रपुकं चोत्तरे तथा ३३
उत्पलस्य च नीलस्य पद्मनीलोहितस्य च
कु मुदस्य च मूलानि न्यसेत्पूर्वादितः क्रमात् ३४
सत्रावाखण्डनक्षत्रमुहूर्ते ग्रहसत्पदि
सद्येन गृह्य फे लां तु न्यसेद्वामेन देशिकः ३५
अघोरेणावकु ण्ठ्याथ दद्यादर्घ्यं मुखेन तु
पञ्चमे वाद्यगङ्गाद्यैः प्रासादं कारयेत्ततः ३६
काञ्चनालङ्कृ तां धेनुं दक्षिणा स्थापकस्य तु ३७
इति स्वायम्भुसूत्रे सङ्ग्रहे उत्तरे सूत्रे गर्भन्यासपटलः
षड्विंशतिः