स्वस्ति
श्रीगणाधिपतये नमः
अथ वक्ष्यामि ते ब्रह्मन् सूत्रमुत्तरमुत्तमम्
कर्षणादिप्रतिष्ठान्तं शृणु प्रयतमानतः १
वास्त्वारम्भप्रशस्तस्य आदित्यश्चोत्तरामुखे
अप्रशस्तमिति ख्यातं अयनं दक्षिणं तथा २
पुष्यमासादिषण्मास देवानां तु दिवा स्मृताः
तस्मिन् काले कृ तं सर्वं विभूत्यर्थमिति श्रुतम् ३
रात्र्याषाढादिषण्मासमयोग्यं सर्वकर्मसु
शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा ४
षष्ठी सु सप्तमी चैव दशम्येकादशी तथा
त्रयोदशी च तिथयः पौर्णमास्याभिशोभना ५
प्राजापत्याश्वयुग्याम्यतिष्यपौष्णोत्तरात्रयम्
मैत्रादित्यमघास्वातीहस्तार्द्राश्रवणास्मृताः ६
राशयोरथ वै वर्ज्या गाव्या धनुरशोभना
सोमभार्गवसौम्यार्या वारा श्रेष्ठतरा स्मृताः ७
एषामंशकद्रेक्काणहोरादर्शनमिष्यते
एषामेवोदयं शस्तं तत्र सोमोदयं विना ८
कु ++षन्तु नक्षत्रं व्याधिपीडा करोति हि
सूर्यसौरारसौमाश्च त्रिषष्ठाय स्थितश्शुभाः ९
त एव लग्नगाः कु र्युः व्याधिशोकभयानिधि
अष्टमस्था ग्रहास्सर्वे तकर्तुं कु र्वन्ति दुस्थितम् १०
एकादशगतास्सर्वे क्षेमारोग्यकरा स्मृताः
भयकृ द्भार्गवः प्रोक्ताः +++ षयप्त+दुमस्थिताः ११
द्विसप्तपञ्चनवमस्थिता जीवस्सुशोभनः
द्वितीयः पञ्चमे वापि सोमस्सौख्यं करोति हि १२
सूर्यवारशुभो युक्तो हस्तपौष्णत्रिरुत्तराः
मन्दवारे हितः प्रोक्ता रोहिणी स्वातियोगतः १३
उत्तराषाढनक्षत्रे सोमवारस्सुशोभनः
वर्जयेद्बुधवारेण हस्तं चाश्वयुजं तथा १४
गुरुवारेण वर्ज्ये तु तत्र सौम्योत्तरा शुभौ
श्रवणं चैव पुष्यश्च शुक्रवारेण वर्जयेत् १५
द्वितीया बुधयुक्ता च षष्ठी जीवसमायुतः
सोम एकादशीयुक्तः करोति प्राणसंशयम् १६
पौष्णस्तु सप्तमीयुक्तो दहत्यग्निरिव प्रजाः
खण्डस्थूणार्धनक्षत्रगुलिकाविष्टयस्त्यजेत् १७
भूमिकम्पे दिशादाहे दुर्दिने खण्डमारुते
अशनिध्वनिनियोगे च निन्दितं दिवसं स्मृतम् १८
अयने विषुवे चैव संक्रान्तौ ग्रहणे तथा
षडशीतिमुखे वापि कृ तवास्तु विनश्यति १९
एवं परीक्ष्य कर्तव्यं यदिच्छेच्छ्रेय आत्मनः
कर्षणादिप्रतिष्ठान्तं कर्म कु र्याद्विचक्षणः २०
वास्तुपरीक्षा
अथ भूमि परीक्षेत पूर्वं कर्षणमारभेत्
श्वेता तु ब्राह्मणी भूमि रक्ता तु क्षत्रियस्तथा २१
पीता वैश्यस्तु कृ ष्णा तु शूद्रा भूमीरुदाहृताः
ब्राह्मणी मोक्षदा प्रोक्ता क्षत्रिया विजयप्रदाः २२
वैश्या तु धनदा भूमि शूद्रा पुत्रसमृद्धिदा
औषरात्क्रिमिभिर्जुष्टवल्मीकाभ्यां च वर्जयेत् २३
हस्तमात्रं खनित्वा तु पूरयेत्तेन पांसुना
अधिके पुष्कला भूमि न्यूने वर्ज्य समेऽधमा २४
त्त्रिरात्रेऽङ्कुरिता ग्राह्या भूमिर्वै नान्यथा तथा
एवं परीक्ष्य बहुधा कु र्यात्कर्षणमुत्तमम्
श्वेतो वा कपिलो वापि नाङ्गहीनौ वृषौ तथा २५
अवामनं नान्यवर्णा परो गौ बलषालिनौ
आराध्य वृषमन्त्रेण हेमशृङ्गपुरौ तथा २६
तीक्ष्णशृङ्गाय विद्महे देवपादाय धीमहि
तन्नो वृषभप्रचोदयात्
क्षीरवृक्षयुगं बद्ध्वा शमी शम्य यतन्तथा
असनं खदिरं वाथ हलं कृ त्वा सुलोहकम् २७
यत्रयित्वा युगे वाथ गोचर्मकृ तरज्जुना
आचार्ये नतवासस्तु सकलीकृ तविग्रहः २८
कर्षयेन्मूलमन्त्रेण प्रागुदक्प्रणवं महीम्
आचार्यं पूजयित्वा तु दद्यात्तु सहलौ वृषौ २९
व्यप्यसिद्धार्थकान्यत्र तिलान् व्रीहीन्यनुक्रमात्
तेषु पक्वेषु ता खात्वा प्रासादं समविस्तरम् ३०
द्विहस्तं वा त्रिहस्तं वा चतुर्हस्तमथापि वा
पुण्याहं वाचयित्वा तु शल्योद्धारं समाचरेत् ३१
विसृज्य वृषभं तत्र गते सूर्यदिने तथा
कृ त्वा समतलं तत्र गोमयेनानुलेपयेत् ३२
द्वादशाङ्गुलमायामं कृ त्वा नाहं षडङ्गुलम्
शङ्कुं तत्रैव विन्यस्य तेन मानेन भाजयेत् ३३
तद्बहिर्भ्रामयेत्सूत्रं द्वयं तेनैव मानतः
पूर्वाह्णे चापराह्णे च शङ्कुच्छायां तु लङ्गयेत् ३४
तत्र सूत्रद्वयं प्राचीं पातयेच्छङ्कुमध्यमे
ह्रासयेदधिकार्धं तु न्यूने तावपि वर्जयेत् ३५
प्राचि तत्सूत्रमानेन मध्यं तेनैव कल्पयेत्
उदक्सूत्र भवेत्तत्र कृ त्वा तु चतुरश्रकम् ३६
पञ्चगव्येन संप्रोक्ष्य ब्राह्मणान् स्वस्तिवाच्य च
एकाशीतिपदं कृ त्वा वास्तुदेवान् प्रकल्पयेत् ३७
ईशानादि समारभ्य द्वात्रिंशत्पदभोगितम्
ईशानं चैव पर्जन्यो जयन्तश्च महेन्द्रकः ३८
आदित्यस्सत्यकश्चैव भुवोऽन्तरिक्षपूर्वके
अग्निं पूषा च वितथो ग्रहभक्षयमौ तथा ३९
गन्धर्वो भृङ्गराजश्च मृगं चैव तु दक्षिणे
पश्चिमे पितरश्चैव दौवारिकस्तथैव च ४०
सुग्रीवः पुष्पदन्तश्च वरुणश्चारवस्तथा
शेषश्च वार्ययक्षा च ते चाष्टौ कथितास्तथा ४१
उत्तरा च तथा वायुनागो मुख्यस्तथैव च
भल्लाटश्च तथा सोमो मृगादित्यादितिस्तथा ४२
ब्रह्मा नवपदाद्भुक्ते वायुमध्ये विशेषतः
आर्यकश्च विवस्वाश्च विश्वामित्रमहीधरः ४३
ब्रह्मणश्च चतुर्दिक्षु स्थितष्षट्पदभोगिनः
आपश्चैवापवत्सश्च सावित्रे त्र्यृच एव च ४४
इन्द्र इन्द्रजयश्चैव रुद्र रुद्रजये तथा
एते द्विपदभोक्तारो विदिक्ष्वाष्टौ स्थितास्सुराः ४५
चरकी च विदारी च पूतना पापराक्षसी
ईशानादिक्षु कोणेषु बाह्यस्थाः पदवर्जिताः ४६
एवं विन्यस्य देवास्तु वास्तुदेहं प्रकल्पयेत्
ईशाने तु शिरो वास्तोः पादो निरृतिगोचरे ५७
हस्तस्सवितरि ज्ञेया बाहुरग्ना उदाहृतः
आपे कण्ठ इति प्रोक्तो हृदयं चापवत्सके ५८
नाभिस्तु ब्रह्मणि प्रोक्ता कु क्षिस्सवित्रीसंज्ञिके
इन्द्र इन्द्रजयो गुह्यो ऊरु रक्तो विवस्वती ५९
पार्श्वं तु दक्षिणं प्रोक्तं वाममेव प्रकल्पयेत्
शेते यस्तु भुवं प्राप्य वास्तुदेवस्त्वधोमुखम् ६०
उग्रस्सुभीषणो यस्मात् पूजयीयः क्रियार्थ भः
पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः ६१
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्चापि प्रपूजयेत्
नमस्कारादिसंयुक्तैः प्रणवान्तस्वनामभिः ६२
आपापवत्सद्वयसस्य बाहुं सावित्रसावित्रसुरान्यबाहुः
अवाङ्गुखश्चार्यकमस्तकस्सन् महीधराप्याख्यजपार्श्वयुग्मम् ६३
रुद्राख्य रुद्रजय इत्यथ वामपादमिन्द्रस्सुरेन्द्रजयनामवरोक पादः
मित्रस्य लिङ्गकमलासनमर्धकायं घर्मांशुवास्तुपुरुषस्य कटि प्रदेशम् ६४
पूजान्ते संस्पृशेत्कर्ता यदहन्तन्निरीक्षयेत्
वास्तुदेहेऽपि तत्रैव शल्यं ब्रूयाद्विचक्षणः ६५
अस्मिन् शल्यं शिरस्पर्श तद्वास्तुद्वयमानतः
कण्ठस्पर्शे गले तद्वद्रोमशल्यमथापि वा ६६
ऊरुस्पर्शास्त्रिभिर्हस्तै शृङ्खलाशल्यमादिशेत्
हस्तमात्रे करस्पर्शात् खट्वा पादं समादिशेत् ६७
सवाहुस्पर्शनात्कर्तुः अङ्गारस्तु त्रिहस्तकः
गुल्फैश्च पादनिर्दिष्टं वितस्ति द्वयमानतः ६८
पादे कण्ठे लत्युक्तः सवितास्त्रिप्रमाणतः
कनिष्ठाङ्गुष्टयोस्पर्शात् कं सं तत्र करार्धतः ६९
करद्वये कटिस्पर्शात् लोहं तत्र समादिशेत्
नासिको भास्करं हस्ते जान् च स्पर्शनात्ततः ७०
शल्यं विशोध्य भूमिस्तां तलत्कृ त्वास्समन्ततः
सिकतां पूरयेत्पूर्वं अस्थिलोष्टाश्च वर्जयेत् ७१
एकाशीतिपदं कृ त्वा वास्तुदेवं तथा न्यसेत्
पञ्चगव्येन संप्रोक्ष्य वास्तुदेवान् प्रपूजयेत् ७२
ईशानं पूजयेत्पूर्वं अक्षतैस्तिलमिश्रितैः
नीलोत्पलोदकं दद्यात् पर्जन्याय विशेषतः ७३
जयन्तादापयेद्विद्वान् पताकापीतवर्णकान्
रत्नानि तु महेन्द्रस्य वितानं भास्करस्य च ७४
गोधूममण्डकस्सत्ये मत्स्यं दद्याद्भवस्य तु
शाकु नं तु तथा मांसं अन्तरीक्षाय दापयेत् ७५
अग्नये तु घृतं दद्यात् पूष्णे लाजान् तथैव च
दद्याद्धिरण्यं वितथामसुन्दद्याद्गृहक्षणे ७६
मांसोदनं यमस्याथ गन्धर्वे गन्ध उच्यते
भृङ्गे तु शाङ्कुना जिंहा मृगे तिलयवस्तथा ७७
पित्रे कृ सरवं दद्या काष्ठं दौवारिके तथा
सुग्रीवे पायसं दद्यात् पुष्पदन्ते कु शं तथा ७८
पदां तु वारुणे दद्यादसुरे मधुमेव च
शेषे चाजघृतं दद्याद्यवान्ने पापयक्ष्मणे ७९
घृताक्तमण्डकं दद्या रोगाय तु विशेषतः
नागाय नागपुष्पाणि दद्यान्मुख्याय पुष्पिकाम् ८०
भल्लाटकाय मुद्गान्नं सोमाय मधुपायसम्
शाकु लं मृगदेवाय अदित्यै लोहितानि च ८१
दित्यैस्तु सुधियां दद्यात् क्रमशोक्तो बलिन्क्रमः
क्षीरं दधि कु शाश्चैव गुलान्नं च हरिद्रकम् ८२
शुद्धान्नं पक्वमांसान्नं आममांसं तथैव च
विदिक्ष्वावादिदेवानामष्टानां समुदाहृतम् ८३
लड्डुकां सक्तु लाजां च घृतान्नं मासमेव च
समरीचकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः ८४
पञ्चगव्यकु शं चैव तिलाक्षतयवास्तथा
चरूणां सह दातव्यं ब्रह्मणे तु विशेषतः ८५
चरकी बृहतीनां तु मांसपक्वं निवेदयेत्
सर्वेषामथवा दद्यात् पृथक् शुद्धोदकं चरुम् ८६
दधिर्न्नवाज्यसंयुक्तां सर्वेषां चापि दापयेत्
सर्वेषामेव मन्त्रास्तु नमोन्त्याः प्रणवान्विताः ८७
गन्धादीनां नमोन्तास्तु बले स्वाहान्त उच्यते
कृ त्वेवं बलिदानान्तु पुण्याहं तत्र कारयेत् ८८
पञ्चमृद्भिस्तु संप्रोक्ष्य पवमानमुदीरयेत्
ततो होमं प्रकु र्वीत पञ्चदिक्षु विधानतः ८९
सद्यादिभिश्चतुर्दिक्षु प्रत्येकं तु शताहुतिः
समिदाज्य चरूणां तु यथाविधि विशेषतः ९०
तिलैस्तण्डुलसंमिश्रैः विशेषेण घृतप्लुतैः
ईशानेन चतुर्दिक्षु जुहुयाच्च शताहुतिः ९१
शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्याङ्गैर्जुहुयात् पृथक्
साधिताः पूर्वरात्रौ तु चत्वारः प्रथमेष्टकाः ९२
शिलामयैर्मृण्मयैर्वा कु र्याल्लक्षणसंयुतम्
शिलाण्रोषधिनिर्मुक्ता सुपक्ष्मा मृण्मयं तथा ९३
विस्तारेणाष्टका प्रोक्ता षट्पञ्च चतुरङ्गुलाः
उत्तरादि क्रमेणैव विस्तारापि गुणा च ताम् ९४
विस्तारार्धं घनं प्रोक्तं इष्टकास्तु प्रमाणतः
उत्तरे च तथा पार्श्वे चतुर्गात्रसमायुतैः ९५
मण्टपे स्थण्डिलं प्राक्त्वा शालिभिश्चतुरङ्गुलम्
शिवाङ्गसा तु संप्रोक्ष्या परिस्तीर्य कु शैस्ततः ९६
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कु शाम्भसा
होमैः कौतुकसूत्रैस्तु बन्धयेद्धृदयेन तु ९७
वस्त्रैः प्रत्येकमाच्छाद्य तदग्रैस्थण्डिले ततः
कलशान् स्थापयेद्विद्वान् सवस्त्रं नवसंख्यया ९८
विद्येश्वरसमायुक्तान् पूजयेद्गन्धपुष्पकैः
प्रभाते पूजयित्वाथ स्थापितं स्थापिकं तथा ९९
स्थापके मन्त्रयोग्यस्तु स्थरातिः कर्मयोग्यतम्
द्वारस्य दक्षिणे पार्श्वे स्थानमेतं प्रचक्षते १००
सुमुहूर्ते न्यसेत्पश्चादिष्टकांश्चतुरक्रमात्
विन्यसेच्च चतुर्दिक्षु सद्यादि ब्रह्मभिस्तथा १०१
तन्मध्ये विन्यसेत्कूर्मं गदां वज्रं त्रिशूलकम्
हरिणं चैव परशुं नं वृषभमेव च १०२
सौवर्णं कारयेद्धीमान् न्यसेत्तत्राष्टदिक्ष्वथ
तेषां मध्ये तथा गर्ते पूरयेत् कलशाम्भसा १०३
शुभं वै दक्षिणावर्ता वामवर्तमशोभनम्
वामावर्ते तथा कु र्यादीशाने तु तथाहुतीः १०४
तत्रैव नवरत्नानि विन्यसेदानुपूर्वशः
वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपूर्वकाः १०५
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत्
गजदन्ते तथा सस्ये वल्मीके कर्क टायने १०६
वृषशृङ्गे ह्रदे नद्यास्तीर्थे वै पर्वतस्तथा
समुद्रे च मृदं ग्राह्य पूरदेवलटं ततः १०७
अत ऊर्ध्व प्रकर्तव्य प्रासादं गर्भसंयुतम्
इति स्वायम्भुसूत्रे उत्तरसूत्रे प्रथमेष्टकः पटलः चतुर्विंशतिः