०४ अध्वा

चतुर्थः पटलः
अध्वा
अथात्मबन्धसंतानपशुत्वविनिवृत्तये
व्यक्तये च शिवत्वस्य षड्विधोऽध्वेह कीर्त्यते १
तत्त्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकः
मन्त्रात्मकः कलाध्वा च विशत्येकं शिवं पदम् २
अप्रमेयमनिर्देश्यमनौपम्यमनामयम्
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् ३
अप्रमेयमनन्तत्वादनिर्देश्यमलक्ष्यतः
अनौपम्यमसादृश्याद्विमलत्वादनामयम् ४
सूक्ष्मं चानुपलभ्यत्वाद्व्यापकत्वाच्च सर्वगम्
नित्यं कारणशून्यत्वादचलत्वाच्च तद्ध्रुवम् ५
अव्ययं परिपूर्णत्वात्स्वामिभावात् तथेश्वरम्
शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरि संस्थितम् ६
ओंकारात्मतया भाति शान्त्यतीतः परः शिवः
बीजपङ्कजमध्यस्थः समस्ताध्वमुखः प्रभुः ७