०३ अनुग्रहशक्तिः

तृतीयः पटलः
अनुग्रहशक्तिः
देवादिदेवस्य शिवस्यामिततेजसः
सर्वानुग्राहिका शक्तिरमोघा बलशालिनी १
एकानेकविभागेन संस्थितासौ शिवेच्छया
विद्याविद्येश्वरेशानी भाति सादिभवे पदे २
तयोद्बलितसामर्थ्याः सर्वस्य प्रभविष्णवः
अनन्तेशादिविद्येशा बभूवः कारणेच्छया ३
तेभ्योऽमितबलाश्चान्ये तेभ्यश्चान्ये नियोगिनः
भवन्ति विमलात्मानः सितासितफलप्रदाः ४
तेभ्योऽपि साञ्जनाश्चान्ये पतीच्छानुविधायिनः
येभ्यो निखिलमुत्पन्नं जगत्स्थावरजङ्गमम् ५
प्रभुशक्तेः समुत्पन्ना मन्त्राश्चामोघशक्तयः
शिवेच्छयैव चेष्टन्ते शिवान्ते विततेऽध्वनि ६
अध्वा यातव्यमार्गोऽत्र स च पत्युर्न विद्यते
न च यातुर्गतिः पुंसो विभुत्वमनयोर्यतः ७
विभुत्वे गतिमत्त्वं तु विभुता गतिमत्त्वतः
न जातु युज्यते यस्माद्वस्तुतोऽध्वा कु तस्तयोः ८
एवं संप्रश्नितेऽर्थेऽस्मिन्मया पूर्वं द्विजोत्तमाः
प्राह गम्भीरया वाचा प्रभुर्लोके श्वरेश्वरः ९
पतिपुंसोर्विभुत्वेऽपि द्राघिष्ठोऽध्वा तयोर्यथा
तयोच्यते शृणु ब्रह्मन्नयनं पुरुषस्य च १०
दीक्षाकर्म क्रमेणोक्तं मायापरिणतौ यतः
सोऽध्वा परिणतिस्तस्माद्देशातिशयवर्तिनी ११
पुंबन्धभावमापन्ना क्रमशः पत्युरिच्छया
व्युत्क्रमेणापनेयासौ शिवाय गमनं प्रति १२
अन्तरङ्गतरा शोध्या बहिरङ्गतरापि च
बहिरङ्गेऽपनीते स्यादन्तरङ्गक्रियाक्रमः १३
एवमध्वा शिवस्योक्त उद्बन्धक्रमयुक्तितः
लोके चाध्वव्यवस्थेयं दृष्टा वस्तुनिबन्धने १४
दग्धसंसारबीजस्य या पुंसोऽपश्चिमा स्थितिः
सा गतिस्तस्य विज्ञेया न देशान्तरसंस्थितिः १५
धर्माद्धर्मान्तरव्यक्तौ सत्यां लोके गतं यथा
प्रोच्यते पटपर्णादि वस्तु तद्वत्पुमानपि १६
इति स्वायम्भुवसूत्रसंग्रहे तृतीय अनुग्रहशक्तिपटलः