द्वितीयः पटलः
पाशविचारः
अथानादिमलः पुंसां पशुत्वं परिकीर्तितम्
तुषकम्बुकवज्ज्ञेयं मायावापाङ्कुरस्य तत् १
तत्सद्भाववशोऽज्ञादिपाशौघः पौरुषः स्थितः
तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता २
पतिज्ञानैकगम्यं तदितरेषामगोचरम्
तेन तज्ज्ञानिभिर्मुक्तोऽशुद्धात्मा सोच्यतेऽबुधैः ३
यद्यशुद्धिर्न पुंसोऽस्ति सक्तिर्भोगेषु किं कृता
शुद्धे पुंसि न तद्भोगो जाघटीति विपश्चितः ४
अथ चेद्युक्तिमान्भोगः सा युक्तिर्नोपपद्यते
मुक्तसंसारवर्त्मस्थविशेषाप्रतिपत्तितः ५
तस्मादभ्युपगन्तव्यो विशेषः पुंमलात्मकः
यस्मिन्नसति मुक्तात्मा बद्धात्मा च सतीष्यते ६
तद्भावभाविनो भावाः सर्वे मायात्मकाः पशोः
द्विविधं साधयन्तीह पुरुषार्थं परापरम् ७
मायातत्त्वं जगद्बीजमविनाश्यशिवात्मकम्
विभ्वेकमकलं सूक्ष्ममनाद्यव्ययमीश्वरम् ८
तस्मात्कालकले रागविद्याव्यक्तं गुणान्धियम्
बुद्धितत्त्वादहंकारं तन्मात्राणीन्द्रियाणि च ९
तन्मात्रेभ्यश्च भूतानि सर्वं च क्रमशोऽसृजत्
विद्याविद्येश्वरेशानः शिवशक्तिसमर्थितः १०
भावान्प्रत्ययसर्गांश्च भूतानि भुवनानि च
सोऽसृजद्भगवानीशः सर्वं मायात्मक जगत् ११
कर्मतः परिणामोऽस्य जगतस्त्रिगुणात्मकः
शान्तघोरविमूढात्मा नितान्तविषमस्ततः १२
कर्मतश्च शरीराणि विविधानि शरीरिणाम्
कर्मतः सर्वमेवेदं सुखदुःखात्मकं फलम् १३
तेन कर्म प्रकु र्वन्ति लब्धदेहाणवोऽसकृ त्
पशुत्वादन्वितात्मानो भोगविप्लुतचेतसः १४
असद्भावे तयोः पुंसां बन्धमुक्ती न जातुचित्
भवेतां भवतस्ते वै प्रमाणात्प्रतिपत्तितः १५
कर्माशुद्धिशिवत्वानि तेषु सत्सु भवन्त्यमी
त्रयोऽर्थाः सर्वजगतो भोगभोक्तृ त्वमुक्तयः १६
कर्म तद्द्विविधं भोग्यं धर्माधर्मात्मकं पशोः
आभोगस्थायि तद्विद्यात्फलद्वयविरोधि च १७
धत्ते लोकानिमान्सर्वान् प्रीतिं च पुरुषे पराम्
धर्मस्तेनोच्यते तज्ज्ञैरधर्मस्तद्विपर्ययात् १८
धर्मसाधनसंवित्तिराम्नायादेव जायते
तन्मूलत्वात्स्मृतेः चैव ताभ्यामेव परस्य च १९
उन्नत्यवनती यद्वत्तुलाकोट्योर्व्यवस्थिते
कर्मणोर्विलयोत्पत्ती तद्वदुत्तरपूर्वयोः २०
असंस्था मुक्तिपर्यन्ता द्विकर्मप्रतिरोधतः
प्रोच्यतेऽसावणोर्बन्धः सुकैवल्यनिरोधिका २१
अनादिः पौरुषी कारा मुक्त्यन्ताविकृ ता निजा
मायेया कार्मिकी नैव मुक्त्यन्तापि विधर्मतः २२
मायेयमाणवं कार्ममेतावदणुबन्धनम्
एतच्चोक्तं मया सर्वं संक्षेपात् कनकाण्डज २३
तस्मात्प्रवितताद्बन्धात्परासंस्थानिरोधकात्
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि २४
शिवधामार्पितस्यास्य भोगभोक्तुर्न जातुचित्
भोक्तृ त्वमधिकारित्वं पतिकृ त्यानुकारिता २५
भवोद्भवपदातीतो निष्कम्पार्चिरिव स्थितः
मुक्तो व्यक्तशिवत्वोऽसौ कृ तकृ त्यो यतस्ततः २६
इति स्वायम्भुवसूत्रसंग्रहे पाशविचारपटलो द्वितीयः