०१ पशुविचारः

प्रथमः पटलः
पशुविचारः
शिवं प्रणम्य परमं निधनेशमतः परम्
ज्ञानदीक्षे प्रवक्ष्यामि ते शृणुध्वं समाहितः १
अथात्ममलमायाख्यकर्मबन्धविमुक्तये
व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते २
तदेकमप्यनेकत्वं शिववक्त्राम्बुजोद्भवम्
परापरेण भेदेन गच्छत्यर्थप्रतिश्रयात् ३
एवमेतत्सुरेशानः शास्त्रसद्भावमुत्तमम्
सूत्रद्वयेन संगृह्य प्राह विस्तरशः पुनः ४
अथात्माविमलो बद्धः पुनर्मुक्तश्च दीक्षया
विज्ञेयः स त्रिधावस्थः के वलः सकलोऽमलः ५
अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः
व्याघातभागशक्तश्च शोध्यो बोध्योऽकलः पशुः ६
पूर्वं मायात्मकाद्बन्धादित्थमात्मा स्थितो मया
प्रोक्तो गुरुमुखोक्तेन श्लोकबन्धेन हे द्विजाः ७
भोक्ता भोजकभावेन नानाभोगविसर्पिणा
सांप्रतं प्रोच्यते बद्धो बन्धेनात्मा कलादिना ८
अत्यन्तमलिनस्यास्य प्रागुक्तस्याविकारिणः
कला संश्लेषमायाति शिवेच्छानुविधायिनी ९
कलोद्बलितचैतन्यो विद्यादर्शितगोचरः
रागेण रञ्जितश्चापि बुद्ध्यादिकरणैस्ततः १०
मायाद्यवनिपर्यन्ततत्त्वभूतात्मवर्त्मनि
भुङ्क्ते तत्र स्थितो भोगान्भोगैकरसिकः पुमान् ११ भोगोऽस्य वेदना पुंसः सुखदुःखादिलक्षणा
तां समर्थितचैतन्यः पुमानभ्येति कर्मतः १२
कर्मतश्च शरीराणि विषयाः करणानि च
भोगसंसिद्धये भोक्तुर्भवन्ति न भवन्ति च १३
एवं मायाञ्जनस्थोऽणुर्निजदोषतिरस्कृ तः
याति तन्मयतां तेषु मायाभोगेषु रञ्जितः १४
संसारी विषयी भोक्ता क्षेत्री क्षेत्रज्ञ एव च
शरीरी चेति बद्धात्मा सकलश्चोच्यते बुधैः १५
शिवेच्छया पुरानन्ता शैवी शैवार्थदायिका
सा शक्तिरापतत्याद्या पुंसो जन्मन्यपश्चिमे १६
तन्निपातात्क्षरत्यस्य मलं संसारकारणम्
क्षीणे तस्मिन्यियासा स्यात्परं निःश्रेयसं प्रति १७
स देशिकमनुप्राप्य दीक्षाविच्छिन्नबन्धनः
प्रयाति शिवसायुज्यं निर्मलो निरनुप्लवः १८
अनेन क्रमयोगेन परां के वलतां गतः
आनाद्यशुद्धिशून्यत्वात्प्राप्नोति न भवान्तरम् १९
इत्थमात्मा समाख्यातः सर्वावस्थास्ववस्थितः
साम्प्रतं प्रोच्यते ब्रह्मन् पाशजालमनन्तकम् २०
इति स्वायम्भुवसूत्रसंग्रहे पशुविचारपटलः प्रथमः