११ सपिण्डीकरणविधि-पटलः

अथ सपिण्डीकरणविधि-पटलः

अथातः सम्प्रवक्ष्यामि सपिण्डीकरणं परम् ।
द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा ॥ ११-१ ॥

तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् ।
देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे ॥ ११-२ ॥

सम्पूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः ।
पृथिव्यापस्थथा तेजोवायुराकाशमेव च ॥ ११-३ ॥

तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः ।
पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् ॥ ११-४ ॥

तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् ।
लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् ॥ ११-५ ॥

अर्चनोक्तविधानेन तस्मिन् सम्पूजयेच्छिवम् ।
तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् ॥ ११-६ ॥

पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् ।
त्रितीयञ्चैव सारूप्यं सा युज्यन्तु चतुर्थकम् ॥ ११-७ ॥

एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् ।
अष्टकाहोमकार्यं तु सङ्क्षेपं शृणु सुवृत ॥ ११-८ ॥

माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः ।
सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च ॥ ११-९ ॥

अष्टका कुरुते विद्वानस्य द्वारे तु वायदि ।
शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् ॥ ११-१०

पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः ।
दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् ॥ ११-११ ॥

पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु ।
सम्प्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं शृणु ॥ ११-१२ ॥

इति सपिण्डीकरणविधिपटल एकादशः ॥ ११ ॥