०८ हिरण्यगर्भतुलाभरविधि-पटलः

अथ हिरण्यगर्भतुलाभरविधि-पटलः

अथातः सम्प्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् ।
दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ ॥ ८-१ ॥

ग्रहणे विषुवेकाले अयने तु प्रशस्यते ।
पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके ॥ ८-२ ॥

पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् ।
ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् ॥ ८-३ ॥

स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् ।
पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् ॥ ८-४ ॥

तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः ।
दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् ॥ ८-५ ॥

प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा ।
पश्चिमे चोत्तरेवापि अन्तराले मनोरमे ॥ ८-६ ॥

चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् ।
दशद्वादशहस्तं वा षोडशस्तम्भसंयुतम् ॥ ८-७ ॥

चतुस्तोरणसंयुक्तं सर्वालङ्कारसंयुतम् ।
दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् ॥ ८-८ ॥

तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् ।
उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् ॥ ८-९ ॥

अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह ।
अथवा चतुरश्राणि वृत्तानि विदिशासु वै ॥ ८-१० ॥

चक्रशङ्करयोर्मध्ये वृतकुण्डं प्रकल्पयेत् ।
अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु ॥ ८-११ ॥

स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा ।
तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् ॥ ८-१२ ॥

गन्धपुष्पैः समभ्यर्च्य धूपदीपैर्विशेषतः ।
हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् ॥ ८-
१३ ॥

ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् ।
तथोभागे न्यसेन्मन्त्री बीजमुख्येन मन्त्रतः ॥ ८-१४ ॥

प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः ।
जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् ॥ ८-१५ ॥

भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः ।
शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः ॥ ८-१६ ॥

सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः ।
प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः ॥ ८-१७ ॥

शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः ।
ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः ॥ ८-१८ ॥

सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलङ्कृतः ।
शिवोहमिति सम्भाव्य यावत् स्वस्वाहितावतः ॥ ८-१९ ॥

तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् ।
हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् ॥ ८-२० ॥

भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु ।
प्रणिपत्य गुरुं तत्र सम्पूज्य च विशेषतः ॥ ८-२१ ॥

होत्रान् सम्पूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः ।
सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् ॥ ८-२२ ॥

दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः ।
शैवमार्ग स्थितानां तु ग्रहिणां लिङ्गिनामपि ॥ ८-२३ ॥

भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् ।
प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः शृणु ॥ ८-२४ ॥

पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु ।
खदिरश्चन्दनञ्चैवस्तालं चम्पकविल्वकैः ॥ ८-२५ ॥

अन्यैस्तु सारवृक्षैर्वा कृत्वास्तं भद्वयं ततः ।
तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् ॥ ८-२६ ॥

सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदङ्गुलम् ।
अग्रयोः सुषिरं कृत्वा बध्वाशृङ्खलया दृढम् ॥ ८-२७ ॥

समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा ।
किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः ॥ ८-२८ ॥

आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः ।
दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् ॥ ८-२९ ॥

स्तम्भं वस्त्रैस्तु संवेष्ट्यः सर्वालङ्कारसंयुतम्

तुलामारोप्य नृपतिः सर्वाभरणभूषितः ॥ ८-३० ॥

तुलामनुसमायुक्तं हृदयेन विचक्षणः ।
शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः ॥ ८-३१ ॥

शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः ।
अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् ॥ ८-३२ ॥

दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा ।
आदिशैवानुशैवानां दापयेत् तु यथार्हकम् ॥ ८-३३ ॥

वा जपेय सहस्रैस्तु राजसूयशतैरपि ।
अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् ॥ ८-३४ ॥

तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं शृणु ।

इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः ॥ ८ ॥