अथ वृताचारविधि-पटलः
अथातः सम्प्रवक्ष्यामि सङ्क्षेपाद् वृत्तमुत्तमम् ।
वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः ॥ ६-१ ॥
ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः ।
चतुराश्रममेवं हि सामान्यं विधिचोदितम् ॥ ६-२ ॥
चतुर्णां गोचराणान्तु सममेतच्छिवागमे ।
ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा ॥ ६-३ ॥
शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः ।
मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु ॥ ६-४ ॥
शिखीमुण्डी जटीवापी सकौपीनः समेखलः ।
सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः ॥ ६-५ ॥
त्रिस्नायि च जित क्रोधः सुयमः सत्यभाषणः ।
एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे ॥ ६-६ ॥
वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा ।
हरिद्रमञ्जनञ्चैव ताम्बूलं लवणं तथा ॥ ६-७ ॥
शिखा वृतेश्वरं यागङ्कृत्वा चार्यपरिग्रहे ।
ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं शृणु ॥ ६-८ ॥
गृहिणी सङ्ग्रहं कृत्वा विवाहं विधिना तथा ।
अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् ॥ ६-९ ॥
देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः ।
शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् ॥ ६-१० ॥
शिखी वा बद्धके शीवा शुक्लयज्ञोपवीतकम् ।
स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् ॥ ६-११ ॥
सुदारान् सङ्ग्रहं नित्यम् ऋतुकाले विशेषतः ।
चन्दनादीनिमाल्यानि त्वलं कृत्य शुभे ग्रहे ॥ ६-१२ ॥
ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं शृणु ।
अपत्नीकः सपत्नीको द्विविधं शिवभाषणे ॥ ६-१३ ॥
वने संवासिको नित्यं शाकमूलादिभक्षयेत् ।
ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु ॥ ६-१४ ॥
सपत्निकवृतं प्रोक्तमपत्निकवृतं शृणु ।
ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् ॥ ६-१५ ॥
सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा ।
सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् ॥ ६-१६ ॥
कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् ।
वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् ॥ ६-१७ ॥
अपत्निकवृतमिदं यतिनाञ्च वृतं शृणु ।
आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च ॥ ६-१८ ॥
सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः ।
सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् ॥ ६-१९ ॥
समत्वं सुखदुःखेषु सर्वारम्भ विवर्जितम् ।
काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समम्भवेत् ॥ ६-२० ॥
स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् ।
य निवृत्तिरियं प्रोक्तं शृणु वै शेषिकां वृतान् ॥ ६-२१ ॥
शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा ।
शिवदेह समुत्भूतं गोचरं तुलमुच्यते ॥ ६-२२ ॥
काश्यपादि ऋषिणान्तु शिवगोचरसञ्ज्ञकम् ।
भारद्वाजमुनिनान्तु ज्योतिर्गोचरसञ्ज्ञकम् ॥ ६-२३ ॥
गौतमादि ऋषिणान्तु नाम सावित्रगोचरः ।
आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः ॥ ६-२४ ॥
तेषां वै शुद्धशैवानां वृत्तिवै शेषिकान् शृणु ।
चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः ॥ ६-२५ ॥
प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् ।
कपोतं हि तृतीयं वै चतुर्थ्ं ग्रन्धिकं स्मृतम् ॥ ६-२६ ॥
ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह ।
शिवगोचरसञ्ज्ञानां वृत्तिभेदाः प्रकीर्तिताः ॥ ६-२७ ॥
धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् ।
अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका ॥ ६-२८ ॥
प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममाङ्कुरं तथा ।
तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे ॥ ६-२९ ॥
चतुर्गोचर सञ्ज्ञन्तु प्रोक्तं भेदानि मे शृणु ।
स्वाद्ध्यायङ्कुरु शुश्रूषा संयमः सत्यवाचकम् ॥ ६-३० ॥
प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् ।
शान्त्यादिकर्मकुशला मारणादि सुपेशका ॥ ६-३१ ॥
रक्षकान्तु महिसर्वां महिपालवृतात् तु वै ।
पततिर्णकणान् भूमौ भक्षयित कपोतवत् ॥ ६-३२ ॥
कपोत जीविताये च कपोतास्तु प्रकीर्तिताः ।
सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि ॥ ६-३३ ॥
त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदा हृताः ।
समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् ॥ ६-३४ ॥
ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः ।
क्षेमारामेसु तीर्थे वा तत्प्त्नि सहजीवनः ॥ ६-३५ ॥
सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै ।
दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः ॥ ६-३६ ॥
पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः ।
वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः ॥ ६-३७ ॥
अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै ।
आशनं गुलिकामात्रं गुलिकान्ते महावृताः ॥ ६-३८ ॥
शरीरदण्डनं कृत्वा वीरासन रतः सदा ।
वृतैश्च दण्डन अस्मात् ते नैव दण्डनं स्मृतम् ॥ ६-३९ ॥
कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् ।
रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् ॥ ६-४० ॥
स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः ।
चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह ॥ ६-४१ ॥
चरन्ति संसवद्ये च निर्मले कलसं श्रये ।
वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः ॥ ६-४२ ॥
ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? ।
वृता वै शेषिकाः प्रोक्ता गोचराणामिदं वृतम् ॥ ६-४३ ॥
अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् ।
वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः ॥ ६-४४ ॥
चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै ।
पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते ॥ ६-४५ ॥
पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे ।
पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे ॥ ६-४६ ॥
ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा ।
अघोरं दक्षिणे पद्मे सद्यं पश्चिमपङ्कजे ॥ ६-४७ ॥
सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै ।
तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः ॥ ६-४८ ॥
तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा ।
व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः ॥ ६-४९ ॥
व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् ।
स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः ॥ ६-५० ॥
प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् ।
व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै ॥ ६-५१ ॥
तदभावे जलेलिङ्गे प्रक्षेपणविधिं शृणु ।
नद्यां वापि तटाके वा तीरे समतले शुभे ॥ ६-५२ ॥
अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः ।
सम्पूज्य वृतशुद्ध्यन्तु सङ्ग्राह्य विधिवत् ततः ॥ ६-५३ ॥
व्योमव्यापि शिवे नैव तल्लिङ्गन्तु जलेक्षिपेत् ।
स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् ॥ ६-५४ ॥
प्रोक्तं वृतेश्वरं यागं समाचारविधिं शृणु ।
प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् ॥ ६-५५ ॥
ऋषिः सनत्कुमारस्तु ओङ्कारः शुक्लवर्णकम् ।
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः ॥ ६-५६ ॥
ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः ।
प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं शृणु ॥ ६-५७ ॥
वाचकः सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् ।
जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते ॥ ६-५८ ॥
ऋषिच्छन्दोवर्ण तत्वदेवतास्तु शृणु क्रमात् ।
काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः ॥ ६-५९ ॥
आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः ।
अनुष्टुप्चत्रिजगती * * * * * * * * ॥ ६-६० ॥
छन्दांसि सर्वमाख्यातं वर्णान्येव मम शृणु ।
रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् ॥ ६-६१
॥
पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।
सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः ॥ ६-६२ ॥
प्रणवेन समायुक्तं जपकाले तथा चरेत् ।
तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् ॥ ६-६३ ॥
जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकाङ्क्षिणाम् ।
मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च ॥ ६-६४ ॥
व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् ।
सहस्रं मानसं तस्मादङ्गुल्यादि जपं शृणु ॥ ६-६५ ॥
अङ्गुल्या जपसङ्ख्या तु तुल्या एकफलं तथा ।
रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् ॥ ६-६६ ॥
सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् ।
मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते ॥ ६-६७ ॥
पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।
रुद्राक्षस्य ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥ ६-६८ ॥
दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया ।
मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते ॥ ६-६९ ॥
एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् ।
सन्धार्य मृयते यस्तु सयाति परमाङ्गतिम् ॥ ६-७० ॥
द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते ।
चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् ॥ ६-७१ ॥
षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृताः ।
अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥ ६-७२ ॥
नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् ।
हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना ॥ ६-७३ ॥
सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।
दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् ॥ ६-७४ ॥
प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् ।
रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा ॥ ६-७५ ॥
प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये ।
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ॥ ६-७६ ॥
तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैः सदा ।
जपकालञ्च शेषञ्च वक्ष्यते तु समासतः ॥ ६-७७ ॥
पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके ।
चतुष्कालं त्रिकालं वा तद्देशञ्च शृणुष्व हि ॥ ६-७८ ॥
नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा ।
वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् ॥ ६-७९ ॥
दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः ।
पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते ॥ ६-८० ॥
पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् ।
लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च ॥ ६-८१ ॥
रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ ।
पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा ॥ ६-८२ ॥
भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् ।
शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः ॥ ६-८३ ॥
पङ्कमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति ।
पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः ॥ ६-८४ ॥
अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् ।
जपं समासतः प्रोक्तं पवित्रारोहणं शृणु ॥ ६-८५ ॥
इति वृताचारविधि-पटलः षष्ठः ॥ ६ ॥