०४ दीक्षाविधि-पटलः

अथ दीक्षाविधि-पटलः

अत ऊर्ध्वं प्रवक्ष्यामि दीक्षामार्गं विशेषतः ।
दीयते तच्छिवत्वं हि क्षीयते पापपञ्जरः ॥ ४-१ ॥

क्षयदानविशेषत्वात् दीक्षा चेत्यभिधीयते ।
मण्डलं पूजयित्वा तु तदग्रे चाग्निपूजनम् ॥ ४-२ ॥

शिवाग्निं विधिवद्धुत्वा प्रागुक्तविधिना हुतः ।
ततस्तु दीक्षयेच्छिष्यान् ब्राह्मणादि क्रमेण तु ॥ ४-३ ॥

आचार्यलक्षणोपेतः शैवसिद्धान्तवित्सुधीः ।
नैष्ठिकः शिवयोगज्ञः सर्वेषां तु गुरूत्तमः ॥ ४-४ ॥

सुस्नात्वा शैवमन्त्रज्ञः सकलीकृतविग्रहः ।
प्रोक्षणं प्रथमं कृत्वा दीक्षाङ्कुर्याद्दिनान्तरे ॥ ४-५ ॥

सम्पूज्य विधिवच्छिष्यां दीक्षाङ्कुर्यात् द्वितीयकम् ।
विप्रादीञ्च ततः शिष्यान् शुचिस्नात्वा जितेन्द्रियान् ॥ ४-६ ॥

उत्तराभिमुखान् पुष्पैः कुशैरास्तीर्यमण्डले ।
शिवाम्भसा तु सम्प्रोक्ष्य चाङ्गुल्यास्त्रेण भस्मना ॥ ४-७ ॥

दहेत् कालाग्निना (कालाग्गिना) सर्वं शरीरं
शुष्ककाष्ठवत् ।
ततो स्यालभतं कार्यं शिववीजेनमुद्रया ॥ ४-८ ॥

हृदा हृदयमालभ्य शिरसा तु शिरस्तथा ।
शिखया तु शिखां स्पृष्ट्वा कवचेनस्तनान्तरम् ॥ ४-९ ॥

नेत्रेणनेत्रं स्पृष्ट्वा तु सर्वेष्वङ्गेषु चा स्मृतः ।
शिवहस्तन्तु दातव्यमीशानोद्याभिमन्त्रितम् ॥ ४-१० ॥

तेषां मूर्धसुतद्धस्तं त्रिधा संस्वापयेत् बुधः ।
गन्धाद्यैस्तु समभ्यर्च्य प्रोक्षणञ्चैवमुच्यते ॥ ४-११ ॥

तस्याग्रे मण्डलं कृत्वा चतुरश्रसमन्वितम् ।
पिष्टचूर्णैरलङ्कृत्य दर्भैरास्तीर्य पुष्पकैः ॥ ४-१२ ॥

ईशानं मध्यमे स्थाने वक्त्रमैन्द्र तु बुद्धिमान् ।
अघोरं दक्षिणे न्यस्त्वा पश्चिमे सद्य एव तु ॥ ४-१३ ॥

उत्तरे वामदेवन्तु आग्नेय्यां हृदयं ततः ।
ब्राह्मशिरस्तु नै-ऋत्यां शिखां वै वायुदेशके ॥ ४-१४ ॥

कवचं त्वीशदिक्भागे तत्तन्नाम्ना समाचरेत् ।
देवस्याभिमुखाञ्चिष्यान् भस्मोद्धूल न विग्रहान् ॥ ४-१५ ॥

नेत्रे च नेत्रमन्त्रेण संवेष्ट्य नववस्त्रकैः ।
विप्रादीनान्तु शिष्याणां तद्वर्णं समपुष्पकम् ॥ ४-१६ ॥

निक्षिप्यमण्डले मध्ये शिवमन्त्रं समुच्चरन् ।
यस्मिन् च नृपतेः पुष्पं नामगोत्रन्तदात्मकम् ॥ ४-१७ ॥

ईशानवक्त्र विद्येशान घोरब्रह्मसद्यकम् ।
रुद्रो वामश्च हुङ्कारो नवधानाम उच्यते ॥ ४-१८ ॥

ब्राह्मणादि चतुर्णान्तु गणान्तान्तं शिवादिकम् ।
स्त्रीणान्तु शक्तिनामान्तं दीक्षनामविधीयते ॥ ४-१९ ॥

नैष्ठिकानां विशेषोस्ति गोचरं गोत्रसन्ततिः ।
शिवः शिखा तथा ज्योतिः सावित्री चेति गोचराः ॥ ४-२० ॥

दूर्वासादिचतुर्णान्तु तद्वर्णं गोत्रमुच्यते ।
चर्यापादे तु यत् प्रोक्तं तत्सूत्रं शिवभाषितम् ॥ ४-२१ ॥

आचार्यं गोचरं गोत्रं सूत्रं तस्य विधीयते ।
प्रागुक्तवत् समयिनां तेषामभिमुखङ्गुरुः ॥ ४-२२ ॥

करन्यासं पुराकृत्वा दहनप्लावनञ्चरेत् ।
अष्टत्रिंशत् कलान्यासं कृत्वा तास्तु पुरोक्तवत् ॥ ४-२३ ॥

हृदयानि षडङ्गानि पञ्चब्रह्माणि विन्यसेत् ।
रुद्रमन्त्रदशात्मानं प्रासादं विन्यसेत् ततः ॥ ४-२४ ॥

षडध्वानां तु सङ्कल्प्य शिवास्यं न कथं यथा ।
करादिपां नदान्तस्य स्वमूर्ध्नादि यथा क्रमम् ॥ ४-२५ ॥

तच्छिष्यानान्तु देहेषु एकैकं विन्यसेत् ततः ।
षडध्वशोधनं ह्येनन्ततो होमं समाचरेत् ॥ ४-२६ ॥

तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकम् ।
मन्त्राध्वा च कलाध्वा च एकैकं होमयेच्छतम् ॥ ४-२७ ॥

विद्येशानां स्वमन्त्रैश्च गणेशानां स्वमन्त्रकैः ।
लोकेशानां स्वमन्त्रैश्च दशास्त्राणां समन्त्रकैः ॥ ४-२८ ॥

घृतेन होमयेद् विद्वान् प्रत्येकन्तु शताहुतिः ।
एवं कर्तुमशकश्चेत् तत्व दीक्षां समाचरेत् ॥ ४-२९ ॥

संश्राव्य समया पश्चात् देवदेवस्य चाग्रतः ।
शिवशास्त्रमनिन्द्यं हि प्रविशेद्दीक्षितान् सदा ॥ ४-३० ॥

आचार्यस्य तु ज्येष्ठानां लिङ्गश्ता?यां न लङ्घयेत् ।
अदीक्षिता च या नारी सङ्गमं वर्जयेत् तदा ॥ ४-३१ ॥

निर्माल्यन्तु न भुञ्जीत भस्मयुक्तां न निन्दयेत् ।
इत्यष्टौ समयास्त्वेते दीक्षितानां प्रकीर्तिताः ॥ ४-३२ ॥

पालनीयास्तथा ह्येते दीक्षितानां वचः शृणु ।
सुशीलः सुवृतश्चैव शिवभक्ति गुरुस्तथा ॥ ४-३३ ॥

शिवशास्त्रे रतिश्चैव यदा क्षान्ति जितेन्द्रियः ।
इत्यष्टा वस्तिचेत् पुञ्छः? सयान्तिपरमाङ्गतिम् ॥ ४-३४ ॥

न पालयन्ति ये मोहात्तेयान्ति नरके भृशम् ।
कृत्वा तु दिक्बलिन्तत्र गन्धपुष्पादिभिर्युतम् ॥ ४-३५ ॥

सपत्नीकाश्च शिष्याश्च ततः स्वश्रमसंयुता ।
इत्येवं विधिवत् कृत्वा पश्चाद्धोमं प्रकीर्तितम् ॥ ४-३६ ॥

शिवाग्निं पूर्ववत् कृत्वा शिष्यानाहूयमन्त्रवित् ।
अभिमुखे तथा सीनाश्चार्घ्य पाद्यादिनार्चयेत् ॥ ४-३७ ॥

वक्ष्येहं तद्यथा युक्तं पञ्चधा शृणु साम्प्रतम् ।
उक्तासुतासु सर्वा तु श्रेष्ठा चेत्यभिधीयते ॥ ४-३८ ॥

पृथिव्यापसथा तेजोवायुराकाशमुच्यते ।
काला न याच्छिवं यावत् पञ्चतत्वैर्व्यवस्थितम् ॥ ४-३९ ॥

पार्त्थीवन्तु निवृत्यां वै शतरुद्रमवस्थितम् ।
आपत् प्रतिष्ठाया विद्या यावच्च प्रकृतिन्नरम् ॥ ४-४० ॥

तेजो वै विद्यया ज्ञेया यावद् विद्येश्वरान्तकम् ।
वायुः शास्त्या तु विज्ञेयास्ततः सदाशिवान्तकम् ॥ ४-४१ ॥

शक्त्यन्तं नाभिरित्युक्ताः शान्त्याती तेन बुद्धिमान् ।
निवृत्तिर्जानुपर्यन्तं प्रतिष्ठानाभि सीमकान् ॥ ४-४२ ॥

विद्या कर्णान्तमेवं हि मुखान्तं शान्तिरेव तु ।
शान्त्यातीतं तदूर्ध्वे तु परापर शिवान्तकम् ॥ ४-४३ ॥

निवृत्तिं सद्यमन्त्रेण प्रतिष्ठां वाममन्त्रतः ।
विद्याघोरेण होतव्यं शान्तिस्तत्पुरुषेण तु ॥ ४-४४ ॥

शान्त्यातीतमथैशान मन्त्रेण जुहुयात्बुधः ।
एकैकस्य शतं हुत्वा तदर्धं वार्धमेव वा ॥ ४-४५ ॥

एवमेव हुतं हुत्वा बुधस्तत्वैस्तु पञ्चभिः ।
अन्यजन्मविनाशाय हृदयेन शतं हुनेत् ॥ ४-४६ ॥

पशुत्वं नाशनं तस्माच्छिवत्वं हि निवर्तते ।
ततः पूर्णाहुतिं हुत्वा पञ्चब्रह्मभिरेव तु ॥ ४-४७ ॥

एवं समाप्य तद्दीक्षामभिषेकन्ततः शृणु ।
सर्वालङ्कारसंयुक्तं मण्डपे समलङ्कृते ॥ ४-४८ ॥

शिवाग्निं पूर्ववत् कृत्वा अभिषेकं समाचरेत् ।
हस्तादि पञ्चहस्तान्तं यथा वित्तानुसारतः ॥ ४-४९ ॥

स्नपनस्य विधानेन स्थापयेत् कुलशानि वै ।
भद्रपीठे समास्थाय शिष्यस्थानं दृढवृतम् ॥ ४-५० ॥

अर्चयित्वा यथा न्यायं न्यासं कृत्वा यथा विधि ।
निष्कलन्तु यथा चार्यः सकलः साधकः सदा ॥ ४-५१ ॥

ततोभिषेकं तस्यैवमाचरेद् देशिकोत्तमः ।
दशाक्षरेण मन्त्रेण कूटकैरष्टभिः क्रमात् ॥ ४-५२ ॥

यथा वित्तानुसारेण पुण्याहञ्जयमङ्गलैः ।
स्नापयित्वा ततो मन्त्री शुक्लवस्त्रैर्विभूषितः ॥ ४-५३ ॥

गन्धपुष्पैः समभ्यर्च्य योगपीठोपरिस्थितः ।
उष्णीषं बन्धयेत् सूक्ष्मं सितसुद्धेन वाससा ॥ ४-५४ ॥

ललाटपट्टं दातव्यं यथा राज्ञः प्रकीर्तितम् ।
मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैरपि ॥ ४-५५ ॥

च्छत्रं ह्युपरिसन्धार्य चामरञ्च विधानवित् ।
द्रव्याणामप्यलाभे तु दर्भैरेतानि कल्पयेत् ॥ ४-५६ ॥

अथवा मनसा सर्वं शिवमन्त्रेण (छिवमन्त्रेन्तण)
चिन्तयेत् ।
रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् ॥ ४-५७ ॥

पुस्तकं सृक्सृवञ्चैव करणीं कर्तरीं तथा ।
शिवार्चनाग्निकार्यञ्च जपध्यानञ्च शक्तितः ॥ ४-५८ ॥

व्याख्यामनुग्रहं कार्यमेवं भवतु सर्वदा ।
सर्वाधिकारभावञ्च दत्वाशिष्यस्य देशिकः ॥ ४-५९ ॥

ब्राह्मणक्षत्रिया वैश्याः शूद्राः शुद्धकुलोद्भवाः ।
आचार्यदेहि विज्ञेयानान्येषान्तु कदाचन ॥ ४-६० ॥

सर्वमन्त्रजपध्यान ज्ञानं सत्भावभावितम् ।
सर्वेषान्तु समञ्ज्ञेयं होत्रयादीक्षिताद्ध्वरे ॥ ४-६१ ॥

एवं मन्त्रप्रभावेन कुर्यात् संस्कारकर्मणि ।
चातुर्वर्णानि चान्यानि शिवयागे तु दीक्षयेत् ॥ ४-६२ ॥

अनुलोमान् प्रतिलोमांश्च सुज्ञात्वा दीक्षयेत् गुरुः ।
दक्षिणां गुरवे दत्वा वित्तशाठ्य विवर्जितः ॥ ४-६३ ॥

वस्त्रमाभरणञ्चैव मकुटं कुण्डलं तथा ।
हेमयज्ञोपवीतञ्च हेमपूष्पोपहारकम् ॥ ४-६४ ॥

मुद्राशय्यासनादीनि आचार्यस्य प्रदापयेत् ।
तेषां षोडशकर्माणि शृणु तत्त्वं विनायक ॥ ४-६५ ॥

इति दीक्षाविधिपटलश्चतुर्थः ॥ ४ ॥