०३ मण्डलविधि-पटलः

अथ मण्डलविधि-पटलः

अथातः सम्प्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः ॥ ३-१ ॥

मण्डलन्तेन विख्यातं शिवेन परमात्मना ।
सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् ॥ ३-२ ॥

दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः ।
यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् ॥ ३-३ ॥

महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके ।
गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा ॥ ३-४ ॥

पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके ।
शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा ॥ ३-५ ॥

प्रागुदक् प्लवणेदेशे मण्डलन्त्वा लिखेत्बुधः ।
सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा ॥ ३-६ ॥

त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते ।
नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे ॥ ३-७ ॥

गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् ।
शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् ॥ ३-८ ॥

गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् ।
अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु ॥ ३-९ ॥

प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् ।
तृतीयमभिषेकन्तु क्रमेणैव विधीयते ॥ ३-१० ॥

अधुना मण्डलं यत्तत् समासात् च्छृणुसुव्रत ।
हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ॥ ३-११ ॥

तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता ।
न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् ॥ ३-१२ ॥

उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् ।
वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे ॥ ३-१३ ॥

चतुरश्रं समङ्कृत्वा सम्प्रोक्ष्यपञ्चगव्यकैः ।
मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् ॥ ३-१४ ॥

विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा ।
दिक् रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् ॥ ३-१५ ॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः ॥ ३-१६ ॥

शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा ।
वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् ॥ ३-१७ ॥

स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् ।
वर्द्धनीं वामपार्श्वे तु हेमरत्नाम्बुसंयुतम् ॥ ३-१८ ॥

वस्त्रयुग्मसमायुक्तौ सकूर्चौ सा पिधानकौ ।
शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः ॥ ३-१९ ॥

सम्पूज्यैवं विधानेन तत् कुम्भाभ्याञ्जलैः शुभैः ।
भूमिं द्रव्याणि शिष्यांस्तु सम्प्रोक्ष्यास्त्रोदकेन तु ॥ ३-२० ॥

ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः ।
अधिवास्य ततः पश्चाच्छिवमन्त्रगणैः सह ॥ ३-२१ ॥

शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् ।
योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् ॥ ३-२२ ॥

शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा ।
शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा ॥ ३-२३ ॥

सम्पूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् ।
विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् ॥ ३-२४ ॥

चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा ।
चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् ॥ ३-२५ ॥

आनयित्वा ततस्थालीं क्षालयित्वा शिवाम्भसा ।
गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् ॥ ३-२६ ॥

पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् ।
कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् ॥ ३-२७ ॥

न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् ।
यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् ॥ ३-२८ ॥

गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च ।
सम्पाद्य विधिनाहुत्वा मन्त्रैः सर्वैः सकृत् सकृत् ॥ ३-२९ ॥

सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे ।
निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् ॥ ३-३० ॥

उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् ।
दन्तैर स्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् ॥ ३-३१ ॥

भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः ।
दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् ॥ ३-३२ ॥

दशाक्षरञ्जपित्वा तु विद्याङ्गैर्ब्रह्मभिर्युतम् ।
बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः ॥ ३-३३ ॥

ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् ।
गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि ॥ ३-३४ ॥

भस्मशय्या समारूढः शिवद्ध्यानपरायणः ।
ॐ शम्भवे त्रिणेत्राय पिङ्गलाय महात्मने ॥ ३-३५ ॥

वामाय विश्वरूपाय स्वप्नाधिपतये नमः ।
इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा ॥ ३-३६ ॥

यागस्थाने वसेन्मन्त्री शिष्यैः सार्धं शिवाग्रतः ।
ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा ॥ ३-३७ ॥

स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा ।
शुभेसु खमवाप्नोति शिष्याणान्त्वैहिकं फलम् ॥ ३-३८ ॥

अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् ।
शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् ॥ ३-३९ ॥

त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः ।
रात्रा वै वं कृते पश्चात् प्रभाते मण्डलं लिखेत् ॥ ३-४० ॥

तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् ।
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् ॥ ३-४१ ॥

द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् ।
सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् ॥ ३-४२ ॥

वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् ।
पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः ॥ ३-४३ ॥

तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् ।
तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते ॥ ३-४४ ॥

पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् ।
आग्नेय्यां प्रभवं सूत्रं वायव्यान्तु विसार्य च ॥ ३-४५ ॥

ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् ।
चतुरश्रं समङ्कृत्वा नवभागं विभज्यताम् ॥ ३-४६ ॥

मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् ।
चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् ॥ ३-४७ ॥

प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै ।
तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् ॥ ३-४८ ॥

प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् ।
पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च ॥ ३-४९ ॥

स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् ।
वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः ॥ ३-५० ॥

वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता ।
तत्समानकपोले तु शोभान्तुल्यापशोभका ॥ ३-५१ ॥

पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः ।
द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् ॥ ३-५२ ॥

निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् ।
देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् ॥ ३-५३ ॥

स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् ।
हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् ॥ ३-५४ ॥

कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके ।
सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने ॥ ३-५५ ॥

तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् ।
शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् ॥ ३-५६ ॥

वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता ।
मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् ॥ ३-५७ ॥

तद्राग जननार्थाय रक्तवर्णस्य पातनम् ।
तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् ॥ ३-५८ ॥

तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् ।
आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः ॥ ३-५९ ॥

सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् ।
असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु ॥ ३-६० ॥

सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् ।
मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः ॥ ३-६१ ॥

पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते ।
इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् ॥ ३-६२ ॥

चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् ।
अलाभे सङ्खचूर्णैश्च जातिलिङ्गस्य चूर्णकैः ॥ ३-६३ ॥

कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः ।
तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः ॥ ३-६४ ॥

पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः ।
ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै ॥ ३-६५ ॥

कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः ।
यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् ॥ ३-६६ ॥

केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः ।
पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै ॥ ३-६७ ॥

रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् ।
रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा ॥ ३-६८ ॥

द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः ।
शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् ॥ ३-६९ ॥

एवं समाप्तेन लिने शिवमावाहयेत् बुधः ।
मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् ॥ ३-७० ॥

गर्भावरणसम्पूज्य विद्येशावरणं ततः ।
गणेशावरणं पश्चाल्लोकेशावरणं ततः ॥ ३-७१ ॥

अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि ।
ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके ॥ ३-७२ ॥

मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः शृणु ।

इति मण्डलविधिपटस्तृतीयः ॥ ३ ॥