०२ जातिभेदविधि-पटलः

अथ जातिभेदविधि-पटलः

अथातः सम्प्रवक्ष्यामि जातिभेदविधिं क्रमात् ।
शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते ॥ २-१ ॥

गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः ।
मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा ॥ २-२ ॥

वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः ।
चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः ॥ २-३ ॥

तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः ।
ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत् भवं शृणु ॥ २-४ ॥

वर्णेवर्णे यथा मातःशक्तिशम्भुमयात्मकाः ।
शक्तिस्त्रीरूपमित्युक्तं पुरुषः शम्भुरुच्यते ॥ २-५ ॥

शक्तिशम्भुमयं प्राहुर्जगदेतच्चराचरम् ।
ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः ॥ २-६ ॥

तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् ।
शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् ॥ २-७ ॥

चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् ।
लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु ॥ २-८ ॥

अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा ।
दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते ॥ २-९ ॥

जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते ।
नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः ॥ २-१० ॥

षडेते निजनामानि तेषां पर्यायवाचकाः ।
जगतः पालनन्तेषां स्वधर्मपरिपालनम् ॥ २-११ ॥

ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते ।
पीतायां न्यास्तु वणिजः कामदाः सर्वलौकिकाः ॥ २-१२ ॥

पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः ।
गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः ॥ २-१३ ॥

पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् ।
शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते ॥ २-१४ ॥

कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः ।
एतानि पञ्चनामानि शूद्रपर्यायवाचकाः ॥ २-१५ ॥

अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् ।
अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः ॥ २-१६ ॥

तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा ।
ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः ॥ २-१७ ॥

चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे शृणु ।
स्वर्णं प्रथमं विद्यादम्बष्ठश्च द्वितीयकम् ॥ २-१८ ॥

पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः ।
मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु ॥ २-१९ ॥

वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु ।
सम्प्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् ॥ २-२० ॥

तत्र जातः सवर्णस्तु जानुलोमेषु पूजितम् ।
तत्ब्राह्मणस्तु सञ्ज्ञो वै कर्माधर्मण विस्मृतः ॥ २-२१ ॥

हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया ।
सेनापत्यञ्च मूनां वा कुर्यादा जीवसंयुतः ॥ २-२२ ॥

पीतस्त्री विप्रसंयोगा दम्बष्ठोनामजायते ।
तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् ॥ २-२३ ॥

शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः ।
शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् ॥ २-२४ ॥

नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका ।
रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः ॥ २-२५ ॥

महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् ।
इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् ॥ २-२६ ॥

कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः ।
दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् ॥ २-२७ ॥

कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा ।
काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः ॥ २-२८ ॥

क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका ।
अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः शृणु ॥ २-२९ ॥

वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च ।
आयोगोमागधश्चैव जायन्ते कामतश्चतु ॥ २-३० ॥

सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः ।
वैश्यायां कृष्णसंयोगाज्जातो वै देहकः स्मृतः ॥ २-३१ ॥

गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् ।
पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् ॥ २-३२ ॥

रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते ।
सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् ॥ २-३३ ॥

२३९) श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते ।
कर्णे सन्धाय्यगोचर्म आयसाभरणं तथा ॥ २-३४ ॥

झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च ।
पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् ॥ २-३५ ॥

रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः ।
वस्त्रतन्त्रोप जीवी च तन्तु वाया भवेत् खलु ॥ २-३६ ॥

विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते ।
सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः ॥ २-३७ ॥

अधसं स्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते ।
सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका ॥ २-३८ ॥

विप्रायान्तु नृपस्यैव विधिनायदि जायते ।
पूजितः प्रतिलोमेषु ससूतो नामनामतः ॥ २-३९ ॥

श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते ।
तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् ॥ २-४० ॥

प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः शृणु ।
ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः ॥ २-४१

सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः ।
नृपायां ब्राह्मणस्यैव चोररूपेणजायते ॥ २-४२ ॥

ज्योतिषङ्गणितञ्चैव भूततन्त्रार्थ निश्चितम् ।
आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु ॥ २-४३ ॥

वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः ।
कुलाल वृत्याजीवी च ना पिताश्च तदेव तु ॥ २-४४ ॥

सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् ।
शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः ॥ २-४५ ॥

अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः ।
श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः ॥ २-४६ ॥

आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः ।
वाहनानि तु सम्प्रेष्य तेषां तु परिचारकम् ॥ २-४७ ॥

रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः ।
अभिषेकं विना तस्य शासनी पट्टबन्धनम् ॥ २-४८ ॥

आचारं रक्तवन्नित्यं भोज इत्यभिधीयते ।
पुनर्भूकरणे जातो रक्तायां रक्तनामतः ॥ २-४९ ॥

भोजैः समन्तं विद्यात नृपङ्कानिनमेव च ।
वैश्यायां रक्तसञ्ञ्चोरा दश्वव्यापारमुच्यते ॥ २-५० ॥

वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते ।
रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः ॥ २-५१ ॥

ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः ।
वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु ॥ २-५२ ॥

रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः ।
पीतायां पीतसञ्चोरामणिकारक उच्यते ॥ २-५३ ॥

मणीनां विक्रयं कृत्वा शम्बायां वलय क्रिया ।
वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते ॥ २-५४ ॥

श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते ।
रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते ॥ २-५५ ॥

अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् ।
पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः ॥ २-५६ ॥

स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः ।
कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते ॥ २-५७ ॥

तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् ।
अन्तराल इमे प्रोक्ता वृत्याश्चैव तत शृणु ॥ २-५८ ॥

अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् ।
तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै ॥ २-५९ ॥

अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः ।
रक्तायां पीतवद्योगा दधोनापित उच्यते ॥ २-६० ॥

रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः ।
विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः ॥ २-६१ ॥

रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः ।
पीतायामपिजातोसौ सामुद्रः पश्यजीवकः ॥ २-६२ ॥

मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते ।
रक्तायामेव सञ्जातः कर्मकार इति स्मृतः ॥ २-६३ ॥

अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते ।
चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते ॥ २-६४ ॥

श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् ।
एवमादीनि भेदानि युक्तियुक्तानि योजयेत् ॥ २-६५ ॥

इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि ।
समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् शृणु ( च्शृणु) ॥
२-६६ ॥

ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः ।
एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् ॥ २-६७ ॥

सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः ।
अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः ॥ २-६८ ॥

सूतश्च मागधश्चैव आयोगावसृतीयकः ।
अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः ॥ २-६९ ॥

व्रात्यः सर्वे तु संयोज्याः सर्वकर्मबहिष्कृताः ।
जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः शृणु ॥ २-७० ॥

इति जातिभेदविधिपटलो द्वितीयः ॥ २ ॥