५३ शास्त्रस्थापनविधि-पटलः

अथ शास्त्रस्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि शास्त्रस्थापनमुत्तमम् ।
शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते ॥ ५३-१ ॥

तस्योक्तञ्च स्वरूपञ्च स्थापनञ्च शृणुष्व हि ।
समुद्रमथने काले परिग्रह्यामृतं तथा ॥ ५३-२ ॥

हरिर्बभूवस्त्रीरूपा मोहीनीनामनामतः ।
तन्मोहिनी महन्दृष्ट्वा सङ्गतोस्मि कदाचन ॥ ५३-३ ॥

जातस्तदा महाशास्ता मेद्ध्याहाम्रवतीश्वराः ।
द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् ॥ ५३-४ ॥

श्यामवर्णयुतं तेषां शुक्लयज्ञोपवीतिनम् ।
श्वानकुक्कुटमेषाद्यैः क्रिडन्तं सर्वसिद्धिदम् ॥ ५३-५ ॥

मदनावर्णनी देवौ पीतौरससमन्वितौ ।
सर्वाभरणसंयुक्तौ पार्श्वयोर्विन्यसेत् ततः ॥ ५३-६ ॥

वामे दमनकं न्यस्त्वा ते द्वेषं विकृतं स्मृतम् ।
द्विभूजं दक्षिणेहस्ते चक्रदण्डमथेश्वरम् ॥ ५३-७ ॥

फलपल्लवहस्तञ्च कुञ्चितां घ्रिकरं द्वयम् ।
भूताकारं बृहत्कुक्षिं निलालकविभूषितम् ॥ ५३-८ ॥

शास्तुश्च लक्षणं प्रोक्तं स्थापनं शृणु तत्वतः ।
प्रासादे नै-ऋते भागे ग्रामादीनाञ्च नै-ऋते ॥ ५३-९ ॥

अष्टदिक्षु च पूर्वादि तत्ग्रामस्य पराङ्मुखम् ।
प्रासादं कारयेद्धिमान् गजपृष्ठं विशेषतः ॥ ५३-१० ॥

अथवामण्डलं वापि कर्तव्यं प्रतिमां ततः ।
भद्रासने त्वधासीनं तथा वीरासनं तु वा ॥ ५३-११ ॥

मृद्दारुशैललोहैश्च कारयेच्छास्त्रवित्तमः ।
शैलस्थापनवच्छेषं मन्त्रध्यानमथोक्तवत् ॥ ५३-१२ ॥

तस्मादाद्याक्षरेणैव मूलमन्त्रप्रयोगवत् ।
अग्निमध्ये तु तद्रूपं ध्यात्वा होमन्तु मन्त्रवित् ॥ ५३-१३ ॥

तद्रूपभावनाविष्टा स्थापनादिसमाचरेत् ।
तद्रूपं कौतुकं स्थाप्यमूलबेरस्य चाग्रतः ॥ ५३-१४ ॥

लोहादीनि तथा कार्यं मृच्छिलादीनि कारयेत् ।
अर्चयित्वाथ विधिना हविष्यन्तु निवेदयेत् ॥ ५३-१५ ॥

शास्तुः संस्थापनं ह्येवं जीर्णोद्धारविधिं शृणु ।

इति शात्रस्थापनविधिपटलस्त्रिपञ्चाशत्तमः ॥ ५३ ॥