अथ अस्त्रराजविधि-पटलः
अथातः सम्प्रवक्ष्यामि अस्त्रराजस्य पूजनम् ।
चतुर्भुजं त्रिणेत्रञ्च शिखाकूटसमुज्वलम् ॥ ५२-१ ॥
वामसव्ये च शूलन्तु वरदाभयहस्तकम् ।
रौद्रपाशुपतं ह्येवं बलिबिम्बन्तथोच्यते ॥ ५२-२ ॥
स्थानकञ्चासनं वापि प्रभावीं समन्वितम् ।
कृत्वैवं प्रतिमां तत्र पूर्वोक्तेन प्रमाणतः ॥ ५२-३ ॥
जलस्थापनवत् सर्वं रत्नादिस्थापनान्तकम् ।
तन्मन्त्रेणैव संस्थाप्य अन्यत् सर्वं समं भवेत् ॥ ५२-४ ॥
अस्त्रराजविधिः प्रोक्ता शास्त्रसंस्थापनं शृणु ।
इति अस्त्रराजविधिपटल द्विपञ्चाशत्तमः ॥ ५२ ॥