४९ आदित्यस्थापनविधि-पटलः

अथ आदित्यस्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि आदित्यस्थापनं परम् ।
अदितेः पुत्रभावत्वादादित्यस्यति चोच्यते ॥ ४९-१ ॥

ईश्वरस्यार्धभागे तु जगश्चक्षुरिति स्मृतः ।
द्विभुजं सौम्यमित्युक्वा तस्मात् सौम्यन्तु पूजयेत् ॥ ४९-२ ॥

सर्वसिद्धिं समन्विच्छेत् ग्राममध्ये विशेषतः ।
आलये वामपार्श्वे तु विभवार्थाय देशिकः ॥ ४९-३ ॥

प्रासादं विधिना कृत्वा चाश्वाकर्णसमायुतान् ।
मूर्तयस्तु चतुर्दिक्षु सूर्याक्षविभवानुगाः ॥ ४९-४ ॥

रक्तं श्वेतञ्च पीतञ्च श्यामं सूर्यादिवर्णकम् ।
शिल्पालङ्कारसंयुक्तं प्रासादलक्षणान्वितम् ॥ ४९-५ ॥

ग्रामस्याभिमुखद्वारमालये पश्चिमे मुखम् ।
काष्ठलोहशिलाकृत्भिः कृत्वा तु प्रतिमां ततः ॥ ४९-६ ॥

द्विभुजं पद्महस्तन्तु रक्तवर्णं स्वरूपकम् ।
करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥ ४९-७ ॥

मकुटद्विगुणन्तारं प्रभामण्डलमध्यमम् ।
उषाश्च प्रत्युषादेवी सव्यासव्ये तु संस्थितः ॥ ४९-८ ॥

अरुणञ्चाग्रतः कृत्वा पङ्कजं तत्स्वरूपकम् ।
सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् ॥ ४९-९ ॥

रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् ।
पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥ ४९-१० ॥

मृण्मयं यदिकुर्वीत दैविके प्रतिमं तथा ।
शूलरज्जुमृदाद्यैस्तु वर्णभेदं सुशिल्पिकम् ॥ ४९-११ ॥

कर्माच्च मध्यमे स्थाप्य शैलजं वाथलोहकम् ।
रत्नादि स्थापनान्तञ्च सङ्क्षेपाच्छृणु साम्प्रतम् ॥ ४९-१२ ॥

आलयस्याग्रतः कृत्वा मण्डपंविधिनान्वितम् ।
तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागेति विस्तरात् ॥ ४९-१३ ॥

हस्तमात्रप्रमाणञ्च दर्पणोदरसन्निभम् ।
कुण्डानिपरितः कृत्वा मृदा वा वालुकैश्च वा ॥ ४९-१४ ॥

शालिभिस्थण्डिलङ्कृत्वा रत्नन्यासायदेशिकः ।
रत्नानामप्यलभे तु मौक्तिकं तु निधापयेत् ॥ ४९-१५ ॥

उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ।
वस्त्रेण वेष्टयित्वा तु जले चैवाधिवासनम् ॥ ४९-१६ ॥

नीत्वा जलोषितं बिम्बं संस्नाप्य पञ्चगव्यकैः ।
हेमसूच्याथमधुना नेत्रं नेत्रेणमोचयेत् ॥ ४९-१७ ॥

बध्वा प्रतिसरं मन्त्रीशयने चाधिवासयेत् ।
उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ॥ ४९-१८ ॥

शयनस्य च दिक्भागे कुम्भंवस्त्रेण वेष्टयेत् ।
सकूर्चान् सापिधान् कुम्भान् गन्धाद्यैर्विधिना यजेत् ॥ ४९-१९ ॥

ध्यात्वा तत्तत् स्वरूपाञ्च * * * * * * * * ।
आवृतान् कलशानष्टौ लोकपालाधिकान् क्रमात् ॥ ४९-२० ॥

वस्त्रकूर्च पिधानाद्यै स्थापयित्वा पृथक् पृथक् ।
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयन्तु वा ॥ ४९-२१ ॥

शिवाग्निं पूर्ववद् ध्यात्वा न्यस्त्वा चाद्यन्तु मध्यमे ।
समिदाज्यचरूं लाजान् सक्तुसर्षपमेव च ॥ ४९-२२ ॥

सूर्यगायत्रि मन्त्रेण सर्वद्रव्याणि होमयेत् ।
स्पर्शाहुतिं ततः कृत्वा तन्मूलेन तु देशिकः ॥ ४९-२३ ॥

प्रभाते सुमुहूर्ते तु पूर्णां दत्वा स्वमन्त्रतः ।
आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ४९-२४ ॥

शयनात् बिम्बमुत्थाप्य स्नानवेद्यामथानयेत् ।
घृतः शिरोर्पणं कृत्वा नीत्वाकुम्भन्तु सन्निधौ ॥ ४९-२५ ॥

कुम्भस्थन्तु यथा देवं प्रतिमाया हृदिन्यसेत् ।
संस्थाप्य कलशैरेव गन्धपुष्पादिनार्चयेत् ॥ ४९-२६ ॥

प्रभूतं हविषं दत्वा मूलमन्त्रेण देशिकः ।
प्रारभेदुत्सवं तत्र कर्तावित्तानुसारतः ॥ ४९-२७ ॥

तदुत्सवविधौ सर्वमाहशास्त्रे तु चोदितम् ।
आदित्य स्थापनं प्रोक्तं क्षेत्रपालविधिं शृणु ॥ ४९-२८ ॥

इति आदित्यस्थापनविधिपटल एकोनपञ्चाशत्तमः ॥ ४९ ॥