४७ चण्डेशस्थापनविधि-पटलः

अथ चण्डेशस्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि चण्डेशस्थापनं परम् ।
उद्भवं प्रथमन्तस्य द्वितीयं स्थापनं क्रमात् ॥ ४७-१ ॥

रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः ।
गणेशावरणे स्थित्वा दशांशेना युतेन तु ॥ ४७-२ ॥

प्रचण्डादिविनिष्क्रान्ता पञ्चमूर्तिर्विधानतः ।
प्रचण्डचण्डः प्रथमं ततो विक्रान्त चण्डगः ॥ ४७-३ ॥

तृतीयो भुविचण्डस्तु वीरचण्डश्चतुर्थकः ।
एवं वै पञ्चचण्डेशा पञ्चब्रह्मसमुद्भवा ॥ ४७-४ ॥

कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते ।
विक्रान्तचण्डनामा तु त्रेतायामधिप स्मृतः ॥ ४७-५ ॥

द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते ।
कलौ तु वीरचण्डेश स्वाधिपत्यं प्रकीर्तितम् ॥ ४७-६ ॥

एवं वै पञ्चभेदेन चण्डनामविधीयते ।
आलयस्यैश दिक्भागे विमानं पूर्ववत् क्रमात् ॥ ४७-७ ॥

त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ।
भमञ्जटासमायुक्तं सर्वाभरणभूषितम् ॥ ४७-८ ॥

अभयं शान्तदेहञ्च पाशं वै परशुं तथा ।
द्विभुजं यदिकर्तुञ्चेच्छान्तटङ्कायुतं तथा ॥ ४७-९ ॥

शुक्लयज्ञोपवीतञ्च शुक्लाम्बरधरं तथा ।
स्नानकञ्चासनं प्रोक्तं पूर्वोक्तविधिना ततः ॥ ४७-१० ॥

चलस्थापनवत् सर्वं यथा युक्त्याथकारयेत् ।
स्वनामाद्यक्षरं यत्तु तस्यतन्मूलमन्त्रकम् ॥ ४७-११ ॥

तस्य ह्रस्वांश्च दीर्घांश्च ब्रह्माङ्गस्तु विनिर्दिशेत् ।
शिवार्चने तु तस्यैव दशार्णं मूलबीजतः ॥ ४७-१२ ॥

चण्डेश स्थापनं प्रोक्तम् इद्रादि स्थापनं शृणु ।

इति चण्डेशस्थापनविधि-पटलः सप्तचत्वारिंशत्तमः ॥ ४७ ॥