४६ दुर्गास्थापनविधि-पटलः

अथ दुर्गास्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि दुर्गायाः स्थापनं परम् ।
आदिशक्तेः समुत्भूता विष्णुप्राणानुजा शुभा ॥ ४६-१ ॥

शङ्खचक्रधरा देवी धनुः सायकधारिणी ।
खट्गखेटकसंयुक्ता शूलपाशसमायुता ॥ ४६-२ ॥

चतुर्भुजं वा कुर्वीत सर्वाभरणभूषितम् ।
श्यामवर्णांसुवदनां महिषस्यशिरस्थिताम् ॥ ४६-३ ॥

सिंहारूढाञ्च वा कुर्यात् पद्मासनसमागताम् ।
आलयस्य पुरोभागे प्रपां कृत्वा सलक्षणाम् ॥ ४६-४ ॥

रत्नन्यासन्तु तत्रैव जले चैवाधीवासयेत् ।
मन्त्रपक्ष्माक्षिमोक्षन्तु कृत्वा प्रतिसरम्बुधः ॥ ४६-५ ॥

सङ्कल्पशयनादीनां शाययेत् प्रतिमन्त्रतः ।
कुम्भमन्त्रैश्च विन्यस्य ध्यात्वा तद्रूपमात्मनि ॥ ४६-६ ॥

आवृतान् कलशान् स्थाप्य लोकपालांश्च विन्यसेत् ।
होमं पञ्चत्रयैकं वा प्रागुक्तद्रव्यसंयुतम् ॥ ४६-७ ॥

वह्निमध्ये तु देवेशिमाहूयाज्यादिभिर्बुधः ।
आज्यञ्चरुं तथा लाजानौदुम्बरसमित्तथा ॥ ४६-८ ॥

दुर्गायामूलमन्त्रेण होमयेद्देशिकोत्तमः ।
देविमुत्थाप्य शयनात् स्नानवेद्युपरिन्यसेत् ॥ ४६-९ ॥

कुम्भन्दत्वा तथा बीजं मूलमन्त्रेण योजयेत् ।
संस्नाप्य कलशैः पश्चात् प्रभूतहविषं तथा ॥ ४६-१० ॥

दुर्गास्थापनमेवोक्तं चण्डेशस्थापनं शृणु ।

इति दुर्गास्थापनविधि-पटलः षट्चत्वारिंशत्तमः ॥ ४६ ॥