४५ ज्येष्ठास्थापनविधि-पटलः

अथ ज्येष्ठास्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् ।
आदिशक्तेः समुत्पन्ना पश्चादुदधिसम्भवा ॥ ४५-१ ॥

उदधौमत्थ्यमाने तु चोत्थिता सा गजानन ।
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥ ४५-२ ॥

कररूढा कलेपत्नी सुखघ्नादुहितातनुः ।
जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा ॥ ४५-३ ॥

वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा ।
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥ ४५-४ ॥

रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् ।
ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् ॥ ४५-५ ॥

कुम्भान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् ।
शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् ॥ ४५-६ ॥

ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् ।
संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः ॥ ४५-७ ॥

ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं शृणु ॥

इति ज्येष्ठा स्थापनविधि-पटलः पञ्चचत्वारिंशत्तमः ॥ ४५ ॥