४१ वह्निस्थापनविधि-पटलः

अथ वह्निस्थापनविधि-पटलः

अथातः सम्प्रवक्ष्यामि वह्नेः संस्थापनं शृणु ।
परिवारेऽप्यथाग्नेय्यां विमाने पूर्ववत् कृते ॥ ४१-१ ॥

तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः ।
हस्तमानेन वा चार्धकरेणैव तु पीठकम् ॥ ४१-२ ॥

त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा ।
पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् ॥ ४१-३ ॥

यत्ते नाद्यस्वरोपेतं प्रथमम्बीजमिष्यते ।
रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना ॥ ४१-४ ॥

द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् ।
शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् ॥ ४१-५ ॥

जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् ।
तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे ॥ ४१-६ ॥

मौलिना भूषिताः सर्वे भुक्तिमुक्तिफलप्रदम् ।
वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् ॥ ४१-७ ॥

वरदाभयहस्तञ्च * * * * * * * * ।
शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् ॥ ४१-८ ॥

एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च ।
वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् ॥ ४१-९ ॥

यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः ।
संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः ॥ ४१-१० ॥

धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् ।
प्रागुक्तेन क्रमेणैव पञ्चाग्निं सम्प्रकल्पयेत् ॥ ४१-११ ॥

त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः ।
लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् ॥ ४१-१२ ॥

जलाधिवासयेत् बिम्बं शैलजे तु विशेषतः ।
ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि ॥ ४१-१३ ॥

प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् ।
निर्दोषां नवकुम्भाश्च वर्धन्यां सहसूत्रके ॥ ४१-१४ ॥

संयोज्यगन्धतो येन पूरयित्वा सकूर्चकान् ।
वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् ॥ ४१-१५ ॥

स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् ।
आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् ॥ ४१-१६ ॥

वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च ।
अष्टकुम्भांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् ॥ ४१-१७ ॥

स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा ।
भास्करं वामकेकुम्भे लोकेशां स्वस्वदिक्षु च ॥ ४१-१८ ॥

विन्यस्याभ्यर्च्य गन्धाद्यैः कुम्भानां दक्षिणे तथा ।
सङ्कल्प्यचासनं प्राग्वत् तस्मिन् बिम्बं सुशाययेत् ॥ ४१-१९ ॥

आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् ।
शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् ॥ ४१-२० ॥

अग्निमूर्तिन्तु सङ्कल्प्य समिधान्याज्यलाजकैः ।
तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् ॥ ४१-२१ ॥

प्रभाते सुमुहूर्ते तु शयनात् बिम्बमुद्धरेत् ।
समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् ॥ ४१-२२ ॥

स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे ।
पीठे वा न्यस्य बिम्बन्तु रत्नन्यासादनन्तरम् ॥ ४१-२३ ॥

हृदये पञ्चमम्बीजं मुर्ध्निवक्त्रे च नाभिके ।
गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् ॥ ४१-२४ ॥

गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् ।
पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् ॥ ४१-२५ ॥

ततः कुम्भान् सुमुद्धृत्य मध्ये कुम्भन्तु पञ्चभिः ।
बीजैः पिण्डेनबिम्बन्तु प्रागुक्तन्यासमार्गतः ॥ ४१-२६ ॥

तत्कुम्भवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः ।
तत्कुम्भस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः ॥ ४१-२७ ॥

यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः ।
देशिकं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ४१-२८ ॥

वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं शृणु ।

इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः ॥ ४१ ॥