२९ गर्भन्यासविधि-पटलः

अथ गर्भन्यासविधि-पटलः

अथातः सम्प्रवक्ष्यामि गर्भं न्यासविधि क्रमम् ।
यत् प्रासादं सगर्भन्तु सर्वसम्पत्करं नृणाम् ॥ २९-१ ॥

अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् ।
तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् ॥ २९-२ ॥

भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् ।
सौवर्णं राजतं वापि ताम्रं कांसमयं तथा ॥ २९-३ ॥

शङ्खं वा शुक्तिकं वापि सम्प्रोक्तं गर्भभाजनम् ।
लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः ॥ २९-४ ॥

शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् ।
अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् ॥ २९-५ ॥

पादविष्कम्भविस्तारा पञ्चविंशत् पदान्विता ।
तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा ॥ २९-६ ॥

घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः ।
उत्तमन्तु समाख्यातं विस्तारोत्सेधतः समा ॥ २९-७ ॥

विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् ।
समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् ॥ २९-८ ॥

पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः ।
खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते ॥ २९-९ ॥

क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् ।
भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते ॥ २९-१० ॥

गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै ।
सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् ॥ २९-११ ॥

स्थण्डिलङ्कारयेत् तत्र शालिभिः समलङ्कृतम् ।
तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् ॥ २९-१२ ॥

कुशवस्त्रैः समास्तीर्य पुष्पैर्ल्लाजसमायुतैः ।
तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् ॥ २९-१३ ॥

ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः ।
मरीचिः सविता चैव विवस्वांश्च विशेषतः ॥ २९-१४ ॥

प्। १३६) रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसु रास्तथा ।
पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः ॥ २९-१५ ॥

ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः ।
वितथश्च यमो भृङ्गो नि-ऋतिश्च सुकर्णकः ॥ २९-१६ ॥

वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः ।
बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः ॥ २९-१७ ॥

माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च ।
स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ ॥ २९-१८ ॥

प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् ।
शालिनी वारगोधूमश्या ममाषकुलुत्थकान् ॥ २९-१९ ॥

तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै ।
तालं तथाञ्जनश्यामं विसकञ्च मनःशिला ॥ २९-२० ॥

कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा ।
जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः ॥ २९-२१ ॥

पर्वते च तथा तिर्थे नद्यास्तीरे हृदे मृदम् ।
कुलीरावासवल्मीके शङ्खे वै गजदन्तके ॥ २९-२२ ॥

सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् ।
सुवर्णं रजतन्ताम्र मायसन्त्रपुकन्तथा ॥ २९-२३ ॥

मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् ।
उत्पलस्य च पद्मस्य नीललोहितकस्य च ॥ २९-२४ ॥

कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः ।
खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा ॥ २९-
२५ ॥

कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् ।
ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु ॥ २९-२६ ॥

गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च ।
वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् ॥ २९-२७ ॥

स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः ।
तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः ॥ २९-२८ ॥

अष्टत्रिंशत् कलाभिश्च षडङ्गैश्च दशाक्षरैः ।
हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः ॥ २९-२९ ॥

सम्पातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् ।
ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् ॥ २९-३० ॥

आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ।
गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे ॥ २९-३१ ॥

प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा ।
भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः ॥ २९-३२ ॥

नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते ।
सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् ॥ २९-३३ ॥

प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे ।
यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् ॥ २९-३४ ॥

कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् ।
मण्डपे स्तम्भमूले तु प्रथमावरणे बुधः ॥ २९-३५ ॥

गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् ।
गर्भस्थानन्तु सम्प्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः ॥ २९-३६ ॥

फेलामादाय सद्येन वाममन्त्राभिमन्त्रिताम् ।
अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु ॥ २९-३७ ॥

अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे ।
स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः ॥ २९-३८ ॥

स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः ।
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ॥ २९-३९ ॥

सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु ।
शृणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् ॥ २९-४० ॥

इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः ॥ २९ ॥