अथ करणाधिकारलक्षण-पटलः
अथातः सम्प्रवक्ष्यामि करणानां तु लक्षणम् ।
यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः ॥ २२-१ ॥
दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः ।
कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् ॥ २२-२ ॥
आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् ।
हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् ॥ २२-३ ॥
धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् ।
प्रमाणं दीपदण्डानां यन्त्रिकायाश्च लक्षणम् ॥ २२-४ ॥
बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा ।
वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् ॥ २२-५ ॥
तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च ।
रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा ॥ २२-६ ॥
सिंहासनोपयानानां स्तम्भाच्छादनरङ्गयोः ।
पादुकादर्शनानान्तु व्यजनञ्चामरस्य च ॥ २२-७ ॥
सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् ।
मङ्गलानामधात्राणां तोरणद्वयलक्षणम् ॥ २२-८ ॥
सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् ।
मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै ॥ २२-९ ॥
कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् ।
जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् ॥ २२-१० ॥
क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् ।
एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन ॥ २२-११ ॥
अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा ।
कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः ॥
२२-१२ ॥
मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः ।
अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः ॥ २२-१३ ॥
दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः शृणु ।
कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा ॥ २२-१४ ॥
सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् ।
द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् ॥ २२-१५ ॥
दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् ।
अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् ॥ २२-१६ ॥
तप्तचामीकरेणैव पवित्रं कनकाख्यकम् ।
दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा ॥ २२-१७ ॥
दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा ।
दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके ॥ २२-१८ ॥
नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके ।
दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् ॥ २२-१९ ॥
कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते ।
दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् ॥ २२-२० ॥
द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् ।
ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् ॥ २२-२१ ॥
कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः शृणु ।
द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा ॥ २२-२२ ॥
दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लम्बयेत् ।
कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् ॥ २२-२३ ॥
लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः ।
जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः ॥ २२-२४ ॥
प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः ।
विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ॥ २२-२५ ॥
मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते ।
सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा ॥ २२-२६ ॥
दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् ।
ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तम् अग्रं तु द्विगुणं भवेत् ॥ २२-२७
॥
नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् ।
एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं शृणु ॥ २२-२८ ॥
एकविंशति दर्भाभिः कला ग्रन्थिस्तु बन्धयेत् ।
मेखला मध्यमायाममूलाग्रोदयमिष्यते ॥ २२-२९ ॥
परिस्तरणकं प्रोक्तं ततः परिधयः शृणु ।
यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् ॥ २२-३० ॥
आयामं हस्तमानेन कनिष्ठाङ्गुलिनाहकम् ।
तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे ॥ २२-३१ ॥
परिधेर्लक्षणं प्रोक्तं समिधालक्षणं शृणु ।
न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः ॥ २२-३२ ॥
द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः ।
समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः ॥ २२-३३ ॥
ततः सृक्लक्षणं वक्ष्ये शृणु मुग्धविनायक ।
खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ ॥ २२-३४ ॥
तथा च यज्ञ वृक्षेषु यथा सम्भवतः कुरु ।
त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः ॥ २२-३५ ॥
तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः ।
षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् ॥ २२-३६ ॥
तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् ।
गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् ॥ २२-३७ ॥
तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् ।
अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता ॥ २२-३९ ॥
तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् ।
खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका ॥ २२-४० ॥
पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा ।
बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु ॥ २२-४१ ॥
श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् ।
श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः ॥ २२-४२ ॥
खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् ।
दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका ॥ २२-४३ ॥
अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका ।
दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् ॥ २२-४४ ॥
दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् ।
नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते ॥ २२-४५ ॥
वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् ।
तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् ॥ २२-४६ ॥
अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् ।
अरत्निमात्रमायामं तदग्रे बिलसंयुतम् ॥ २२-४७ ॥
मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् ।
पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् ॥ २२-४८ ॥
माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् ।
गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् ॥ २२-४९ ॥
सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् ।
अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् ॥ २२-५० ॥
घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते ।
होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना ॥ २२-५१ ॥
घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः ।
सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् ॥ २२-५२ ॥
करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु ।
समिदौषधकं दानां फलानां स्वप्रमाणतः ॥ २२-५३ ॥
अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति ।
तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ॥ २२-५४ ॥
दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् ।
यववेणु कुलुत्थानां शुक्तिमात्रेण होमयेत् ॥ २२-५५ ॥
अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् ।
एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः शृणु ॥ २२-५६ ॥
आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् ।
आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् ॥ २२-५७ ॥
कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।
विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् ॥ २२-५८ ॥
चरुस्थालिन्तथैवापि कलशानां विधिं शृणु ।
द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् ॥ २२-५९ ॥
वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते ।
कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् ॥ २२-६० ॥
ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् ।
एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ ॥ २२-६१ ॥
अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः ।
आच्छादनं शरावाणां मुखमानेन विस्तरम् ॥ २२-६२ ॥
त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् ।
एवं प्रमाणमुद्दिष्टं शृणुष्व घटलक्षणम् ॥ २२-६३ ॥
यद्वद्वैकलशाकरं तद्वदेव * * स्मृतम् ।
चतुर्गुणविवृध्या तु घटमेवं विधीयते ॥ २२-६४ ॥
चरुस्थाली यथा रूपं हविः पात्रन्तथैव च ।
यावत् तण्डुलसम्पत्तिस्तावत् ब्रह्मणमुच्यते ॥ २२-६५ ॥
आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा ।
मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् ॥ २२-६६ ॥
सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा ।
जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका ॥ २२-६७ ॥
दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् ।
अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः ॥ २२-६८ ॥
चतुर्भिर्वा त्रिभिः कार्यं वर्धनीञ्च ततः शृणु ।
तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् ॥ २२-६९ ॥
तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् ।
बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् ॥ २२-७० ॥
कमण्डलुश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके ।
ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलम्बितम् ॥ २२-७१ ॥
अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा ।
ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् ॥ २२-७२ ॥
एवं कमण्डुलुङ्कुर्यात् सर्वलक्षणसंयुतम् ।
कलुषं कृमिशैवालमशुचिस्थानसंश्रितम् ॥ २२-७३ ॥
गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् ।
पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् ॥ २२-७४ ॥
अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् ।
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥ २२-७५ ॥
अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् ।
उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ शृणु ॥ २२-७६ ॥
विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते ।
तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते ॥ २२-७७ ॥
तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् ।
शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् ॥ २२-७८ ॥
शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् ।
तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् ॥ २२-७९ ॥
पिधानं मुकुलाकारमनेकसुषिरैर्युतम् ।
धूपपात्रं समाख्यातमुरुघण्टामथ शृणु ॥ २२-८० ॥
द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च ।
जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् ॥ २२-८१ ॥
तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् ।
तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् ॥ २२-८२ ॥
कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् ।
द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ शृणु ॥ २२-८३ ॥
घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते ।
विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् ॥ २२-८४ ॥
अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला ।
तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् ॥ २२-८५ ॥
अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् ।
ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः ॥ २२-८६
॥
तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् ।
पात्रं वा शङ्खचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् ॥ २२-
८७ ॥
धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् ।
घण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ २२-८८ ॥
स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् ।
सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् ॥ २२-८९ ॥
ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु ।
अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे ॥ २२-९० ॥
स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः शृणु ।
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥ २२-९१ ॥
उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् ।
तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् ॥ २२-९२ ॥
पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् ।
नानागणिकया युक्तं नानाकुम्भैः समन्वितम् ॥ २२-९३ ॥
तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् ।
दीपदण्डं तव प्रोक्तं दीपमालां ततः शृणु ॥ २२-९४ ॥
ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् ।
द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके ॥ २२-९५ ॥
शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् ।
धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका ॥ २२-९६ ॥
दीपदेहा इमे प्रोक्ता यन्त्रिकांश्च ततः शृणु ।
आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् ॥ २२-९७ ॥
कवाटार्गल सम्बन्धं यथा युक्तं भवेदिह ।
द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् ॥ २२-९८ ॥
मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह ।
यन्त्रिका च तथा प्रोक्ता बलिपात्रमतः शृणु ॥ २२-९९ ॥
आयसेन प्रहैमेन अथवा ताम्रकेण वा ।
चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् ॥ २२-१०० ॥
दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् ।
भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः ॥ २२-१०१ ॥
चतुर्विधा त्रिपादी स्याच्छङ्ख पादीत्रिपादिका ।
यवनी पादमेवं स्यात् स्थलिका पादमेव च ॥ २२-१०२ ॥
षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् ।
कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः ॥ २२-१०३ ॥
द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् ।
शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् ॥ २२-१०४ ॥
त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते ।
पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च ॥ २२-१०५ ॥
त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं शृणु ।
रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् ॥ २२-१०६ ॥
अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च ।
तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् ॥ २२-१०७ ॥
पञ्चहस्त प्रमाणेन विस्तारायामतः समम् ।
वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् ॥ २२-१०८ ॥
नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् ।
एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते ॥ २२-१०९ ॥
क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा ।
हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् ॥ २२-११० ॥
चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् ।
पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् ॥ २२-१११ ॥
अन्यत् समानमत्रैव जललक्षणमुच्यते ।
पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा ॥ २२-११२ ॥
पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते ।
विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् ॥ २२-११३ ॥
आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् ।
वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते ॥ २२-११४ ॥
द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् ।
पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः ॥ २२-११५ ॥
गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः ।
वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि ॥ २२-११६ ॥
अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला ।
विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि ॥ २२-११७ ॥
निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते ।
उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा ॥ २२-११८ ॥
उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः ।
खट्गपादसमुत्सेध रत्निद्वयसमायुतम् ॥ २२-११९ ॥
अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् ।
विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः ॥ २२-१२० ॥
खट्गायालक्षणं प्रोक्तमासनं शृणु सुव्रत ।
चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् ॥ २२-१२१ ॥
द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् ।
आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् ॥ २२-१२२
॥
हंसा कारेण वा पादं भूतपादमथापि वा ।
गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः ॥ २२-१२३ ॥
कपोतनासिका युक्तं नानारत्नैर्विभूषितम् ।
हाटकं रजतं वापि यथा दारुमयन्तु वा ॥ २२-१२४ ॥
आसनं त्विदमाख्यातं ततः पद्मासनं शृणु ।
ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् ॥ २२-१२५ ॥
खट्गाकारैर्युतं पीठं समं वा चतुरायतम् ।
फलकापादहिनञ्च ततो रथमिहोच्यते ॥ २२-१२६ ॥
चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् ।
तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् ॥ २२-१२७ ॥
तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् ।
कापोत नासिकायुक्तं फलकोपरि विन्यसेत् ॥ २२-१२८ ॥
द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा ।
विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि ॥ २२-१२९ ॥
प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् ।
वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः ॥ २२-१३० ॥
यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः ।
प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा ॥ २२-१३१ ॥
रथं समासतः प्रोक्तं रङ्गञ्चैव ततः शृणु ।
रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् ॥ २२-१३२ ॥
रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् ।
दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगम्मयः ॥ २२-१३३ ॥
चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा ।
तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् ॥ २२-१३४ ॥
एवं तु रङ्गमाख्यातं शिबिकाञ्च तत शृणु ।
शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् ॥ २२-१३५ ॥
उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् ।
अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् ॥ २२-१३६ ॥
विस्तार द्विगुणायामं पादो न द्विगुणं तु वा ।
दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् ॥ २२-१३७ ॥
पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् ।
पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् ॥ २२-१३८ ॥
षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् ।
एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु ॥ २२-१३९ ॥
पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् ।
अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा ॥ २२-१४० ॥
मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् ।
भित्तिपादाश्रितं कीलमायसेन तु कारयेत् ॥ २२-१४१ ॥
नानारूपसमायुक्तं नानानटसमायुतम् ।
मध्यपट्टसमं प्रोक्तमग्रभित्तेः समुन्नतम् ॥ २२-१४२ ॥
भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि ।
पालिका सदृशाः पादाः सप्तवाष्टाङ्गुलोन्नताः ॥ २२-१४३ ॥
एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः शृणु ।
विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु ॥ २२-१४४ ॥
शलाकृति यथा रूपं मौण्ड्याकारं विधीयते ।
शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् ॥ २२-१४५ ॥
एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः शृणु ।
अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा ॥ २२-१४६ ॥
वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः ।
अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् ॥ २२-१४७ ॥
कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् ।
आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् ॥ २२-१४८ ॥
चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् ।
पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् ॥ २२-१४९ ॥
अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् ।
रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् ॥ २२-१५० ॥
वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् ।
यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् ॥ २२-१५१ ॥
नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा ।
नानावर्णैः सवर्णैश्च नानारूपसमायुतैः ॥ २२-१५२ ॥
एतैर्वस्त्रैस्तु सम्प्रोक्तं तरङ्गमिहशोभनम् ।
स्तम्भायाम समायुक्तं स्तम्भवेष्ट न मुच्यते ॥ २२-१५३ ॥
शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् ।
षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् ॥ २२-१५४ ॥
तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् ।
तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः ॥ २२-१५५ ॥
आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् ।
लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् ॥ २२-१५६ ॥
चामरव्यजनादीनां लक्षणं वक्ष्यते धुना ।
मायूरव्यजनं कुर्याच्चमर्या चामरं तथा ॥ २२-१५७ ॥
हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा ।
दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः ॥ २२-१५८ ॥
श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं शृणु ।
सप्त षट्तालतारं वा ह्यधवा पञ्चतालकम् ॥ २२-१५९ ॥
वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् ।
मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् ॥ २२-१६० ॥
सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् ।
नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः ॥ २२-१६१ ॥
त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् ।
तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् ॥ २२-१६२ ॥
छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते ।
दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम् ॥ २२-१६३
॥
श्रिवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः ॥ २२-१६४ ॥
रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् ।
दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् ॥ २२-१६५ ॥
सर्वधा शुक्लवर्णाः स्युः सर्वाभरणसंयुतान् ।
यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् ॥ २२-१६६ ॥
हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः ।
लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः ॥ २२-१६७ ॥
स्वनाम्नैव च सम्पूज्य सर्वमङ्गलकर्मसु ।
अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् ॥ २२-१६८ ॥
अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः ।
पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् ॥ २२-१६९ ॥
देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं शृणु ।
शूलं परशु वज्रञ्च खट्गम्पाशं तथाङ्कुशम् ॥ २२-
१७० ॥
घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् ।
एकतालप्रमाणन्तु भूतानामुपरि स्थितम् ॥ २२-१७१ ॥
विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् ।
भूतवत् भूतमानेन कारयेत् सर्वमानकैः ॥ २२-१७२ ॥
यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् ।
भागेन कारयेच्छूलं गण्डिकाभागमेव च ॥ २२-१७३ ॥
शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं शृणु ।
गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः ॥ २२-१७४ ॥
भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् ।
एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते ॥ २२-१७५ ॥
तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् ।
तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः ॥ २२-१७६ ॥
शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् ।
पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् ॥ २२-१७७ ॥
एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते ।
एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् ॥ २२-१७८ ॥
चतुरङ्गुलविस्तारा फलका चतुरश्रका ।
त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् ॥ २२-१७९ ॥
कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः ।
तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् ॥ २२-१८० ॥
ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् ।
फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः ॥ २२-१८१ ॥
पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः ।
नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् ॥ २२-१८२ ॥
अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् ।
क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् ॥ २२-१८३ ॥
ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् ।
एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् ॥ २२-१८४ ॥
सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि ।
पूजयेत् सुविशेषेण लोकपालायुधाञ्च्छृणु ॥ २२-१८५ ॥
वज्रं शक्तिञ्च दण्डञ्च खट्गम्पाशाङ्कुशौ गदाम् ।
त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् ॥ २२-१८६ ॥
प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् ।
पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते ॥ २२-१८७ ॥
मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् ।
एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् ॥ २२-१८८ ॥
चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् ।
तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः ॥ २२-१८९
॥
दण्डमेवं समाख्यातं खट्गम्पाशन्तु पूर्ववत् ।
दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् ॥ २२-१९० ॥
अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते ।
गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् ॥ २२-१९१ ॥
कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ ।
प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि ॥ २२-१९२ ॥
चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् ।
मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् ॥ २२-१९३ ॥
एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते ।
अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् ॥ २२-१९४ ॥
चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् ।
सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् ॥ २२-१९५ ॥
तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः ।
किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् ॥ २२-१९६ ॥
शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः ।
अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः ॥ २२-१९७ ॥
अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु ।
अस्त्राणां लक्षणं प्रोक्तं तोरणानां शृणु क्रमात् ॥ २२-
१९८ ॥
पलाशखदिराश्वत्थैः शमीबिल्वशिरीषकैः ।
कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः ॥ २२-१९९ ॥
सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् ।
एकहस्तप्रमाणेन मध्ये शूलसमायुतम् ॥ २२-२०० ॥
तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते ।
द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि ॥ २२-२०१ ॥
द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतः समम् ।
कुम्भगण्डियुतं स्तम्भं विष्कम्भं रत्निविस्तृतम् ॥ २२-२०२
॥
अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् ।
त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् ॥ २२-२०३ ॥
भद्रतोरणमेवोक्तं सुवर्णकुसुमं शृणु ।
द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा ॥ २२-२०४ ॥
मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् ।
पुष्पमेवं समाख्यातं पट्टञ्च गोलकां शृणु ॥ २२-२०५ ॥
पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् ।
गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् ॥ २२-२०६ ॥
जटामकुटमीशस्य शक्तिनान्तु किरीटकम् ।
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ॥ २२-२०७ ॥
कटकं कटिसूत्रञ्च पादनूपुरकं तथा ।
कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् ॥ २२-२०८ ॥
यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् ।
एवमाभरणं प्रोक्तं क्षुरकर्तरिकां शृणु ॥ २२-२०९ ॥
अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा ।
आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् ॥ २२-२१० ॥
द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् ।
क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् ॥ २२-२११ ॥
द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् ।
नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् ॥ २२-२१२ ॥
अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् ।
द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि ॥ २२-२१३ ॥
मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् ।
लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् ॥ २२-२१४ ॥
एवं समासतः प्रोक्तं ग्रमादीनां ततः शृणु ।
इति करणाधिकारलक्षणपटल द्वाविंशतितमः ॥ २२ ॥