१३ नित्योत्सवविधि-पटलः

अथ नित्योत्सवविधि-पटलः

अथातः सम्प्रवक्ष्यामि नित्योत्सव विधिक्रमम् ।
त्रिकालमर्चनान्ते तु क्रतोर्बलिरुदाहृतम् ॥ १३-१ ॥

सर्वेषाञ्च बलिं कुर्यात् ततो बलिरिति स्मृतम् ।
यक्षराक्षस पैशाच भूतनागास्तथैव च ॥ १३-२ ॥

श्रुत्वैव तद्बलेःशब्दं सद्योगच्छन्ति बाह्यतः ।
तस्मात् सर्वप्रयत्नेन कुर्यान्नित्योत्सवं बुधः ॥ १३-३ ॥

मण्डपाद्दक्षिणे भागे मण्डलञ्चतुश्रकम् ।
सौवर्णं राजतन्ताम्रं कांस्यं वा पात्रमुच्यते ॥ १३-४ ॥

चतुस्त्रिद्वियवं पात्रघनंस्यादुत्तमादिके ।
विस्तारं हस्तमानं स्यादोष्ठन्नवमथाङ्गुलम् ॥ १३-५ ॥

घनं नवचतुष्कं स्यात् पात्रमेध्येऽब्जमुच्यते ।
त्रिभागैकन्तु विस्तारं पात्रं काम्स्ये न कारयेत् ॥ १३-६ ॥

तस्याब्जस्योच्चन्द्व्यङ्गुल्यमेकाङ्गुलमथापि वा ।
कर्तव्यं कर्णिका बाह्ये दलाष्टकमथार्धतः ॥ १३-७ ॥

उत्सेधार्द्धं तदर्द्धं स्याद्दलाग्रन्तु नवोन्नतम् ।
पात्रं वृत्तं प्रकर्तव्यं मध्यमे विंशदङ्गुलम् ॥ १३-८ ॥

अधमे षोडशाङ्गुल्यं पात्र विस्तारमुच्यते ।
एवं कृत्वा बलेः पात्रं मण्डले विन्यसेत् सुधीः ॥ १३-९ ॥

तत स्त्रिकालमन्नेन बलिर्लिङ्गस्यचोत्तमम् ।
प्रातर्मध्याह्नमन्नेन मध्यन्तु विदुर्बुधाः ॥ १३-१० ॥

मध्याह्ने चान्नलिङ्गन्तु अधमन्तत् गजानन ।
पूर्वाह्णे पुष्पलिङ्गन्तु सा ये तण्डुलमेव च ॥ १३-११ ॥

उत्तमस्याढकञ्च स्यान्मध्यमस्य तदर्धकम् ।
अधमं पञ्चपादन्तु तण्डुलं पाचयेत् क्रमात् ॥ १३-१२ ॥

अपक्वमति पक्वञ्च अत्युष्णमतिशीतलम् ।
बलेस्तुरसलवणं वर्जयेद् देशिकोत्तमः ॥ १३-१३ ॥

दधिसर्पिफलैर्मिश्रं मर्दितं सुदृधं यथा ।
षोडशाङ्गुलमुत्सेधं (-थं) मूलन्तद्विगुणं भवेत् ॥ १३-
१४ ॥

ऊर्ध्वं त्रयङ्गुलन्नाहमानुपूर्वात् क्षयं भवेत् ।
मध्यमं द्वादशाङ्गुल्यमूर्ध्वं कुर्यात् द्वयाङ्गुलम् ॥
१३-१५ ॥

अष्टाङ्गुलाधमं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् ।
अस्त्रं पाशुपतन्न्यस्त्वा रूपन्तत्र विचिन्तयेत् ॥ १३-१६ ॥

त्रिणेत्रं चतुर्भुजं रौद्रं शिखाकोटिसमुज्वलम् ।
वरदाभयदं हस्तं वामं सव्याक्षशूलधृत् ॥ १३-१७ ॥

एवं पाशुपतं ध्यात्वा बलिलिङ्गेसु पूजयेत् ।
दर्शयेदस्त्रमुद्रान्तु शास्त्रमुद्रान्तु देशिकः ॥ १३-१८ ॥

नमस्काराब्जमुद्रे च दर्शयेत् तु विशेषतः ।
गन्धपुष्पादिनाभ्यर्च्य तद्रूपं प्रतिमां बुधः ॥ १३-१९ ॥

पुरस्तात् प्रतिमाङ्गच्छेदन्नादिकमनु व्रजेत् ।
दशायुधानि परितः सर्वालङ्कारसंयुतम् ॥ १३-२० ॥

विधिस्नानं पुराकृत्वा पुर्यष्टिपरिचारकाः ।
शुक्लोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ॥ १३-२१ ॥

पवित्रपाणिर्मौनी च हस्तमात्रेण दण्डधृत् ।
सर्वाभरणसंयुक्तः सर्वावयवसुन्दरः ॥ १३-२२ ॥

शिरसाधारयेल्लिङ्गं प्रदक्षिण विशेषतः ।
पूर्वाह्णे ब्रह्मणः प्रीतिर्भवेत् बलिविधानतः ॥ १३-२३ ॥

रक्तोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ।
मध्याह्ने धारयेन्नित्यं मम प्रीतिकरं भवेत् ॥ १३-२४ ॥

पीतोष्णी षोत्तरीयश्च विष्णु प्रीतिस्तु सायके ।
दक्षिणाभिमुखः शिष्यं सम्प्रोक्ष्य हृदयेन तु ॥ १३-२५ ॥

गन्धं पुष्पन्तथा दत्वा पात्रं शिरसिविन्यसेत् ।
रङ्गेवाशिबिकायां वा गजारूढमथापि वा ॥ १३-२६ ॥

अथवा पादगमनं प्रदक्षिणमथाचरेत् ।
पटहैर्मद्दलैश्चैव झल्लरी जयघण्टकैः ॥ १३-२७ ॥

काहलैस्तालकैः शङ्खैर्वीणावेणुरवैः सह ।
छत्रध्वजसमायुक्त पिञ्छचामरसंयुतम् ॥ १३-२८ ॥

धूपदीपसमायुक्तं वितानोपरिशोभितम् ।
नृत्तगीतसमोपेतं गणिकाभिरलङ्कृतम् ॥ १३-२९ ॥

अन्यैर्भक्तजनैः सार्धं स्तोत्रध्वनिसमन्वितम् ।
पूर्वे तु समहस्तं स्यात् भृङ्गिणी पततं परम् ॥ १३-३० ॥

तृतीयं कद्रुवाद्यञ्च चतुर्थन्तु च ढक्ककम् ।
पञ्चमं कयटञ्चैव कुञ्चितालञ्च षष्ठकम् ॥ १३-३१ ॥

सप्तमन्तु प्रहारं स्याद्विषमच्छिन्नचाष्टमम् ।
बाह्य पीठैकमावृत्य प्रासादाग्रप्रदक्षिणम् ॥ १३-३२ ॥

इन्द्रस्य शुभ्रतालन्तु अग्नेर्बाद्धावणं भवेत् ।
यमस्यद्व्यगुणीतालं नि-ऋतौमल्लतालकम् ॥ १३-३३ ॥

वारण्यान्नवतालन्तु वायोर्वैनागतालकम् ।
सोमस्य कोल्लिका प्रोक्ता ईशानस्य तु ढक्करी ॥ १३-३४ ॥

इत्येतैः कल्पितास्तालैः प्रासादं त्रिःप्रदक्षिणम् ।
कृत्वा पादौ सुसङ्क्षाल्यपादुकार्चनमारभेत् ॥ १३-३५ ॥

पाद्यैराचमनैरर्घ्यैर्गन्धैः पुष्पैः सुधूपकैः ।
बलिञ्च प्रथमञ्चैव पूजयेत् तु विशेषतः ॥ १३-३६ ॥

विदोलयं ततः पश्चाद्विन्यस्य पूर्वमण्डले ।
गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रवित् ॥ १३-३७ ॥

प्रागुक्तेनास्तमन्त्रेण शिव संयोजयेत् सुधीः ।
सम्पूज्य देवदेवेशं नमस्काराख्यमुद्रया ॥ १३-३८ ॥

सव्यापसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् ।
दण्डवत् प्रणमेद्वाथ दण्डाख्यमिति च स्मृतम् ॥ १३-३९ ॥

दण्डाख्यः श्रूयते पश्चादष्टाङ्गं सन्नियोजयेत् ।
शिरोजानू च कर्णौ च चिबुकं बाहुकद्वयम् ॥ १३-४० ॥

अष्टाङ्गेन नमस्कुर्यात् पञ्चाङ्गोप्यत्र तं शृणु ।
शिरोहस्तौ द्विजानू च कृत्वा पञ्चभुवि स्थितम् ॥ १३-४१ ॥

इदं पञ्चाङ्गमेवन्तु नमस्कारत्रयं स्मृतम् ।
अधमं ह्येतदाख्यातं यथा शक्त्येनकारयेत् ॥ १३-४२ ॥

ततोपहारपुष्पाणि चण्डेशायनि वेदयेत् ।
अन्नलिङ्गञ्जले वापि बाह्यपीठे विनिक्षिपेत् ॥ १३-४३ ॥

तदन्ते कारयेन्नृन्तं तदुक्तविधिनासह ।
तदुपाङ्गमिति प्रोक्तमर्चनान्ते तु नित्यशः ॥ १३-४४ ॥

चित्रालङ्कारसंयुक्ते मण्डपे समलङ्कृते ।
भेर्यादींस्तु तथा यान्ती * * *शिवसंस्थितान् ॥ १३-४५ ॥

नर्त्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितौ ।
गायकोवंशकश्चैव उत्तरे विनिवेशितम् ॥ १३-४६ ॥

आचार्यौ दक्षिणे देशे सौम्ये तस्याधिप स्मृतम् ।
सुस्नात्वा सम्यगाचम्य गन्धद्रव्यादिपूर्वकम् ॥ १३-४७ ॥

शुक्लवस्त्रपरिधानाः शुक्लमाल्योपशोभिता ।
सर्वाभरणसम्पूर्णा नृत्तगेयसुपेशला ॥ १३-४८ ॥

पूर्वासन्ध्यास्तु गान्धारं षाडपञ्च ततः परम् ।
मध्याह्ने नट्टरागं स्यात् कौशिकञ्च ततः परम् ॥ १३-४९ ॥

साये तु चेदकं प्रोक्तमर्धरात्रे तु पञ्चमम् ।
भरतोक्तं यथा नृत्तं सन्धिं प्रतिसुकारयेत् ॥ १३-५० ॥

एवं नृत्तं कृतं यत्र सुभिक्षं लोकशान्तिकम् ।
दुर्निमित्तानि नश्यन्ति क्षेत्रमारोधकं नृणाम् ॥ १३-५१ ॥

ककाराधि पतिश्चापि भोगमोक्षप्रादायकम् ।
कवाटबन्धनं कृत्वा स्वगृहं सन्निवेशयेत् ॥ १३-५२ ॥

एवं नित्योत्सवं प्रोक्तमुत्सवञ्च ततः शृणु ।

इति नित्योत्सवविधि पटलस्त्रयोदशः ॥ १३ ॥