०५ स्नान-पटलः

अथ स्नान-पटलः

अथातः सम्प्रवक्ष्यामि स्नानं पापहरं परम् ।
पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥ ५-१ ॥

स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।
वरुणं वारिणा स्नानम् आग्नें भस्मनाभवेत् ॥ ५-२ ॥

दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।
मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥ ५-३ ॥

वक्ष्ये वारुणमाग्नेयं शृणु तत्वं गजानन ।
नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥ ५-४ ॥

कूपस्नानं न कर्तव्यं वाप्यादिषु च सम्भवे ।
तटाकेष्वपिन स्नानं सरित्सत्याङ्गजानन ॥ ५-५ ॥

कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।
तस्माद् दशगुणं नद्यः समुद्रगामिकाः पराः ॥ ५-६ ॥

प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥ ५-७ ॥

तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।
तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥ ५-८ ॥

शिवगङ्गेति तां विद्याच्छिवधामाम्बु सेवनात् ।
तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥ ५-९ ॥

शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।
प्लक्षोदुम्बरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥ ५-१० ॥

मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।
रजनीकरणविष्ठैस्तु अङ्गप्रत्यङ्गघर्षणम् ॥ ५-११ ॥

मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः शृणु ।
मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥ ५-१२ ॥

सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।
तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥ ५-१३ ॥

हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।
हुम्फट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥ ५-१४ ॥

सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।
अघोरेण तु सम्प्पृश्य पुरुषेण त्रिभागिकम् ॥ ५-१५ ॥

पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।
ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥ ५-१६ ॥

अस्त्रम्ब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।
अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥ ५-१७ ॥

शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।
फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥ ५-१८ ॥

जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।
ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥ ५-१९ ॥

शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।
शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥ ५-२० ॥

उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।
तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥ ५-२१ ॥

ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा (-था) ।
अङ्गुष्ठमूलके ब्राह्मम् अग्निमङ्गुलमध्यमे ॥ ५-२२ ॥

तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।
अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥ ५-२३ ॥

अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।
अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥ ५-२४ ॥

अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।
पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥ ५-२५ ॥

चक्रवत्युपचारेण सुगन्धामलकादिभिः ।
जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥ ५-२६ ॥

शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।
पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥ ५-२७ ॥

अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।
दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥ ५-२८ ॥

मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।
अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥ ५-२९ ॥

ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।
ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥ ५-३० ॥

सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।
आपोहिष्ठेति सम्प्रोक्ष्य सावित्र्या चोदकङ्क्षिपेत् ॥ ५-३१ ॥

स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।
स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥ ५-३२ ॥

एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।
अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥ ५-३३ ॥

मित्रा सत्येनेमम्मेति सततं स ममन्त्रितः ।
एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥ ५-३४ ॥

देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।
तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥ ५-३५ ॥

अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।
वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥ ५-३६ ॥

तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।
रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥ ५-३७ ॥

सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।
प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥ ५-३८ ॥

जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।
तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥ ५-३९ ॥

एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।
ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥ ५-४० ॥

शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।
फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥ ५-४१ ॥

धौतवस्त्रन्तु सङ्ग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।
शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥ ५-४२ ॥

प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।
यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥ ५-४३ ॥

तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।
भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥ ५-४४ ॥

तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।
स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥ ५-४५ ॥

अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।
कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥ ५-४६ ॥

ततस्तु शोधनीं बद्ध्वा हुङ्कारेणविशोधयेत् ।
जलस्नानमिदं प्रोक्तं भस्मस्नानमथो शृणु ॥ ५-४७ ॥

इति स्नान-पटलः पञ्चमः ॥ ५ ॥