अथ तन्त्रावतारविधि-पटलः
अथातः सम्प्रवक्ष्यामि तन्त्राणामुद्भवं परम् ।
तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् ॥ २-१ ॥
त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।
कामिकं योगजं चिन्त्यं कारणमजितं तथा ॥ २-२ ॥
दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् ।
विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् ॥ २-३ ॥
वीरं च रौरवञ्चैव मकुटं विमलं तथा ।
चन्द्रज्ञानञ्च बिम्बञ्च प्रोत्गीतं ललितं तथा ॥ २-४ ॥
सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च ।
किरणं वातुलञ्चैव अष्टाविंशति संहिताम् ॥ २-५ ॥
वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः ।
ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः ॥ २-६ ॥
सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये ।
कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया ॥ २-७ ॥
प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः ।
त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् ॥ २-८ ॥
नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् ।
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ॥ २-९ ॥
सुधाख्याद्भस्म सम्प्राप्तस्ततः प्राप्तो विभुः क्रमात् ।
वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च ॥ २-१० ॥
आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः ।
चिन्त्यं सूदीप्त सञ्ज्ञस्य प्रोक्तं शतसहस्रकैः ॥ २-११ ॥
दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका ।
सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् ॥ २-१२ ॥
अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् ।
कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् ॥ २-१३ ॥
कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः ।
कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता ॥ २-१४ ॥
ततस्तु मारणत्वेषां सप्तधाकारणं तथा ।
अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया ॥ २-१५ ॥
सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः ।
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ॥ २-१६ ॥
चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् ।
दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया ॥ २-१७ ॥
ईशात् त्रिमूर्तिः सम्प्राप्ताः ततः प्राप्तो हुताशनः ।
अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् ॥ २-१८ ॥
आनन्दं माधवोद्भूतम् अत्भुतञ्चमृतं तथा ।
दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् ॥ २-१९ ॥
सूक्ष्मं सूक्ष्मस्य सम्प्रोक्तं तत् ग्रन्धं
पद्मसङ्ख्यया ।
कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा ॥ २-२० ॥
अतीतममलं शुद्धमप्रमेयं तु जातुभाक् ।
वु?बुधं विबुधं हस्तमलङ्कारं सुबोधकम् ॥ २-२१ ॥
एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः ।
अम्शुमानम्बु सञ्ज्ञस्य पञ्चलक्षेण कीर्तितम् ॥ २-२२ ॥
अग्रश्चैवाम्बुसञ्ज्ञाच्च अग्रान् प्राप्तस्ततो रविः ।
विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् ॥ २-२३ ॥
प्रकरणं भूततन्त्रमात्मालङ्कारमेव च ।
काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥ २-२४
॥
ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् ।
सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् ॥ २-२५ ॥
विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् ।
त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते ॥ २-२६ ॥
क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते ।
इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् ॥ २-२७ ॥
शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते ।
रुद्रस्यानादिसञ्ज्ञस्य विजयं तन्त्रमुत्तमम् ॥ २-२८ ॥
परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया ।
विजयं चोद्भवं सौम्यम् अघोरं मृत्युनाशनम् ॥ २-२९ ॥
कुबेरेशं महाघोरं विमलं विजयाष्टकम् ।
निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया ॥ २-३० ॥
दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः ।
निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् ॥ २-३१ ॥
निश्वासनयनञ्चैव तथा निश्वासकारिका ।
घोरसञ्ज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा ॥ २-३२ ॥
निधनस्य स्वयम्भूतं त्रिकोट्यर्द्धेन कीर्तितम् ।
निधने शात् स्वयम्भुतं श्रुतवान्नपि चोद्भवः ॥ २-३३ ॥
प्रजापतिमतं पद्मं स्वायम्भुवमिति त्रिधा ।
आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् ॥ २-३४ ॥
आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः ।
आग्नेयमेकमेवन्तु आग्नेयां नादमेव च ॥ २-३५ ॥
तेजसो वीरसम्प्रोक्तं नियुतग्रन्धसङ्ख्यया ।
प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः ॥ २-३६ ॥
प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् ।
अमोहं मोहसमयं शकटंशाकटायिकम् ॥ २-३७ ॥
हलं विलोखरं भद्रं वीरं वीरे त्रयोदश ।
रौरवं ब्रह्मणेशस्य अम्बुजाष्टकसङ्ख्यया ॥ २-३८ ॥
नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते ।
कालदाहं कलातीतं रौरवं रौरवोत्तरम् ॥ २-३९ ॥
महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् ।
मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥ २-४० ॥
महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् ।
मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते ॥ २-४१ ॥
सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया ।
वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च ॥ २-४२ ॥
अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् ।
प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा ॥ २-४३ ॥
आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।
अजितं मारणं तन्त्रं विमलं षोडशैव तु ॥ २-४४ ॥
चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया ।
बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश ॥ २-४५ ॥
स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् ।
एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् ॥ २-४६ ॥
श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् ।
शिवशेखरमाख्यातं देव्यामतन्तथैव च ॥ २-४७ ॥
चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् ।
मुखबिम्बं प्रशान्तस्य शतसाहस्र सङ्ख्यया ॥ २-४८ ॥
दधीचिर्मुनि सम्प्राप्तो भेदः पञ्चदशैव तु ।
चतुर्मुखमहायोगं संस्तोभं प्रतिबिम्बकम् ॥ २-४९ ॥
अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् ।
प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् ॥ २-५० ॥
महाविद्या महासौरं बिम्बं पञ्चदशैव तु ।
प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥ २-५१ ॥
कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि ।
कवचञ्चैव वाराहं पिङ्गलामतमेव च ॥ २-५२ ॥
पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् ।
शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च ॥ २-५३ ॥
आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् ।
गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै ॥ २-५४ ॥
ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् ।
आलयाल्ललितं प्राप्तो ललितं ललितोदरम् ॥ २-५५ ॥
कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् ।
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया ॥ २-५६ ॥
बिन्दुसञ्ज्ञाच्च सम्बन्धः प्राप्तश्चण्डेश्वरोपरः ।
सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च ॥ २-५७ ॥
शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् ।
सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु सङ्ङ्ख्यया ॥ २-५८ ॥
शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् ।
लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् ॥ २-
५९ ॥
असङ्ख्यमनिलं द्वन्द्वं सन्तानं सप्तधोदितम् ।
सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥ २-६० ॥
नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् ।
शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च ॥ २-६१ ॥
दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते ।
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥ २-६२ ॥
ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् ।
उशनामुनि सम्प्राप्त श्रीदेव्याश्च यथा क्रमम् ॥ २-६३ ॥
मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च ।
पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि ॥ २-६४ ॥
किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया ।
संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु ॥ २-६५ ॥
गारुडन्नै-ऋतन्निलं रुत्विम्भानुक धेनुकम् ।
प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा ॥ २-६६ ॥
शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् ।
महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् ॥ २-६७ ॥
वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् ।
सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् ॥
२-६८ ॥
विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् ।
अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः ॥ २-६९ ॥
कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च ।
चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च ॥ २-७० ॥
अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् ।
सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् ॥ २-७१ ॥
अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् ।
विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् ॥ २-७२ ॥
स्वायम्भुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।
वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च ॥ २-७३ ॥
मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् ॥ २-७४ ॥
बिम्ब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसञ्ज्ञितम् ।
ललितं कपोलतलं सिद्धञ्चैव ललाटकम् ॥ २-७५ ॥
सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् ।
पारमेश्वरहारञ्च किरणं रत्नभूषितम् ॥ २-७६ ॥
वातुलं परमेशस्य वायुस्तद्विशङ्केन तु ।
कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् ॥ २-७७ ॥
ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् ।
तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा ॥ २-७८ ॥
एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः ।
शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः ॥ २-७९ ॥
चिन्तामणिरिवाभाति एक या बहुधादिशेत् ।
यट्र्य?व्येकोभवेद्वक्ता श्रोतारोबहवो यथा ॥ २-८० ॥
येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।
तस्मिन् तन्त्रे प्रकर्तव्यम् अन्य तन्त्रं न कारयेत् ॥ २-८१ ॥
कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः ।
तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ शृणु ॥ २-८२ ॥
तन्त्रावतार द्वितीय-पटलः ॥ २ ॥