अथ वक्ष्ये विशेषेण करणानां तु लक्षणम् ।
कार्यं कर्तृना शक्यं स्यात् सर्वाधकरणैर्विन ॥ १ ॥
तस्माल्लक्षणसंयुक्तं कर्तव्यं करणास्तथा ।
कुण्डानां लक्षणं चैव ततः सृक्सृवयोस्तथा ॥ २ ॥
लक्षणं होमपात्राणां परिधिनां तथैव च ।
परिस्तरणदर्भानां समिधानां च लक्षणम् ॥ ३ ॥
आहुतिनां प्रमाणं च ततः स्नानोदकस्य च ।
पाद्यमाचमनीयं च अर्घ्यं चापि विशेषतः ॥ ४ ॥
गन्धपुष्पं च धूपं च दीपं चापि यथाविधिः ।
वितानलक्षणं चैव प्रच्छिन्नपटलक्षणः ॥ ५ ॥
धूपमानमहाघण्ट धूपपात्रस्य लक्षणम् ।
द्विविधं तु विधानं स्याद् बाह्यमाभ्यन्तरं तथा ॥ ६ ॥
पादप्रमाणं सर्वेषां कलशानां तु लक्षणम् ।
ध्वजदण्डप्रमाणं च बलिदानस्य लक्षणम् ॥ ७ ॥
एतां लक्षणतो वक्ष्य यथाशास्त्र विनिश्चितैः ।
पूर्वाग्रं मुत्तराग्रं च कुर्यात् सूत्रत्रयं पुनः ॥ ८ ॥
प्। ३०३)
चतुरश्रकृते क्षेत्रे कुर्यात् कुण्डानि लक्षणैः ।
कर्णसूत्रं चतुर्भागं कृत्वैकेन तु वर्तयेत् ॥ ९ ॥
क्षेत्रार्धावाधिकं चावत् पार्श्वयोरुभयोरपि ।
कर्णसूत्रस्य सप्तांशं पूर्वया दिशि विन्यसेत् ॥ १० ॥
पार्श्वे सूत्रद्वयं न्यासात्कुण्डं योन्याकृतिर्भवेत् ।
चत्वारिश्रिकृते क्षेत्रे मध्यात् कर्ण विगृह्य च ॥ ११ ॥
ततो विसृज्य क्षेत्रेर्धं शेषं कुर्यात् त्रिभागिकम् ।
भागेनैकेन संयुक्तं क्षेत्रार्धेन तु योजयेत् ॥ १२ ॥
वर्त्तयेत् तेन सूत्रेण वर्तुलं कुण्डमुच्यते ।
चतुरश्रं तु कर्णेन कृत्वा तत्रैव पूर्ववत् ॥ १३ ॥
वर्तितं वर्तुलं कुण्डं तत्रार्धं धनुरुच्यते ।
क्षेत्रस्यार्धार्धमानेन सहैकाशितिभागिकम् ॥ १४ ॥
सूत्रसूत्रमनेनैव त्रिकोणस्यात् त्रिभागिकम् ।
क्षेत्रं तु सप्तधा कृत्वा भागमेकं बहिर्न्न्यसेत् ॥ १५ ॥
तस्मान् मध्यं गृहित्वा तु भ्राम्य वृत्ते तथैव च ।
कर्णार्धाष्टांशसंयुक्तं कर्णार्धं यद् भवेदिह ॥ १६ ॥
सूत्रं तत्र भवेदेतत्पञ्चाग्रे तु भुजा भवेत् ।
प्रागादि पञ्चसूत्रेण पञ्चाश्रं कारयेद् बुधः ॥ १७ ॥
दशभागं तथा क्षेत्रं कृत्वैकं बाह्यतो न्यसेत् ।
सूत्रेण मध्यमात् तस्माद्वृत्तं कृत्वा ततो बुधः ॥ १८ ॥
प्। ३०४)
क्षेत्रे षोडशभागैकं क्षेत्रार्द्धेन तु योजयेत् ।
एवं सूत्रं ततः कृत्वा सप्ताश्रे तु भुजा भवेत् ॥ १९ ॥
प्रागादि सप्तसूत्रेण सप्ताश्रं भवति स्फुटम् ।
पद्मपद्मसमं वृत्ते कर्णिकादलसंयुतम् ॥ २० ॥
एवं समासतः प्रोक्तं कुण्डानां लक्षणं परम् ।
वैकङ्कतमयो वाथ खादिरो वा स्रुक् स्रुवः ॥ २१ ॥
अथवा याज्ञिकैः वृक्षै कर्तव्यो सृक्सृवो बुधः ।
पालाश खदिराश्वत्थ प्लक्षादुम्बरचन्दनैः ॥ २२ ॥
वैकङ्कतशमि बिल्वा यज्ञवृक्षो इमे नव ।
द्विधा कृत्वा ततो भागैः सूत्रेण सुमितन्नया ॥ २३ ॥
चतुरश्रं ततः कृत्वा कुर्याल्लक्षण मे बुधः ।
अरत्निमात्रमायामं तत्पश्वे तु बलिं भवेत् ॥ २४ ॥
षडङ्गुलं परिणाहं दण्डमूले विधिय्यते ।
तदर्धं कण्ठनाहं स्यात् पुष्पकरं मूलवद्भवेत् ॥ २५ ॥
गोपालसदृशं गन्धमग्रं नासिकयासमम् ।
पुटद्वयसमायुक्तं कर्षशेज्यनपूरितम् ॥ २६ ॥
सृवस्य लक्षणं प्रोक्तं स्रुकलक्षणमुच्यते ।
षट्त्रिंशदङ्गुलायामे मष्टाङ्गुलसुविस्तृतः ॥ २७ ॥
उत्सेधं तु तदर्धं स्यात् सूत्रेण सुमितं ततः ।
सप्ताङ्गुलभवेदास्यं विस्ताराय मयोपि हि ॥ २८ ॥
प्। ३०५)
त्रिभागैकं द्वभागे व्यहस्तारायामधोपि हि ।
ग्रिभागैकं भवेदग्रं कृत्वा शेषं परित्यजेत् ॥ २९ ॥
कर्णद्वयङ्गुलायामं विस्तारं चतुरङ्गुलम् ।
वेदिकाष्टाङ्गुलायामा विस्तारं तत्प्रमाणतः ॥ ३० ॥
तस्य मध्ये बलं कुर्याच्चतुरङ्गुलमानतः ।
बिलं सुवृत्तितं कुर्याद् अष्टपत्रं सकर्णिकम् ॥ ३१ ॥
परितो बलिबाह्ये तु पट्टिकार्धाङ्गुलेन तु ।
तद्बाह्ये यवनिम्नं तु पद्मपत्रं विचित्रितम् ॥ ३२ ॥
यवद्वयप्रमाणेन तद्बाह्ये पट्टिका भवेत् ।
वेदिका मध्यतो रन्ध्रं कनिष्टाङ्गुलमानतः ॥ ३३ ॥
खान्तं यव घुखान्तस्याद् बलिमानं तु निम्नकम् ।
दण्डं षडङ्गुलं नाहं दण्डाग्रे दण्डिकात्रयम् ॥ ३४ ॥
अर्धाङ्गुले विवृध्या तु कर्तव्यं चतुरङ्गुलम् ।
त्रयोदशाङ्गुलायामं दण्डमूले घटो भवेत् ॥ ३५ ॥
द्व्यङ्गुलं भवेत् कुम्भं नाहं विद्यादशाङ्गुलम् ।
वेदिमध्ये तया कुम्भे पात्रलक्षणमुच्यते ॥ ३६ ॥
सहस्र साधार विध्यक्ष्ये शृणुध्वं तत्प्रभञ्जन ।
नित्ये नैमित्यके काम्ये स्नानान्ते तु महेश्वरम् ॥ ३७ ॥
सहस्रधारये स्नानं श्रीसौभाग्यप्रवध्रुवम् ।
उत्तमोत्तमधारेषा परात्परमशक्ति सा ॥ ३८ ॥
प्। ३०६)
सहस्रवदने स्राव्य सञ्चित्य मृतरूपिणि ।
ततः पात्र समादाय तल्लक्षणमिहोच्यते ॥ ३९ ॥
सप्ताङ्गुलसमारभ्य द्वि द्व्यङ्गुलविवर्ध्यतः ।
सप्तविंशाङ्गुलं यावत् पास्त्रविस्तारमुच्यते ॥ ४० ॥
त्रियङ्गुलसमं वापि पञ्चाङ्गुलघृतं तु वा ।
विस्तारपरितो मृत्याः पादाङ्गुलघनं भवेत् ॥ ४१ ॥
चतुर्वलययुक्तं वा द्विपार्श्वं वलयान्वितम् ।
आयाशृङ्खलयायुक्तं वातरज्जुसमन्वितम् ॥ ४२ ॥
स्वर्णं वा रजतं वाधाताम्रजं च त्रिधा भवेत् ।
उत्तमादि क्रमेणैव कारयेत् तत् तत्प्रभञ्जन ॥ ४३ ॥
ब्रह्मक्षत्रियवैश्यानां स्वर्णादिषु विधीयते ।
भूपतिनां विशेषेण स्वर्णं वा रजतं मतम् ॥ ४४ ॥
अशक्तस्ताम्ब्रमेवं तु कल्पयेत् कल्पवित्तमः ।
तत्पात्रं चतुरश्रं वा सुवृत्तं वा प्रकल्पयेत् ॥ ४५ ॥
त्रयश्रं वा प्रकर्तव्यं पञ्चविंशत् पदं ततः ।
वृत्तं चेतु विशेषेण सर्वकामार्थ साधनम् ॥ ४६ ॥
आयुष्करं पुष्टिकरं श्रिकरं चतुरश्रकम् ।
पात्रमध्ये विशेषेण पद्मं साष्टाकसङ्कर्णिकम् ॥ ४७ ॥
अङ्गुलाङ्गुलवृध्या तु त्रयङ्गुलसमाविधि ।
पद्मावृतसमायुक्तं रत्नं काञ्चितमाचरेत् ॥ ४८ ॥
प्। ३०७)
माणिक्कं मध्यमे न्यस्य परिमुक्तं दृढं मतम् ।
तद्बाह्ये सुषिरं कल्प्या सूचिमात्रप्रमाणतः ॥ ४९ ॥
यवमात्रप्रमाणं वा मष्टमात्रमथापि वा ।
त्रयोदशाप्रणार्थाय भ्रामयो मनुसूत्रकम् ॥ ५० ॥
पूर्वभागे तु वज्रं स्यान्माग्नेयां मुक्तकं दृढम् ।
दक्षिणे पुष्यरागं च निरुतौ चन्द्रनिलकम् ॥ ५१ ॥
वारुणे स्पुटिं चैव वैडुर्यं चैव वाथवे ।
सौम्ये मस्तकं चैव ऐशान्ये निलमेव च ॥ ५२ ॥
तदायुक्ता सुमुक्तं वा स्वर्णं वा दृढमुत्तमम् ।
त्रयोदशावरणानि रन्ध्रसङ्ख्यां ततः शृणु ॥ ५३ ॥
प्रथमे चाष्टरन्ध्रानि वसुदैवाधि दैवतम् ।
द्वितीये च कलारन्ध्रे कलानमधिदेवता ॥ ५४ ॥
तृतीये च चतुर्विंशत् सर्पराजाधिदेवतम् ।
चतुर्थे द्वात्रिंशरन्ध्रान्महागङ्गाधिदैवतम् ॥ ५५ ॥
पञ्चमावरणे चैव पञ्चाशद्रन्ध्रमाधिकम् ।
यमुनामाधिदैवत्यं सर्वरन्ध्र पूजयेत् ॥ ५६ ॥
षष्ठमावरणे चैव पञ्चाशच्चतुरंशकम् ।
गोदावरि सदैवत्यं सर्वरन्ध्रेषु योग्यताः ॥ ५७ ॥
रन्ध्राणामधिदैवत्यं सन्धिरे वा विधीयते ।
सप्तमावरणे चैव रन्ध्रं षष्टितमं भवेत् ॥ ५८ ॥
प्। ३०८)
सरस्वत्याधिदैवत्यं रन्ध्रेषु क्रमतोऽर्चयेत् ।
अष्टमावरणे चैव युग्माधिकमशितिकम् ॥ ५९ ॥
नामदाधिकदैवत्यं पूजयेत् सुषिरं वृतः ।
नवमावरणे चैव रन्ध्रं षण्णवति स्मृतम् ॥ ६० ॥
सिद्धिं स्यात्यधिदैवत्यं सर्वरन्ध्रेषु योग्यतः ।
दशमावरणे चैव शतरन्ध्रसमन्वितम् ॥ ६१ ॥
कावेरित्यधिदैवत्यं सुषिरे योजयेत् क्रमात् ।
पश्चादावरणं चेत्तु युगाधिकशतं भवेत् ॥ ६२ ॥
पुण्यतीर्थादि दैवत्यं सर्वरध्राणि योजयेत् ।
सर्वरन्ध्राणि कर्तव्यं विन्यसेत् तु विचक्षणः ॥ ६३ ॥
द्वादशवरणे चैव अष्टोत्तरशतं भवेत् ।
इच्छाशक्त्याधि दैवत्यं सर्वरन्ध्रं विशेषतः ॥ ६४ ॥
त्रयोदशवृणं प्रोक्तं षष्टाधिकशतद्वयम् ।
ज्ञानशक्त्याधिदैवत्यं सर्वरन्ध्रसमन्वितम् ॥ ६५ ॥
एवं रन्ध्रसमाख्यातं मत्राङ्गुलवशान्नयेत् ।
चतुरश्रस्य मध्ये तु सप्तसप्तपदं भवेत् ॥ ६६ ॥
मध्यकोष्ठे तु पद्मं स्यान्माणिक्कं चैव मौक्तिकम् ।
वैज्रनिलं चैव वैडूर्यं मरतकं पुष्यरागकम् ॥ ६७ ॥
स्फटिकं प्रवालमेव तु मध्यादीशान्तमेव च ।
सुषिरं पञ्चविंशच्च पदमेकं प्रकल्पयेत् ॥ ६८ ॥
प्। ३०९)
एवमेव पदान्तानि पदं पत्रिपदं प्रति ।
सहस्रधारया युक्ता पराशक्त्याधि दैवतम् ॥ ६९ ॥
चतुश्रीखलयायुक्तं डोलयन्त्रं प्रकल्पयेत् ।
अथवान्य प्रकारेण शृणुध्वं तत्प्रभञ्जन ॥ ७० ॥
तत्पात्रं त्रिविधं प्रोक्तं मधमादित्रयं तथा ।
द्वादशाङ्गुलमेवं तु उत्तमं परिकीर्त्तितम् ॥ ७१ ॥
सप्ताङ्गुलसुविस्तारं मध्यमं परिकीर्त्तितम् ।
त्रियङ्गुलसुविस्तारं मधमं परिकीर्त्तितम् ॥ ७२ ॥
एवं पात्रसुविस्तारं भित्तिरुसेधमुच्यते ।
एकाङ्गुलसमुत्सेधम् उत्तमं परिकीर्तितम् ॥ ७३ ॥
अर्धाङ्गुलसमुत्सेधं मध्यमं तत्प्रकीर्त्तितम् ।
पादाङ्गुलसमुत्सेधं मध्यमं त्वधि विद्यते ॥ ७४ ॥
यवद्वयसमुत्सेधम् एवमेव क्रमेण तु ।
यवमात्रघनं प्रोक्तं क्रमेणैव सुबुद्धीमान् ॥ ७५ ॥
पाणिभ्यां पत्रमादाय लिङ्गमूर्ध्याभिषेचयेत् ।
स्वर्णरजतताम्रे वा चतुरश्रं वा वृत्तकम् ॥ ७६ ॥
चतुरश्रं नवा कोष्ठे मध्ये सुषिरमेवयुक् ।
आवृत्तं चाष्टसुषिरं पदमेकं प्रयत्नतः ॥ ७७ ॥
पदबाह्ये सूत्रमध्ये महाशासु विशेषतः ।
सूचिमात्रप्रमाणेन श्रुतिरन्ध्रं प्रकल्पयेत् ॥ ७८ ॥
प्। ३१०)
अन्यानि पदमध्येषु द्वादशा सुषिरं कुरु ।
अष्टोत्तरशतं प्रोक्तं पञ्चाशश्चैक हीनके ॥ ७९ ॥
तत्पात्रे नवकोषं तु मध्यकोष्ठं तु मध्यमम् ।
अवृतं चाष्टसुषिरं तद्बाह्ये तु विशेषतः ॥ ८० ॥
एकैक पदमध्ये तु शरसङ्ख्या च रन्ध्रकम् ।
पञ्चाशरन्ध्रमेवोक्तं पञ्चविंशति चोच्यते ॥ ८१ ॥
तत्पत्रं नवकोष्ठेषु मध्ये सुषिरमेवयुक् ।
अन्यानि पदमध्ये तु ईशदृक्सुषिरं कुरु ॥ ८२ ॥
चतुरश्रमि * प्रोक्तं सुवृत्तमथ चोच्यते ।
पूर्ववत्पात्रमेवं तु सष्टपत्रसकर्णकम् ॥ ८३ ॥
कर्णिकामध्यमेवं तु पूर्वादिवसुरन्ध्रकम् ।
तद्बाह्ये दलमध्ये तु * * * * * रं कुरु ॥ ८४ ॥
तद्बाह्ये वृत्तमेवं तु महाशासु युगं भवेत् ।
एवं सुषिरमाख्यातम् अष्टोत्तरशतं क्रमात् ॥ ८५ ॥
पञ्चाशत् पञ्चविंशश्च पूर्ववत्परिकल्पयेत् ।
क्षुद्रम * मिदं प्रोक्तं मात्मार्थं चे परार्थकम् ॥ ८६ ॥
परार्थे भद्रमेवं तु आत्मार्थं न विचारतः ।
मोदहदज्ञानतो वापि भद्रपात्रोभिषेचयेत् ॥ ८७ ॥
आयुश्रीकीर्ति * ष्टिञ्च कृष्णपक्षे तु च द्रवित् ।
तत्पात्रं शङ्खतोयेन पूजयेन्मूलमन्त्रतः ॥ ८८ ॥
प्। ३११)
एवमेव क्रमेणैव सहस्रार्धाभिषेचनम् ॥ ८८� ॥
इति सूक्ष्मशास्त्रे सहस्रधारविधिं नाम अष्टपञ्चाशत् पटलः ॥ ५८ ॥