अथातः सम्प्रवक्ष्यामि राजरक्षविधिं परम् ।
विवृतं संवृतं चैव द्विविधं तत् प्रकीर्तितम् ॥ १ ॥
विवृतं भस्मसंयुक्तं संवृतं रोचनादिकम् ।
मासक्षे जन्मनक्षेत्रे षडाशितिमुखेऽपि च ॥ २ ॥
अयने चन्द्रसूर्यस्य ग्रहणे कुलकालके ।
षष्टाष्टद्वादशे मासि शूलनक्षत्रकेऽपि च ॥ ३ ॥
प्। २९१)
युद्धारम्भवसाने च भूतरोगाद्यसम्भवे ।
पूजयेन्नृपरक्षार्थम्मनेन विधिना बुधः ॥ ४ ॥
कर्मारम्भदिनात्पूर्वे नवमे सप्तमेऽध वा ।
शिवरामाध्यविधिवद्दर्चयेत् कृष्णचगाम् ॥ ५ ॥
गोमयं सद्यमन्त्रेण भमावपतितं ग्रहेत् ।
स देवि शिखा बिल्वि पञ्चाङ्गेन समन्वितम् ॥ ६ ॥
वामदेवेनमन्त्रेण पिण्डं कृत्वा विचक्षणः ।
शोषणं बहुरूपेण पुरुषेणैव पाचनम् ॥ ७ ॥
ईशानं ग्राहयेद्धीमान् कलार्णैरभिमन्त्रयेत् ।
मृत्पात्रे ताम्रपात्रे वा निक्षिपेद् धृदयेन तु ॥ ८ ॥
मुखं वस्त्रेण संवेष्ट्य गन्धपुष्पसमन्वितम् ।
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुतम् ॥ ९ ॥
शिखाग्रे स्थापयेद् विद्वान्नधिवासनपूर्वकम् ।
पूजयेद् गन्धपुष्पाद्यै मूलेनैवा विचक्षणः ॥ १० ॥
ततो मण्डपमासाद्य वितानाद्यैर्विचित्रितम् ।
विसृतं नन्दधा भज्य मध्ये व्योमपदं गृहेत् ॥ ११ ॥
पदेकेन चतुर्दिक्षु शिवभद्रसमन्वितम् ।
मुष्टिमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ १२ ॥
दिशिभद्रोन्नतं विधि तच्चतुर्भागहीनकम् ।
उपवेदिप्रकर्तव्यं तच्चतुर्भागभागया ॥ १३ ॥
प्। २९२)
नवाग्नि वाथ पञ्चाग्निमेकाग्नि वाथ कारयेत् ।
कुण्डानि कल्पयेत् तत्र पूर्वोक्त विधिना बुधः ॥ १४ ॥
गोमयालेपनं कृत्वा शालिभिश्च विचित्रयेत् ।
पुण्याहं वाचयेत् द्धीमान् पञ्चगव्यसमन्वितम् ॥ १५ ॥
प्रोक्षयेत् पुरुषेणैव पावमानमुदिरयत् ।
शालिभिश्च वसुद्रोणैः स्थलिकं कारयेद्बुधः ॥ १६ ॥
तदर्द्धैस्तण्डुलैभुक्ष्य तदर्धैश्च तिलैरपि ।
लाजैः पुष्पै परिस्तिर्य पञ्चवर्णेन पूरयेत् ॥ १७ ॥
वस्त्रैरावेष्ट्य तद्वेदि नानालङ्कारसंयुतम् ।
तन्मध्येऽब्ज प्रकर्तव्यं दलाष्टकसमन्वितम् ॥ १८ ॥
नवकुम्भान् समादाय क्षालयेदस्त्रमन्त्रतः ।
तन्तुना वेषये सर्वागवङ्क्ष सदृशान्नरम् ॥ १९ ॥
मण्डपस्यैशदिग्भागे सपायेत् तन्नधोमुखान् ।
तोरणकलशानस्त्रान् दिक्पतीश्च यथाक्रमम् ॥ २० ॥
पूजयेद् गन्धपुष्पाद्यै तत् तन् मन्त्रेण देशिकः ।
ततः सम्पूज्य गन्धाद्यैः र्वेदिकोर्ध्वे शिवासनम् ॥ २१ ॥
भृंशे सत्येन्तरिक्षे वा समर्यकपदेपि वा ।
द्वादशाङ्गुलमानेन मण्डलं स्वस्तिकान्वितम् ॥ २२ ॥
सितरक्तयुधं वाथ पीतरक्तयुतं तु वा ।
युगलिङ्गसमायुक्तं स्वस्तिकसम्प्रकलपयेत् ॥ २३ ॥
प्। २९३)
अस्त्रमन्त्रसमुच्चार्य प्रोक्षयेदस्त्रवारिणा ।
स्तण्डिलं तत्र कर्तव्यं विमलैः शालितण्डुलैः ॥ २४ ॥
सौवर्णं रजितं वापि ताम्रं वा कास्यमेव च ।
स्थलिकायान्यसेत् तत्र शालिपिष्टैः विचक्षणः ॥ २५ ॥
द्वादशाङ्गुलमानेन वृषभं शयनान्वितम् ।
सर्वावयवसम्पूर्णं कल्पयेत् कल्पवित्तमः ॥ २६ ॥
पञ्चवर्णेरलङ्कृत्य सर्वाभरणभूषितम् ।
खरश्रीङ्गास्य कर्णौ च वृषणं द्वातिरिक्तकम् ॥ २७ ॥
श्रिङ्गाग्र वाल पादान्तं पीतवर्णेन भूषितम् ।
भ्रुवौ तन्मान रेखाणां कृष्णवर्णेमिति स्मृतम् ॥ २८ ॥
श्यामैश्च्छिवासनं कल्प्य शेषाङ्गशुक्लवर्णकम् ।
सर्वपुष्पैरलङ्कृत्य धूपदीपसमन्वितम् ॥ २९ ॥
दत्वा पाद्यादिकादीश्च तन्मूलेन विचक्षणः ।
आचार्यादाय वृषभं शङ्खध्वनिसमन्वितम् ॥ ३० ॥
पूर्वास्यमुत्तरास्यं वा स्थापयेद् वेदिमध्यमे ।
दूर्वाग्रमष्टसाहस्राधवलाक्षतसंयुतम् ॥ ३१ ॥
वृषभेन समभ्यर्च्य पापभक्षणमन्त्रतः ।
हविं निवेदयित्वाथ मुद्गभिन्नसमन्वितम् ॥ ३२ ॥
पानियाचमनं दत्वा दूपदीपं ददेद्बुधः ।
ततो देवालयं दत्वा गीतवाद्यसमन्वितम् ॥ ३३ ॥
प्। २९४)
भस्मकुम्भसमादाय पूर्वभद्रे तु विन्यसेत् ।
नवकदक्षिणे भद्रे स्थापयेत् पूर्ववन्मन ॥ ३४ ॥
पश्चिमे दशपुष्पं च निराञ्जनमधोत्तरे ।
विन्यसेद् गन्धपुष्पाद्यैः हृदयेन विचक्षणः ॥ ३५ ॥
जप्त्वा राक्षोघ्नकं मन्त्रं कृणुस्वादि जपं कुरु ।
धूपदीपैः समभ्यर्च्य शुद्धान्नं च निवेदयेत् ॥ ३६ ॥
कुण्डान्तिकं ततो गत्वा ततः संस्कारमारभेत् ।
आयनादि विवाहान्तं पूर्वोक्तविधिना कुरु ॥ ३७ ॥
तन्मध्ये देवदेवेशं पञ्चवक्रसमन्वितम् ।
डाडिमिपुष्पसङ्काशं दशदोभिस्समन्वितम् ॥ ३८ ॥
पीतवस्त्रपरिधानं पीतमाल्यानुलेपनम् ।
वज्रादिशूलटङ्कं च अभयं दक्षिणे धृतम् ॥ ३९ ॥
फणिन्द्रवरदापाशन्यङ्कुशं वामभागके ।
मनोन्मन्यासमायुक्तं पञ्चावरणसंयुतम् ॥ ४० ॥
पूजयेद् गन्धपुष्पाद्यैः तत् तन्मन्त्रेण देशिकः ।
इन्धनादाज्यसमिधं सूपं दधि यवं मधु ॥ ४१ ॥
तिललाजगुलं मुद्गं सत्तुं सिद्धाद्धकं फलम् ।
सिताम्रपञ्चदूर्वाग्रं होमद्रव्यं दशाष्टधम् ॥ ४२ ॥
मृत्युञ्जयार्धमन्त्रेण सर्वद्रव्यं क्रमाधुनेत् ।
प्रत्येकं शतमर्धं वा तदर्धं वा हुतं चरेत् ॥ ४३ ॥
प्। २९५)
द्रव्यान्ते व्याहृतिं हुत्वा भस्मकुम्भं स्पृशेत् तथा ।
गन्धपुष्पैसमभ्यर्च्य धूपदीपं ददेद् गुरु ॥ ४४ ॥
एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् ।
वितानवन्निमभ्यर्च्य सर्वद्रव्यै हुतं चरेत् ॥ ४५ ॥
ततः स्विष्टाहुतिं हुत्वा पूर्णाहुतिमथाचरेत् ।
गन्धपुष्पैः समभ्यर्च्य विसृजैदग्निदैवतम् ॥ ४६ ॥
भस्मकुम्भं समादाया सर्वलङ्कारसंयुतम् ।
वेदध्वनिसमायुक्तं स्तोत्रध्वनि समन्वितम् ॥ ४७ ॥
गीतवाद्यसमायुक्तं कृत्वा धामप्रदक्षिणम् ।
शिवाग्रे मण्डलं कृत्वा सर्वालङ्कारसंयुतम् ॥ ४८ ॥
सकलं मद्धमे स्थाप्य भस्मपूर्वे तु विन्यसेत् ।
नवकं दक्षिणे स्थाप्य नीराजनमथोत्तरे ॥ ४९ ॥
पश्चिमे दशपुष्पाणि विन्यसेद् देशिकोत्तमः ।
गणेशं पूजयेत् पाश्चाद् द्वारदेवान् समर्चयेत् ॥ ५० ॥
लिङ्गशुद्धि ततः कृत्वा पञ्चगव्यामृतैरपि ।
अर्चयेदीपदानान्तं तन्मत्रेण विचक्षणः ॥ ५१ ॥
नवके स्नापयेद् देवं मूलमन्त्रमनुस्मरन् ।
मन्त्रपुष्पं ततो दत्वा मन्त्रान्नं च निवेदयेत् ॥ ५२ ॥
वस्त्राभरणमालाद्यैरर्चयेत् परमेश्वरम् ।
कुम्भान्भस्मसमादाय लिङ्गमूर्धनि दापयेत् ॥ ५३ ॥
प्। २९६)
बृहत् सामेति मन्त्रेण लिङ्गमालिप्य सर्वशः ।
पञ्चवर्णहविर्दत्वा पानियाचमनं ददेत् ॥ ५४ ॥
ततो मण्डपमासाद्य वृषभाय हविर्ददेत् ।
धूपदीपैः समभ्यर्च्य वृषमूलेन देशिकः ॥ ५५ ॥
स्तोत्रसङ्गीतनृत्ताद्यैः स्तोषयेद् वृषभेश्वरम् ।
ततः सायान्नसमये धूपदीपावसानके ॥ ५६ ॥
नीराजनसमादाय शिवाग्रे स्थापयेद् बुधः ।
निवृत्यादि कलामन्त्रेरर्चयेद् गन्धपुष्पकैः ॥ ५७ ॥
पद्मं च शूलमुद्रां च दर्शयेद् दीपसन्निधौ ।
सगुल्मलुघृतैर्युक्तं धूपामोदसमन्वितम् ॥ ५८ ॥
वेदाग्रे दर्शयेद्विद्वान् लिङ्गमूर्धोपरित्रिधा ।
भूमयो मूलमन्त्रेण अवतिय्य शनैशनैः ॥ ५९ ॥
एकवारं द्विवारं वा त्रिवारं वा विचक्षणः ।
पूर्ववद्भ्रमणं कृत्वा प्रणवेन विसर्जयेत् ॥ ६० ॥
ब्राह्मणैर्वाधनारिभिः वाहयित्वा विचक्षणः ।
प्रदक्षिणं ततः कुर्या वाद्यध्वनिसमन्वितम् ॥ ६१ ॥
पीठाग्रे गोपुराग्रे वा त्रिपथे वा चतुष्पथे ।
निराजनं परित्यज्य बहुरूपमनुस्मरन् ॥ ६२ ॥
परितः सेचनं कुर्यात् सामान्यार्घ्यजलेन तु ।
पादप्रक्षालनं कृत्वा प्रवेशेदालयं गुरु ॥ ६३ ॥
प्। २९७)
दशपुष्पैः शिवं यष्ट्वा दशबीजेन देशिकः ।
पुष्पाञ्जलित्रयं दत्वा अभिष्ठं प्राथयेद् गुरु ॥ ६४ ॥
सन्ध्यान्तरे परित्यज्य वृषभं जलमध्यमे ।
भस्मं विसृज्य तारेणार्ध पात्रे विनिक्षिपेत् ॥ ६५ ॥
कवचेन तु संरक्ष्य मुखं वस्त्रेण वेष्टयेत् ।
ततस्साढ्यं समादाय कल्पयेदुचिरासनम् ॥ ६६ ॥
अनुग्रहशिवं ध्यात्वा प्राङ्मुखोदङ्मुखस्वयम् ।
मूलेन सन्ध्यमालोक्य चूडादिचरणान्तकम् ॥ ६७ ॥
विन्यसेद् दक्षिणे पार्श्वे भस्मकुम्भं विचक्षणः ।
निष्कमात्रसमादाय साध्यस्य शिरसोपरि ॥ ६८ ॥
प्रणवेन समुद्धूल्य त्रिवारं देशिकोत्तमः ।
चूडादिपादपर्यन्तं पादाच्चूडावसानकम् ॥ ६९ ॥
त्रिवारं व्यापकं कुर्यात् पापभक्षणमन्त्रतः ।
षडङ्गानाचरेद्भक्त्यमृत्युञ्जयमनुस्मञ्जपेत् ॥ ७० ॥
प्राणयामत्रयेणैव साध्यं मानं च रक्षयेत् ।
संसाध्य हृदयं स्पृष्ट्वा मूलमन्त्रं शतं जपेत् ॥ ७१ ॥
शिवाङ्गै ब्रह्ममन्त्रैश्च व्योमव्यापि जपेद् बुधः ।
एवं यः कुरुते मर्त्य स पुण्याङ्गतिमाप्नुयात् ॥ ७२ ॥
इति सूक्ष्मशास्त्रे राजरक्षविधिं नाम पञ्चपञ्चाशत् पटलः ॥ ५५ ॥