प्। २८३)
अतः परं प्रवक्ष्यामि पञ्चगव्यविधिक्रमम् ।
सर्वपापविनाशार्थं सर्वशान्त्यर्थमुच्यते ॥ १ ॥
उत्तमादि क्रमेणान्तु मध्यमं तु तदर्थकम् ।
तदर्थमधमं ज्ञेयं त्रिविधं परिकल्पयेत् ॥ २ ॥
घृतं वै प्रस्तमेवं तु दधि द्विप्रस्तमेव च ।
क्षीरं त्रिप्रस्तमित्युक्तं चतुप्रस्तं तु गोमयम् ॥ ३ ॥
त्रिप्रस्थं चैव गोमूत्रं मध्यमं तु प्रशस्यते ।
कुडुपं तु घृतं चैव दधि स्यात् कुडुपद्वयम् ॥
क्षीरं कुडुपत्रयं चैव प्रस्तं गोमयमुच्यते ॥ ४ ॥
प्रस्तार्धं चैव गोमूत्रं पञ्चगव्य विधीयते ।
कपिला गोघृतं चैव सिताङ्गोदधिरुच्यते ॥ ५ ॥
क्षीरं तु पीतवर्णं स्याद्रक्तवर्णं तु गोमयम् ।
कृष्णवर्णं तु गोमूत्रं सङ्ग्रहे तु विचक्षणः ॥ ६ ॥
घृतं वै रुद्रदेवत्यं दधि वै सोमदेवतम् ।
क्षीरं तु शुक्रदैवत्यं गोमयं चार्कदेवतम् ॥ ७ ॥
गोमूत्रमग्निदैवत्यं पञ्चगव्याधिदेवता ।
काश्यपक्रघृतमेवं तु कौशिकं दधिरुच्यते ॥ ८ ॥
क्षीरं स्याच्च भरद्वाजं गौतमं गोमयं तथा ।
आत्रयं चैव गोमूत्रम् ऋषियाच प्रकीर्तितः ॥ ९ ॥
प्। २८४)
क्षीरं तु सद्यमन्त्रं स्याद्वामदेवदधिं तथा ।
गोमूत्रं बहुरूपं तु पुरुषेण तु गोमय ॥ १० ॥
व्योमव्यापिमहामन्त्रेरभिषेकं समाचरेत् ॥ ११ ॥
घृतानमग्नि देवत्यं गङ्गायां नालिकेरकम् ।
शालिपिष्टमुषादेवि रजनीं च * * * * ॥ १२ ॥
आमलकं च लक्ष्मी च कशोदकमनोन्मनी ।
पदं वै पञ्चकोषिनि चतुसूत्रं तु विनयसेत् ॥ १३ ॥
ईशानादि न्यसेद्धीमान् कोष्ठेनैव तु पूजयेत् ।
गायत्रियादयगे मूत्रं गन्धद्वारेति गोमयम् ॥ १४ ॥
आप्यायस्वेति च क्षीरं दधिक्रावण्णेति वै दधि ।
शुक्रमज्योतिरित्याज्यं देवस्य त्वा कुशोदकम् ॥ १५ ॥
प्रातःकालेभिषेकात् तु सर्वपापविनाशनम् ।
मध्यान्नकालभिषेकां तु सर्वथात्यर्थमुच्यते ॥ १६ ॥
सायङ्कालाभिषेकात् तु सर्वरोगविनाशनम् ।
प्रसादादि मुखो भूत्वा मण्डपस्य तु मध्यमे ॥ १७ ॥
तण्डुलः शालिभिः कुर्यान्मध्येस्ताप्य घृतं तथा ।
गोमयं पूर्वके स्थाप्य गोमूत्रं चैव दक्षिणे ॥ १८ ॥
पश्चिमे तु दधि स्थाप्य उत्तरे क्षीरमेव च ।
आग्नेर्यमधु संस्थाप्य नै-ऋत्यां नालिकेरकम् ॥ १९ ॥
पगे णो। २८५ इस् णोत् आवैलब्ले
प्। २८६)
शूर्पक्षे श्रोणनक्षत्रे हस्ते * ना * रिक्षके ।
तत् तदृक्ष चतुर्थांशे कुमुदेशप्रदेशके ॥ २० ॥
दृष्ट्वा कर्कटलग्नं स्याच्चोदयं शिवमन्त्रवित् ।
मृदं सङ्ग्राह्य यत्नेन काम्यराष्ट्रेशमन्दिरे ॥ २१ ॥
मध्ये च ग्राममध्ये च प्रधानतुरगालये ।
प्रधान गजवासे च श्रीङ्गस्पृग् वाससंयुतम् ॥ २२ ॥
चतुष्पथे ष्वोपणेध्येकोशमन्दिरपार्श्वके ।
ग्रामदेवालये क्षेत्रे तटाकं जलनिर्गमे ॥ २३ ॥
बहुयत्नेन सङ्ग्राह्य दशस्थानेषु मृत्तिका ।
पृथक् पात्रे समाकृष्य स्वदेशे देवमन्दिरे ॥ २४ ॥
शुद्धवस्त्रेण सच्छाद्य विन्यसेच्छालिमध्यमे ।
तस्मिन्मासार्धमासे वा पूर्ववत्कर्कटोदयम् ॥ २५ ॥
निच्छित्य दिवसात्पूर्वे दशाहे वा नवाहके ।
प्रातत्काले समुत्थाय स्नानं कृत्वा विधानतः ॥ २६ ॥
सन्तर्प्य शिवमन्त्रेण चाष्टोत्तरसहस्रकम् ।
ततो देवगृहं गत्वा महादेवं प्रणम्य च ॥ २७ ॥
दशकुम्भान्समादाय तन्तुना परिवेष्टयेत् ।
प्रणवेनैव सङ्क्षाल्य सधूप्य शिवबीजतः ॥ २८ ॥
शिवमन्त्रं शतं जप्त्वा प्रत्येकं मृदमाहरेत् ।
दशकुम्भेषु संस्थाप्य मुखं वस्त्रेण वेष्टयेत् ॥ २९ ॥
प्। २८७)
देवालयाग्रे सौम्ये वा ईशाने पावके तथा ।
स्थण्डिलं कारयेद् विद्वान्नाढकद्वयशालिना ॥ ३० ॥
हृदयेनैव सम्प्रोक्ष्य कुम्भान् तस्योपरिन्न्यसेत् ।
पिधाय शुद्धवस्त्रेण धाराबीजेन चार्चयेत् ॥ ३१ ॥
संरक्ष्य चास्त्रमन्त्रेण धेनुमुद्रां प्रदर्शयेत् ।
पूर्वास्यामुत्तरास्यं वा रुचिरासनसंस्थितम् ॥ ३२ ॥
स्पृष्ट्वा कुम्भं कुशाग्रेण जप्त्वा पञ्चाक्षरं मनु ।
दशसहस्रकं जप्त्वा जपान्ते होममाचरेत् ॥ ३३ ॥
कुम्भं पूर्वेऽथवा सौम्ये होमं कुर्याद् विचक्षणः ।
अन्यथा नादिकं सर्वं पूर्वोक्तविधिना नयेत् ॥ ३४ ॥
नालिकेरफलं मुद्गं शर्करामधुसंयुतम् ।
कदलिपनसोपेतं सहस्राहुतिमाचरेत् ॥ ३५ ॥
ब्राह्मणान्भोजयेत् तत्र नवपञ्चैकमेव वा ।
दिनं प्रति विशेषेण एवमेव समाचरेत् ॥ ३६ ॥
निश्चित्यदिवसात्पूर्वे जपहोमवसानके ।
शिवाग्रे मण्डपं कल्प्य षोडशस्तम्भसंयुतम् ॥ ३७ ॥
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
दर्भमालासमायुक्तं वितानाद्यैरलङ्कृतम् ॥ ३८ ॥
तन्मध्ये वेदिकां कुर्यान्न्वभागेक भागता ।
वेदिवस्त्रेणसंवेष्ट्य स्थण्डिलं रक्तशालिना ॥ ३९ ॥
प्। २८८)
तण्डुलैः तिललाजैश्च दर्भैश्चैव परिस्तरेत् ।
स्नानं कृत्वा विधानेन सन्तर्प्या तदनन्तरम् ॥ ४० ॥
जपहोमावसानं ते प्रविशे मण्डपं बुधः ।
सङ्कल्परजितेनैव शिवलिङ्गं विचक्षणः ॥ ४१ ॥
पञ्चगव्यमृते स्नाप्य वेद्युर्ध्वे चासनोपरि ।
संस्थाप्य च महादेवं द्रोणपुष्पै समर्चयेत् ॥ ४२ ॥
सहस्रं शिवमन्त्रेण पूर्वमन्त्रेण चा बुधः ।
द्रोणपुष्पसमभ्यर्च्य धूपदीपं प्रदापयेत् ॥ ४३ ॥
सङ्ग्राह्य दशमृत्कुम्भान् संशोध्य वीक्षणादिभिः ।
शिवबीजेन वादाय तन्मृदालेपयेद् विभुम् ॥ ४४ ॥
सहस्रं जातिकुसुमै पञ्चाक्षरमनुस्मरन् ।
सृष्टिमार्गेण चाभ्यर्च्य सन्निवेद्यगुलोदनम् ॥ ४५ ॥
सर्वोपचारैः सम्पूज्य ततः सायकमानयेत् ।
द्रोणैश्च जातिकुसुमैः रर्चयित्वा गुरूत्तमः ॥ ४६ ॥
अयुतं वा तदर्धं वा तदर्धार्धमथापि वा ।
साधकेनैव चाभ्यर्च्य शिवहस्तं प्रकल्पयेत् ॥ ४७ ॥
कीलमन्त्रं जपेद् भक्त्या करं साधक मूर्धनि ।
संस्ताप्या च महामन्त्रं मचक्रान्तेति मन्त्रवित् ॥ ४८ ॥
अनेन विधिना पूर्वं रात्रौ जागरमाचरेत् ।
सङ्कल्पदिवसे प्राप्ते प्रतिनियममानसा ॥ ४९ ॥
प्। २८९)
ब्राह्मणान् शिवभक्तांश्च भोजनं दापयेद् बुधः ।
दीनान्धकृपुणादीनाम् अन्नपानं प्रदापयेत् ॥ ५० ॥
पूर्वोक्तकालसम्प्राप्ते गणेशं पूजयेद्बुधः ।
दैवज्ञेय यथाकाले यजमानाय बोधयेत् ॥ ५१ ॥
न्मङ्गमन्त्रप्रभावेन यजमान प्रसन्निधिः ।
गुरूपतिष्ठमार्गेण वेषयेन्नवसङ्ख्यया ॥ ५२ ॥
अनेन विधिना शाले यस्मिन् दृष्टमहीं बुधः ।
त्रिवारं प्राशयेत् तेन तद्राज्यं लभते ध्रुवम् ॥ ५३ ॥
मृल्लिङ्गस्यार्चनेनैव चतुसागरमध्यगाम् ।
मेदिनी लभते राजासन्त्यसत्यं प्रभञ्जना ।
मृल्लिङ्गस्यार्चनप्रोक्तं मुखलिङ्गविधि शृणु ।
इति सूक्ष्मशास्त्रे मृल्लिङ्गार्चनविधिं नाम त्रिपञ्चाशत्पटलः ॥ ५३ ॥