५०

वक्ष्ये नित्यार्चनहिने प्रायश्चित्तविधिक्रमम् ।
प्रायोविनाशमित्युक्तं चित्तं सन्धानमुच्यते ॥ १ ॥

विरशस्य तु सन्धानं प्रायश्चित्तमिति स्मृतम् ।
आदौ तु निश्चयद्रव्यं हि न वा दोषकारकम् ॥ २ ॥

प्। २७८)

तद् दोषशमनार्थाय प्रायश्चित्तं तु कारयेत् ।
अकल्पितं तु यद् द्रव्यं हीने दोषं न विद्यते ॥ ३ ॥

मार्जनप्रोक्षणाहिने नारं कर्मकरस्तथा ।
सौरपूजाविहीने च पुण्यहं गव्यहीनके ॥ ४ ॥

लम्बोदरार्चने हीने रन्ध्रार्चन विहीनके ।
पाद्यमाचमानार्घ्यं हि हीने स्नानविहीनके ॥ ५ ॥

वस्त्रमाभरणहीनं गन्धपुष्पविहीनके ।
नैवेद्यं चोपदंशं च हीने पानिय हीनके ॥
मुखवासं च हीनक्वे न च भूतबल्युत्सवेऽपि च ॥ ६ ॥

धूपदीपविहीने च आरात्रिकविहीनके ।
भस्मताम्बूलहीने च दर्पणश्चत्रहीनके ॥ ७ ॥

चामरं खड्गहीने च वेदस्तोत्र विहीनके ।
पुराणश्रवणे हीने पञ्चाङ्गश्रवणेऽपि च ॥ ८ ॥

नृत्तगानं च वाद्यं च चण्डार्चनविहीनके ।
एवमादिसमुत्पन्ने निष्कृतिं च वदाम्यहम् ॥ ९ ॥

मार्जनं प्रोक्षणाहीने गोगौरान्विनाशनम् ।
मार्जनप्रोक्षणं कुर्याद् गव्येन प्रोक्ष्य भूतले ॥ १० ॥

कालाति क्रमणार्थाय शान्तिकुम्भाभिषेचयेत् ।
तद्दोषशमनार्थाय व्योमव्यापि शतं जपेत् ॥ ११ ॥

सयेव स्पृशितद्रव्यं वर्जयेत् तत्प्रयत्नतः ॥ १२ ॥

अथवा लिङ्गबिम्बस्य स्पर्शतं चेद् विशेषतः ।
मृद्भाण्डानि विसृज्याथ स्नपनैरभिषेचयेत् ॥ १३ ॥

प्। २७९)

सौरपूजाविहीने च भूपते रोगसम्भवम् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ १४ ॥

जप्त्वा दिनकरं मन्त्रं सहस्रं वा तदर्धकम् ।
नित्यपुण्याहहीने च तद्राष्ट्रौ नश्यते श्रियम् ॥ १५ ॥

तद् दोषशमनार्थाय पञ्चगव्याभिषेचयेत् ।
पञ्चगव्य विहीने च महामारि प्रवर्तते ॥ १६ ॥

घृतेन स्नपयेच्छम्भो ब्रह्ममन्त्रं शतं जपेत् ।
विघ्नेश्वरार्चने हीने जीवावारण नाशनम् ॥ १७ ॥

स्नपनं शान्तिहोमं च कारयेत् तु गणेश्वरम् ।
भक्ष्यापुपादिकं दत्वा विघ्नमन्त्रशतं जपेत् ॥ १८ ॥

रन्ध्रार्चन विहीने च दुर्भिक्षं जायते भुवि ।
शान्तिकुम्भस्थितो येन देवेशामभिषेचयेत् ॥ १९ ॥

द्वारस्था देवतानां च तत्तन्मन्त्रशतं जपेत् ।
पाद्यद्रव्यसदा चैव हीने राष्ट्रस्य नाशनम् ॥ २० ॥

तद्रव्यं द्विगुणदद्यात् अन्यसन्ध्यासु दापयेत् ।
मूर्तिकुम्भस्थितो येन स्नापयेत् परमेश्वरम् ॥ २१ ॥

आचम्यार्घ्य विहीने चा पादद्रव्यं विधानयेत् ।
स्नानद्रव्यविहीने च तद्राष्ट्रं जलवर्जितम् ॥ २२ ॥

तद्रव्यं द्वित्रिगुणं दद्यात् पञ्चाशत् कलशोदकैः ।
स्नापयेत् परमेशानं व्योमव्यापि समुच्चरन् ॥ २३ ॥

प्। २८०)

वस्त्रदानविहीने च महाव्याधि समुद्भवः ।
त्वक्काषायोदकेनैव स्नपयेत् परमेश्वरम् ॥ २४ ॥

वस्त्रयुग्मं ददेच्छम्भोः युवं वस्त्रेति मन्त्रतः ।
अष्टोत्तरशतं जप्त्वा अन्यसन्ध्यासु दापयेत् ॥ २५ ॥

भूषणं चोपवितं च हीने दारिद्रसम्भवम् ।
शान्तिकुम्भोदके स्नाप्य अघोरेण शतं जपेत् ॥ २६ ॥

गन्धद्रव्यविहीने च तद्राष्ट्रं भयमावहेत् ।
अस्त्रोदकेन संस्नाप्य तद्रव्यं द्विगुणं भवेत् ॥ २७ ॥

पुष्पपत्रविहीने च अनावृष्टिर्भविष्यति ।
दिशाकुम्भोदके स्नाप्य सद्यमन्त्रशतं जपेत् ॥ २८ ॥

नैवेद्यं चोपदंशं च हीने दुर्भिक्षसम्भवम् ।
तद् दोषशमनार्थाय स्नापयेद्वल्कलोदकैः ॥ २९ ॥

अङ्गमन्त्रशतं जप्त्वा तद्रव्यं द्विगुणं ददेत् ।
पानियमुखवासं च हीने तु जलवर्जितम् ॥ ३० ॥

स्नापयेत् परमेशानं पञ्चाशत् कलशोदकै ।
तद्रव्यद्विगुणं दद्यान्मूलमन्त्रशतं जपेत् ॥ ३१ ॥

नित्यहोमविहीने च भूपतेस्तु विनाशनम् ।
शान्तिहोमं ततः कृत्वा षोडशस्नपनं कुरु ॥ ३२ ॥

पश्चान्नित्याग्निकं कुर्यात् अघोरेण शतं हुनेत् ।
प्रकारबलिहीने च तद्राष्ट्रं बलवर्जितम् ॥ ३३ ॥

प्। २८१)

शान्तिहोमं ततः कृत्वा स्नापयेन् माजनोदकैः ।
दशबीजशतं जप्त्वा पश्चाद् बलिसमाचरेत् ॥ ३४ ॥

नित्योत्सवविहीने च परचक्रभयं भवेत् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ ३५ ॥

त्रयम्बकमनुजप्त्वा पश्चान्मत्रशतं जपेत् ।
नित्योत्सवं ततः कृत्वा पुनः किञ्चिद् वदाम्यहम् ॥ ३६ ॥

श्वानकाकादि संस्पृष्ट्वा प्रतिलोमादिभिस्तथा ।

तत्स्थानादि बलिं दत्वा अस्त्रमन्त्रशतं जपेत् ।
बलिदीपविहीने च यत्र देशे तु संस्थितम् ॥ ३८ ॥

पुनर्द्दीपसमारोप्य बलिशेषं समापयेत् ।
भस्मताम्बूलहीने च माहामारि प्रवर्तते ॥ ३९ ॥

शान्तिहोमं ततः कृत्वा स्नापयेदाद्यतोयकैः ।
आरात्रिकविहीने च नृत्तघ्नश्छदनेऽपि च ॥ ४० ॥

शान्तिकुम्भोदकैस्नाप्य बलिशेषं समापयेत् ।
शान्तिकुम्भोदकैस्नाप्य बहुरूपशतं जपेत् ॥ ४१ ॥

भस्मताम्बूलहीने च राजादुर्जयमाप्नुयात् ।
अस्त्रमन्त्रशतं जप्त्वा परिमार्जनतोयकैः ॥ ४२ ॥

स्नापयेत् परमेशानं तद्रव्य द्विगुणं ददेत् ।
दर्पणश्छत्र हीने च चामरं खड्गहीनके ॥ ४३ ॥

प्। २८२)

परचक्राद् पयं भूमौ राजा दुर्जयमाप्नुयात् ।
शान्तिहोमं ततः कृत्वा स्नपनैरभिषेचयेत् ॥ ४४ ॥

जप्त्वा तु क्षुरिकामन्त्रं सहस्रं वा तदर्धकम् ।
ऋगाध्यध्यायनं हीने भक्तादि स्तोत्रहीनके ॥ ४५ ॥

शान्तिकुम्भोदकेस्नाप्य बीजमुख्यं शतं जपेत् ।
वेदागश्रवणे हीने पुराण श्रवणे तथा ॥ ४६ ॥

जायानां नाशनं चैव बालानां नाशनं भवेत् ।
मान्योदकेन संस्नाप्य दशबीजशतं जपेत् ॥ ४७ ॥

नृत्तगानं च वाद्यं च हीने तद्राष्ट्रनाशनम् ।
शान्तिहोमं ततः कृत्वा मूर्त्तिकुम्भाभिषेचयेत् ॥ ४८ ॥

नन्दिमन्त्रशतं जप्त्वा पश्चान्नृतादिक कुरु ।
चण्डार्चनविहीने च राजासेनविनाशनम् ॥ ४९ ॥

मूर्तिहोमं ततः कृत्वा गन्धोदैरभिषेचयेत् ।
चण्डमन्त्रशतं जप्त्वा पश्चाच्चण्डसमर्चयेत् ॥ ५० ॥

सायं सन्ध्याविहीने च द्विगुणं चान्यसन्धिके ।
यत्र देवाय तृप्यर्थं कुर्यान्निष्कृति पूर्ववत् ॥ ५१ ॥

सन्धिद्वयविहीने च सम्प्रोक्षणमथाचरेत् ।
एवं यः कुरुते मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ५२ ॥

इति सूक्ष्मशास्त्रे नित्यविधिप्रायश्चित्तं नाम पञ्चाशत्पटलः ॥ ५० ॥