४९

अथातः सम्प्रवक्ष्य * प्रोक्षणविधिरुत्तमम् ।
द्वितियं प्रोक्षणं प्रोक्तं भद्रयोगं तथैव च ॥ १ ॥

प्रासादकरणे चैव पीठबन्धविधौ तथा ।
बालस्थानं तथा कृत्वा प्रोक्षणं भद्रमुच्यते ॥ २ ॥

पतिते दृष्टि ते लिङ्गे चण्ड लः शिल्पिभिस्तथा ।
श्वानादि कुकुटे चैव वानरैः प्रविशेद्यदि ॥ ३ ॥

पूजाहीने तथा मासे प्रोक्षणं योगमुच्यते ।
प्रासदस्याग्रतः कुर्या ण्डपं चतुरश्रकम् ॥ ४ ॥

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
वितानैदर्भमालाभिमुक्तादामरलङ्कृतम् ॥ ५ ॥

अष्टमङ्गलसंयुक्तं मङ्गलाङ्कुरशोभितम् ।
कृत्वा नवपदं मध्ये पदमेकं तु वेदिका ॥ ६ ॥

अरत्रिमात्रमुत्सेधं मुष्टिमात्रं तथापि वा ।
कुर्यात् कुण्डानि परितः दिशासु विदिशासु च ॥ ७ ॥

प्। २७५)

दशासु चतुरश्राणि वृत्तानि विदिशासु वै ।
इन्द्र इशानयोर्मध्ये प्रधानं तत्र कल्पयेत् ॥ ८ ॥

पुण्याहं वाचयित्वा तु पर्यग्नि करणं तथा ।
चन्दनागरुकर्पूरा कुष्ठे चक्रकेसरैः ॥ ९ ॥

लिङ्गमालिप्य वस्त्रेण पीठाद्याश्चाद्य योत्तमम् ।
पञ्चगव्येन सम्प्रोक्ष्य पावमानमुदिरयन् ॥ १० ॥

लिङ्गं दर्भार्भिरावेष्ट्य हृदयेन विचक्षणः ।
हैम कौतुकसूत्रं तु बन्धयेच्छिरसा शिवम् ॥ ११ ॥

बालस्थानं ततो गत्वा पूजयित्वा विशेषतः ।
यात्राहोमं प्रकर्तव्यं बालस्थानस्य चाग्रतः ॥ १२ ॥

तस्थण्डिलं तत्र कर्तव्यं निर्दोषैः सिकतै शुभैः ।
अग्न्यादानादिकं कृत्वा शिवाग्निं कल्पयेत् ततः ॥ १३ ॥

अथ ब्रह्म षडङ्गैश्च प्रत्येकं तु शताहुति ।
स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् सार्धसार्धमथापि वा ॥ १४ ॥

ईशानेन चरू हुत्वा स्पृष्ट्वा लिङ्गं समस्तकम् ।
तस्याग्रे शिवकुम्भन्तु संस्थाप्य स्थण्डिलोपरि ॥ १५ ॥

पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रसंयुतम् ।
ध्यात्वा सदाशिवं तस्मिन् सद्येनावाहयेत् ततः ॥ १६ ॥

बीजमुद्रां ततो बध्वा मुकुल पद्ममुद्रिकाम् ।
गणाम्बिक्ये तु मन्त्रेण स्नापयेत् पूजयेत् ततः ॥ १७ ॥

प्। २७६)

पञ्चगव्येनसम्प्रोक्ष्य वेदिकां हृदयेन तु ।
तस्योत्तरे न्यसेन् मन्त्रिवर्धनी सहिरण्यकाम् ॥ १८ ॥

परितः कलशानाष्टौ न्यसेद् विद्वेश्वरं नले ।
निशास्वध्यायनं कृत्वा द्विधिवद्वैदपालगैः ॥ १९ ॥

पटेण महतवेष्य ततो होमसमारभेत् ।
समिधाज्यचरूर्लाजान्सर्षपाश्च यवां तिलान् ॥ २० ॥

होमद्रव्याणि सप्तैते कल्प्यं ते विधिपूर्वकम् ।
पालाशोदुम्बरश्च ध्वप्लक्षश्चेव दिशासु वा ॥ २१ ॥

शमिखादिरविल्वाद्विदुक्षु क्रमशस्तथा ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥ २२ ॥

शतमष्टोत्तरं चैव प्रत्येकं जुहुयात् क्रमात् ।
घृतमीशानमन्त्रेण पुरुषेण चरुस्तथा ॥ २३ ॥

लाजं च घोरमन्त्रेण सद्येन सर्षपं तथा ।
तिलान्पाशुपतास्त्रेण कवचेन यवांस्तथा ॥ २४ ॥

द्रव्यान्ते व्याहृदि हुत्वा स्पृशेल्लिङ्गं स्वमन्त्रतः ।
प्रतिद्रव्यं स्वमन्त्रेण सूचा पूर्णाहुतिर्भवेत् ॥ २५ ॥

प्रभाते पूजनं कृत्वा सूत्रबन्धान् व्यपोह्य च ।
सद्यादि पञ्चगव्येन पञ्चगव्याभिषेचनम् ॥ २६ ॥

कृत्वा शुद्धिमद्याद्भिस्तु लिङ्गपीठस्थलं क्रमात् ।
हैमपुष्पं च संयुक्तं पुष्पं शिरसि धारयेत् ॥ २७ ॥

प्। २७७)

आचार्य पूजयेत् पूर्वं वस्त्रहेमाङ्गुलियकैः ।
कटकं कुण्डलं चैव यज्ञसूत्रं तु हैमकम् ॥ २८ ॥

यदा शक्त्या तु दातव्यं ग्रामभूमि धनिस्सहा ।
सुमुहूर्ते ततो ध्यात्वा देवदेवं त्रियम्बकम् ॥ २९ ॥

आत्मानमर्चगन्धाद्यै सकलिकृत विग्रहः ।
लिङ्गं च मूर्ध्नि संयुक्ते कलाम्म्श्चागानि विन्यसेत् ॥ ३० ॥

शिवकुम्भं ततो नित्वा विधानं तु व्यपोह्य च ।
तदभि स्नपयेत् लिङ्गप्रासादं तु मनुस्मरेत् ॥ ३१ ॥

सदाशिव त ध्यात्वा सागं ब्रह्माणि कल्पयेत् ।
शिवकुम्भजले देवं वर्धन्यां पिण्डिकामपि ॥ ३२ ॥

स्वस्वैन्मन्त्रेश्च कलशानभिषिच्य यथाविधिः ।
गन्धाद्यैरर्चयेद् देवं पञ्चावरणपूर्वकम् ॥ ३३ ॥

नैवेद्यं बलिदानं च नृत्तगेयसमाकुलम् ।
सन्तोषयेत् च्छिवं साक्षाद् भद्रमेवं प्रकीर्तितम् ॥ ३४ ॥

सन्तोषयेत् च्छिवं साक्षाद्भद्रमेवं प्रकीर्तितम् ॥ ३४� ॥

इति सूक्ष्मशास्त्रे सम्प्रोक्षणविधिं नाम एकोन पञ्चाशत्पटलः ॥ ४९ ॥