शक्त्योत्सवमथो वक्ष्ये श्रूयतां तत्प्रभञ्जना ।
उत्सवं पञ्चधा ज्ञेयं तद्भेदमिह कथ्यते ॥ १ ॥
नवाहं श्रियदं प्रोक्तं सप्ताहं राजसं भवेत् ।
पञ्चाहं सात्विकं प्रोक्तं त्रियाहं गौणमुच्यते ॥ २ ॥
एकाहं तामसं प्रोक्तं पञ्चधा परिकीर्तितम् ।
आद्रमासादि मासान्तमुत्सवं विधिनोच्यते ॥ ३ ॥
प्। २५८)
आद्रमासे तु कर्तव्यमाद्रान्तमुत्सवं परम् ।
अवभृदान्ते व्रतं कुर्यादवरोहणमन्तके ॥ ४ ॥
पुष्यमासे तु कर्तव्या भूताष्टम्यां तथैव च ।
माघे चाश्लेषकर्तव्यां दर्शद्वयं च सम्मतम् ॥ ५ ॥
उत्तरन्तं तु वा कुर्याद् फाल्गुने दर्शमेव च ।
चैत्रमासे तु कर्तव्यं चित्रान्तं च द्वितीयकम् ॥ ६ ॥
वैशाखे सितपक्षे तु विशाखे चोत्तरान्तकम् ।
ज्येष्ठा चैव प्रकर्तव्यं चतुर्दशमूलसंयुतम् ॥ ७ ॥
उत्तरषाढमाषाढमासत्रयोदशि भवेत् ।
श्रावणे श्रावणे वापि द्वादशि चा विशेषतः ॥ ८ ॥
भद्रे तन्मास-ऋक्षं स्यादेकादशि च सम्मतम् ।
अश्वेत्वश्वसमां युक्तं कार्त्तिके कृत्तिकं मतम् ॥ ९ ॥
प्रतिप्रधानकं द्वे तु सिते वासितपक्षयो ।
अथवान्य प्रकारेण तत्तद्बेरादिनं मतम् ॥ १० ॥
सामदायिक ऋक्षं वा उत्सवे दशिदिनं तु वा ।
यजमानवशात् तत्र त्रिदिनं तीर्थमाचरेत् ॥ ११ ॥
एवं निश्चित्य तीर्थं तु अधिवासनमारभेत् ।
नवाहे चैव सप्ताहे ध्वजारोहणमाचरेत् ॥ १२ ॥
भेरिताटनतीर्थान्तमन्यत् सर्वसमाचरेत् ।
त्रिचतुर्हस्तमारभ्य द्विगुणान्तं क्रमेण तु ॥ १३ ॥
प्। २५९)
तदर्थं वा त्रिपादं वा पटविस्तार उच्यते ।
पुच्छिद्वयसमायुक्तं वेत्रद्वयसमन्वितम् ॥ १४ ॥
तत्पतं चाष्टाभज्य शिरं विद्व्यंशकं मतम् ।
पुच्छद्वयंशकप्रोक्तं मंशन्तु पद्मपीठकम् ॥ १५ ॥
द्व्ययांशे वाहनं लिख्य एकांशं छत्रसंयुतम् ।
पीठपार्श्वे तु कर्तव्यमष्टमङ्गलमं लिखेत् ॥ १६ ॥
वाहनद्वयपार्श्वे तु दीपस्वयसमन्वितम् ।
छत्रपार्श्वे तु कर्तव्यं चामरद्वयमेव च ॥ १७ ॥
एतत्सर्वसमालिख्य आयादि शुभदमतम् ।
पञ्चवर्णसमायुक्तं मुक्तस्थाने प्रकल्पयेत् ॥ १८ ॥
तन्मध्ये वृषभं लिख्य सिंहं वापि प्रकल्पयेत् ।
स्तितं वा शयनं वापि यानं वापि समालिखेत् ॥ १९ ॥
अर्धचित्र कृतचैव आभासं नाम उच्यते ।
सुषिरं यन्त्रसंयुक्तं यत्र रज्जु सुबन्धयेत् ॥ २० ॥
एवं पटं समापाद्य ध्वजदण्डमिहोच्यते ।
यथाश्मलो वृक्षे वा ध्वत्सारक्रमुकादया ॥ २१ ॥
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ।
सप्तविंशति हस्तान्तं नवधा हस्तमानकम् ॥ २२ ॥
एवं त्रिविधमाख्यातं त्रिविलान्तं पुरोक्तवत् ।
एवमाधममाख्यातं मन्यत् सर्वं पुरोक्तवत् ॥ २३ ॥
प्। २६०)
ध्वजादि सर्व सम्पाद्य अधिवासनमारभेत् ।
अर्धयामवसाने तु विघ्नेशं पूजयेद् बुधः ॥ २४ ॥
देव्याग्रे मण्डपे वापि चतुर्था स्थण्डिलं नयेत् ।
पश्चिमे तु पटं न्यस्य तत्पूर्वे नवकं न्यसेत् ॥ २५ ॥
तत्पूर्वे चास्त्रमूर्त्ति च तत्पूर्वे होममेव च ।
नेत्रोन्मीलनं कुर्यान्तु नेत्रमन्त्रेण देशिकः ॥ २६ ॥
वृषशुद्धिः ततः कुर्यात् सकलिकरणं कुरु ।
प्राणप्रतिष्ठा कर्तव्यं रक्षाबन्धं पुरोक्तवत् ॥ २७ ॥
मन्त्रतर्पणमेवोक्तं दण्डभङ्गिक्रमं न्यसेत् ।
शक्त्यादि शक्तिपर्यन्तं द्ध्यायेत् तु गुरूत्तमम् ॥ २८ ॥
मध्य कुम्भे वृषे पूज्य लोकपान् परितो यजेत् ।
पश्चिमास्यो वृषं पूज्य वरुणाद्यष्टदिक्षु च ॥ २९ ॥
स्वस्वमन्त्र्यै समभ्यर्च्य वृषं विद्येश्वरान्यसेत् ।
एवं कुम्भान्समभ्यर्च्य नैवेद्यधूपदीपकम् ॥ ३० ॥
अस्त्रं सम्पूज्य विधिवत् ततो हेम समारभेत् ।
अग्निकार्योक्तमार्गेण अग्निकार्यं समाचरेत् ॥ ३१ ॥
वृषादि परिवारेण तत्तद्विजेने होमयेत् ।
पूर्णाहुति प्रकर्तव्यं प्रायश्चित्त समाचरेत् ॥ ३२ ।
वह्नाद्विजसमादाय तत्तत्कुम्भेसु योजयेत् ।
ध्वजस्तानं पुरा प्रोक्तं तस्धानं लेपयेत् ततः ॥ ३३ ॥
प्। २६१)
पिष्टचूर्णेरलङ्कृत्य सर्ववाद्यसमन्वितम् ।
ग्रामप्रदक्षिणे वापि वाहनं तत्र विन्यसेत् ॥ ३४ ॥
अस्त्रं पश्चिमतो न्यस्य उत्सवेशिं च विन्यसेत् ।
तत्कुम्भमुत्तरे स्थाप्य ततो विघ्नेशमर्चयेत् ॥ ३५ ॥
सङ्कल्पं च यथापूर्वं बृहस्पति यजेत् ततः ।
वृषगायत्रिमन्त्रेण ध्वजमारोपयेद्गुरुः ॥ ३६ ॥
एवं वृषञ्चेत् कर्तव्यं सिंहं वापि विशेषतः ।
सिंहस्य मूलमन्त्रेण अतिवासं तिरोपयेत् ॥ ३७ ॥
श्वेतं स्वर्णं बृहद्दन्तमुग्रवृष्टिनखान्वितम् ।
वक्त्रावक्त्रसमाकायमूर्धपुच्छं च वक्रकम् ॥ ३८ ॥
पूर्ववल्लक्षणं प्रोक्तं सिंहरूपं प्रकल्पयेत् ।
हृदयं चशिरःश्चैव शिखा कवचमेव च ॥
पश्चिमादि महाशासु कल्पयेत् तु विचक्षणः ॥ ३९ ॥
एवं क्रमेण संस्थाप्य स्वस्वनामेव पूजयेत् ।
इतराण्यपि सर्वाणि कारयेद् वृषभोक्तवत् ॥ ४० ॥
एवं क्रमेण कर्तव्यं विधिशोधनमुच्यते ।
शुनिर्माल्य धारिणि देविमलङ्कृत्या विशेषतः ॥ ४१ ॥
सधान्नसमये काले विधिशोधन नायक ।
विधिशोधनमेवोक्तं भेरिताटनमुच्यते ॥ ४२ ॥
भेरिसन्ताडनं रात्रौ पूर्वोक्तविधिवन्नयेत् ।
अहूयाष्टगणां चैव देशिकः शिष्य एव च ॥ ४३ ॥
एवं देवान्समावाह्य पूजयेद् गन्धपुष्पकम् ।
भेरिं सम्पूज्य विधिवदेकद्वित्रि च ताडयेत् ॥ ४४ ॥
प्। २६२)
पञ्चत्पारशिवश्चैव सर्वतालेन ताडयेत् ।
आवाहनबलिं दद्याच्छुद्धान्नं वा गुलान्नकम् ॥ ४५ ॥
ब्रह्माद्यैशानपर्यन्तम् इन्द्राद्यैशानमेव च ।
ध्वजो ध्वजादि बल्यन्तं दिनं देवकलिं विना ॥ ४६ ॥
ततोत्सवं समारभ्य मङ्गलाङ्कुरपूर्वकम् ।
विघ्नराजं च गौरिं च रक्षासूत्रं च बन्धयेत् ॥ ४७ ॥
यागार्थं यागशालां च शुद्धि कृत्वा विचक्षणः ।
वेदिमध्ये विशेषेण स्थण्डिलादिरलङ्कृतम् ॥ ४८ ॥
कुम्भं वा करकं वापि मध्यकुम्भे मनोन्मनि ।
वामादि शक्तयश्चाष्टौ पूर्वादि स्थापयेद् गुरुः ॥ ४९ ॥
निष्कमर्धं तदर्धं वा पञ्चाशांशं च निक्षिपेत् ।
उत्तमादिषु वस्त्राढ्यं शेषं पूर्ववदुच्यते ॥ ५० ॥
तत्तद्ध्यानमनुस्मृत्य तत्तत्कुम्भेषु पूजयेत् ।
नवाग्नि वाथ पञ्चाग्निं मेकाग्निमथवा चरेत् ॥ ५१ ॥
वामादि शक्तयश्चापि पञ्चमूर्तिं मनोन्मनिम् ।
एवं सङ्कल्प्य विधिवत् स्वस्वमन्त्रेश्च पूजयेत् ॥ ५२ ॥
कुण्डसंस्कारमारभ्य पूर्णान्तं पूर्ववद्भवेत् ।
नित्याग्नि होमकार्यं तु नित्यं वा होममाचरेत् ॥ ५३ ॥
भेरिं सन्ताड्य विधिवद्बलिदानमुपक्रमात् ।
द्वारादि बलिपीठान्तं गुलान्न वा बलि ददेत् ।
दिन देवादि तत्सर्वं शिववत् कारयेत् क्रमात् ॥ ५४ ॥
प्। २६३)
बलिदानवासाने तु यानं सम्यक् समाचरेत् ।
वीथि सम्मार्जनं पूर्वं प्रोक्षणं च द्वितीयकम् ॥ ५५ ॥
पताकाद्यैस्त्रितीयं तु यन्त्राद्यैश्च चतुर्थकम् ।
उत्सवेशिमलङ्कृत्य वाद्यघोषसमन्वितम् ॥ ५६ ॥
शनैः प्रदक्षिणं कृत्वा नानालीलासमन्वितम् ।
सर्वत्र ज्वलदीपाश्च नानाजाति समाकुलम् ॥ ५७ ॥
या नान्ते परिवेषाश्च अरिबृन्दैश्च सेवितम् ।
यत्रार्थ * * * * * * * * * * *
उत्तुङ्गलक्षणाद्यादि पूर्ववत्परिकीर्तितम् ।
तत् तदन्तरमानं तु एकाङ्गुलवशात् स्मृतम् ॥ ५९ ॥
भद्रपीठ विधि प्रोक्तं परिचारविधौ पुरा ।
एतत् सर्वं समापाद्य प्रतिष्ठाविधिमाचरेत् ॥ ६० ॥
द्वारे पीठे प्रतिष्ठा च प्रथमे च द्वितीयके ।
भद्रपीठप्रतिष्ठा च समतन्त्रेण कारयेत् ॥ ६१ ॥
पृथक् तन्त्रेण वा कुर्याच्चतुरङ्गं विधानतः ।
एकाचार्येण कर्तव्यं नेकस्मिन्नेककालके ॥ ६२ ॥
अङ्कुरं वास्तुयागादि समतन्त्रैकमाचरेत् ।
प्रासादपूर्वदिग्भगे मण्डपं विधिना चरेत् ॥ ६३ ॥
तन्मध्ये वेदिकां कृत्वा हस्तमात्रप्रमाणतः ।
रुद्रवेदिति सम्प्रोक्ता तत्ताराग्रेकतुङ्गकम् ॥ ६४ ॥
प्। २६४)
तत्पूर्वादि चतुर्दिक्षु विधि वेदिं प्रकल्पयेत् ।
अनेन वासकं कुर्यात् तद्विधान प्रकारक ॥ ६५ ॥
एवमेव प्रकारेण मण्डपं सम्यगाचरेत् ।
नवाहे वाथ पञ्चाहे त्रियाहेऽङ्कुरमाचरेत् ॥ ६६ ॥
जीर्णपीठं त्यजित्वा या कृत्वा संस्थापयेन्नवम् ।
तर्जन्यं तु त्रिधा प्रोक्तं स्फटिकं छिन्नभिन्नकम् ॥ ६७ ॥
भद्रपीठं विशेषेण महाङ्गोपाङ्गसंयुतम् ।
उपान जगतिच्छादकुमुदं कर्णपट्टिकम् ॥ ६८ ॥
पद्मं च कणिका चाथ महाङ्गमिति कीर्तितम् ।
दलोपदलनास्यादि उपाङ्गमिति कीर्तितम् ॥ ६९ ॥
वर्जयेत् तु महाङ्गेषु स्फुटितेच्छिन्नभञ्जना ।
क्षुद्रपीठादि सर्वेषु विभिनेताश्च वर्जयेत् ॥ ७० ॥
सस्योद्धारक्रमं वक्ष्ये पीठं दक्षिणमण्डले ।
सङ्कल्प्यासनमावाह्य पूजामन्त्रं समाचरेत् ॥ ७१ ॥
तत्सर्वे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः ।
तन्मध्ये पद्ममालिख्य साष्टपत्र सकर्णिकम् ॥ ७२ ॥
द्रोणामम्बुरितघटान्तन्मध्ये विन्यसेद् बुधः ।
आवाह्य पीठद् देवांश्च कुम्भमध्ये तु विन्यसेत् ॥ ७३ ॥
निवेद्यादीन्समाप्यध चाधिकाख्य च मार्गतः ।
आधानादि विवाहान्तं कृत्वा मधुघृतैरपि ॥ ७४ ॥
प्। २६५)
दूर्वाभिस्तण्डुलैस्तत् तद्देवतामन्त्रमुच्चरन् ।
शतमर्धं तदर्धं वा होमयेत् तु पृथक् पृथक् ॥ ७५ ॥
क्षुरिका बीजमुख्येन पूर्णाहुतिमथाचरेत् ।
जयादिरभ्याधानाञ्च क्रमाद्राष्ट्राहुतिं हुनेत् ॥ ७६ ॥
अग्निस्थं मण्डलस्थं च कुम्भमध्येवमावहेत् ।
भूतले निखिनेतांश्च समुद्रेष्वधवा नयेत् ॥ ७७ ॥
जीर्णपीठादि सम्भूतं मस्तिचेदिदमाचरेत् ।
पीठशुद्धिं ततः कृत्वा पञ्चमृद्गव्यबिल्वकैः ॥ ७८ ॥
भद्रपीठे विशेषोऽस्ति तदग्रस्तितदर्पणे ।
धाराभिषेचनं कुर्याच्छुद्धैरुद्धेति मन्त्रतः ॥ ७९ ॥
वास्तुहोमं बलिं चाथ मण्डपा पुरा चरेत् ।
रक्षाबन्धं ततः कृत्वा भद्रपीठोध्वकर्णिके ॥ ८० ॥
अन्येषामेव पीठानां कृतं वा तद्विनाचरेत् ।
वेद्यासु स्थण्डिलं कुर्यादष्टद्रोणेन शालिना ॥ ८१ ॥
तदर्द्धैस्तण्डुलैर्युक्तं तदद्धैन्तिलसंयुतैः ।
लाजैः पुष्पैस्तिलैः ष्टर्भै विकिर्णै समलङ्कृतम् ॥ ८२ ॥
तत्पूर्वे वेदिकुम्भेषु दक्षिणोत्तरमध्यतः ।
नन्दिनं च महाकालं वृषभं पूजयेत् क्रमात् ॥ ८३ ॥
ततो दक्षिणसम्भूते वेदिकुम्भेषु सर्वतः ।
दुर्गामात्रंश्च विघ्नेशं वरस्कन्दौ च माधवम् ॥ ८४ ॥
प्। २६६)
शण्डेशमाग्न्यादि शान्तम्मग्रे भूतेशमध्ये च ।
प्रदिचि वेदिकुम्भेषु सिंहं च भुजगेश्वरम् ॥ ८५ ॥
धर्ममेववमावे च वाममध्येष्वनुक्रमात् ।
उदिचि वेदिकुम्भेषु इन्द्रावैश्वानरं यमम् ॥ ८६ ॥
नि-ऋतिं पाशिवाद्ध्विन्न्दु वटुकाख्यं महेश्वरम् ।
विष्णुपीतामहञ्चापि पूर्वादारभ्य पूजयेत् ॥ ८७ ॥
तन्मध्ये वेदिकुम्भेषु आमोदं च प्रमोदकम् ।
सुमुखं दुर्मुख्ं चाथ अविघ्नं विघ्ननायकम् ॥ ८८ ॥
पूर्वदक्षिणपाशीन्दु रुद्रदिक्कर्णिकोध्वतः ।
आसनो मूलत्तिमूलाद्यै संयुतं तान्समर्चयेत् ॥ ८९ ॥
तत् तद् वेद्युत्तरे देशे क्षुद्रपीठादि वासनम् ।
भद्रपीठो विशेषोऽस्तितस्थाने चाधिवासयेत् ॥ ९० ॥
वेदपारायणं कुर्यात् कुम्भस्थानपूर्वकम् ।
अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ॥ ९१ ॥
समिधाज्य चरूलाजान् सर्षपं च यवन्तिलम् ।
तं तन्मूल षडङ्गैश्च पावमानैस्त्रियम्बकैः ॥ ९२ ॥
स्पृष्ट्वा स्पृष्ट्वा तु जुहुयात् तत् तन्मूलमनुस्मरन् ।
एवं जागरणं रात्रौ प्रभाते स्नानमाचरेत् ॥ ९३ ॥
तोरणादि घटान् सर्वानर्चयेद् गन्धपुष्पकैः ।
क्षुद्रपीठप्रतिष्ठाया स्थानं वक्ष्यामि तच्छृणु ॥ ९४ ॥
प्। २६७)
प्रासादमध्यमाशृत्य चान्तर्मण्डलमध्यतः ।
दुर्गादि चण्डपीठान्तम् अन्यदिशान्तमर्चयेत् ॥ ९५ ॥
अग्रे वृषस्थलं यत्र तत्र तत्पीठदेशकम् ।
तत्पृष्ठे भूतनाथस्य पीठदण्डप्रमाणतः ॥ ९६ ॥
द्वारं प्रति विशेषेण द्वारेशं पीठदेशकम् ।
अन्तर्मण्डलमास्यद्धमेशस्य वृषाग्रतः ॥ ९७ ॥
इन्द्रपीठेषु खायामे पद्रपीठाग्रमानतः ।
तस्थानसीमा सम्बन्धमर्न्तर्मण्डलमानतः ॥ ९८ ॥
अग्न्यादि स्थापयेत् सप्तदिक्षु सोमेशमध्यतः ।
नैर्-ऋते दण्डमानेन विष्णुपीठं प्रतिष्ठयेत् ॥ ९९ ॥
ऐशान्यां हस्तमानेन ब्रह्मपीठप्रतिष्ठयेत् ।
द्वितीर्यवरणे पीठे स्त्वेवमेव प्रकल्पयेत् ॥ १०० ॥
भद्रपीठप्रतिष्ठा तु प्रोक्त प्राकारलक्षणे ।
आचार्यं पूजयेत् पश्चाद् वस्त्रहेमाङ्गुलियकैः ॥ १०१ ॥
अध्यात्म परिवाराश्च यथा वित्तानुसारतः ।
पर्यष्टिनोत्तरियाद्यैरुष्णिषैमण्डितेन च ॥ १०२ ॥
पूर्वे तु स्थापित घटान् सर्वतोद्यसमन्वितम् ।
शिरसा वाहयित्वा तु कृत्वा धामप्रदक्षिणम् ॥ १०३ ॥
तत् तन् मूले समुच्चार्य तत्तत्पीठेऽभिषच्य च ।
भद्रपीठे विशेषोऽस्ति मन्त्रन्याससमुद्धरेत् ॥ १०४ ॥
प्। २६८)
अथातः सम्प्रवक्ष्यामि गौरिणामर्चनं तथा ।
गौरि चैव मनोन्मन्या भवानि त्रिविधं भवेत् ॥ १०५ ॥
श्याम द्विनेत्रां द्विभूजां त्रिभङ्गि
सव्यापसव्यस्थिति कुञ्चिताङ्घ्रि ।
सव्योत्पला सत्कटकास्तनो च
हस्तावलम्बा परमेश्वरिं स्यात् ॥ १०६ ॥
शम्भुशक्ति समभङ्गमुच्यते द्विनेत्र प्रकृतिं च सुस्थितम् ।
लम्बमेककर दक्षिणेत्पलं या भमनुसारवक्त्रकम् ॥ १०७ ॥
कल्याणदायि भवतोस्तु पिनाकपाणि
पाणिग्रहे भुजकङ्कण भाषिताङ्गम् ।
सभान्तदृष्टिसहसैव * * नयत्यद्धोक्त
सुमुखमम्बिकायाम् ॥ १०८ ॥
द्विनेत्र द्विभुजाः श्यामा गौरि दक्षकरोत्पल ।
करण्डमकुटोपेता सर्वलक्षणसंयुता ॥ १०९ ॥
गौरिलक्षणमेवोक्तं मनोन्मन्या स्वरूपकम् ।
श्यामभव वेदकरवन्निनयनं स्यात्
पद्मवराभय जपाक्षवलयोक्तकम् ।
पीतवरसाञ्चित जटामकुटयुक्तं
रक्तकमलासनमनोन्मनिस्वरूपम् ॥ ११० ॥
इन्दुनिभवेदकरवह्निनयनं स्यात्
पङ्कजपताकवरदोत्पलचतुष्कम् ।
अङ्गहिमभूषणविचित्रवदनं स्यात्
तुङ्गकुटोज्वलमनोन्मनि स्वरूपम् ॥ १११ ॥
प्। २६९)
अभयवरदहस्तं चाक्षमालाब्जकं स्या
अपरकर्णि तु देव्यमाम क्रमेण ।
जटधरशशिसर्पं चाकधूर्धूरचूडा
सकल * * पि कृतं स्यात् श्यामवर्णञ्च गौरिम् ॥ ११२ ॥
पद्माक्षमालाभय दूरुहस्तां
श्यामाङ्गनेत्रत्रयसुन्दराड्यम् ।
किरिटवक्त्रेन्दुजटावचूडां
श्रिकामकोटिं शिवशक्ति रूपाम् ॥ ११३ ॥
शङ्खनिभमङ्गमरुणं वृषमधास्यात्
पङ्कजप्रसार्यकरतुङ्गभुजगहस्तम् ।
अघ्रितलकृष्णवति नेत्रमतिधूम्रं
वेदस्य वामभागेव सव्यभासव्य भागके ।
प्रकाराभ्यन्तरे वापि ऐशान्ये वा विशिष्यते ॥ ११५ ॥
स्वतन्त्रालय सङ्कल्प्य वायुसोमे च ईशके ।
अथवान्यप्रकारेण दक्षनै-ऋतपावके ॥ ११६ ॥
प्रासादे चैव कर्तव्यं शक्ति संस्थापयेत् सुधिः ।
स्वतन्त्राल सङ्कल्प्य नचित्तेस्तु प्रतिष्ठयेत् ॥ ११७ ॥
पूर्वस्याभिमुखे गौरि शान्तिकं तु समर्चयेत् ।
दक्षिणाभिमुखं कृत्वा सर्वसम्पत्करं तथा ॥ ११८ ॥
पश्चिमाभिमुखं देवि धनधान्यसमृद्धिदम् ।
उत्तराभिमुखं देवि सौख्यकं च ततः परम् ॥ ११९ ॥
वृत्तपीठस्थितं गौरिभद्रपीठ स्थितं तु वा ।
प्। २७०)
शयनं पद्मपीठं स्यात्पीठशक्तिरिहोच्यते ।
यद्वक्त्रं द्वारं सङ्कल्प्य प्राकारादिनि कल्पयेत् ॥ १२० ॥
योगं भोगं च वीरं च शक्तिरेवा त्रिधा भवेत् ।
योगे लिङ्ग समायुक्तं भोगं वामे समन्वितम् ॥ १२१ ॥
वीरं स्वतन्त्रमित्युक्तं शक्तिरेवं त्रिधा भवेत् ।
उत्तरे तु यजेद् गौरीं वायुदेशे मनोन्मनी ॥ १२२ ॥
भवानिमीशदिग्भागे स्थापयेत् तु विधानतः ।
गौरि दक्षिणदिग्भागे पावके तु मनोन्मनी ॥ १२३ ॥
भवानि नै-ऋते देशे अथवा कल्पयेद् बुधः ।
स्थानं संयुक्तदस्थाने शक्तिनां जीर्णनष्टके ॥ १२४ ॥
आलयं तु विसृज्याथ लक्षणोक्त निकेतनम् ।
भक्तांश्च परिवारांश्च कर्तभक्त्यानुकूलके ॥ १२५ ॥
जनानुग्रहसंयुक्तं तच्छिघ्रं सुकृतं तु वा ।
न्युनाधिक्यं न कर्तव्यं पूर्ववत् परिकल्पयेत् ॥ १२६ ॥
पुनस्थापन शक्त्यानां ग्रामशान्तिकरं शुभम् ।
स्वतन्त्रालसङ्कल्प्य स्थापयेत् पूजयेत् ततः ॥ १२७ ॥
शक्तिनां कल्पयेद् धीमान् भूमदेविं तदग्रतः ।
द्विभुजां च द्विनेत्रां च पीतवस्त्रां सुयौवनाम् ॥ १२८ ॥
एकवक्त्रसमायुक्तां कृताञ्जलिपुटान्विताम् ।
करण्डमकुटोपेतां भूमदेविं सलक्षणाम् ॥ १२९ ॥
प्। २७१)
द्वाराग्रं तु तथा पूज्य द्वारपूजां विधिर्यते ।
द्वारदक्षिणपार्श्वे तु गङ्गायमर्चयेत् ततः ॥ १३० ॥
योगिनीं तस्य वामे तु अर्चयित्वा विधीयते ।
द्वारस्य वामपार्श्वे तु यमुनामर्चयेत् तथा ॥ १३१ ॥
डाकिनिं सव्यतः पूज्य अर्चयित्व क्रमेण तु ।
ऊर्ध्वे पतङ्गमध्ये तु महालक्ष्मी प्रपूजयेत् ॥ १३२ ॥
तस्य दक्षिण पार्श्वे तु नर्मदामर्चयेत् तथा ।
वामपार्श्वे सरस्वत्यां पतङ्गोपरिपूजयेत् ॥ १३३ ॥
पतङ्गं च भुवङ्गं च ऊर्ध्वतः परिपूजयेत् ।
विमलं च सुबाहुं च पूजयेत् तु कवाटयोः ॥ १३४ ॥
तस्याग्रे वृषभं पूज्य अस्त्रदेवं समर्चयेत् ।
द्वारपूजा विधिप्रोक्ता गौर्यार्चनं विशेषतः ॥ १३५ ॥
गर्भगृहं प्रविश्याथ गौरिं चैव समर्चयेत् ।
निर्माल्यं च विसृज्याथ चण्डेश्वर समर्चयेत् ॥ १३६ ॥
देशिकशक्तिरूपत्व देशिकान्मशिवस्य तु ।
शिवशक्तिस्वरूपत्वाच्छिवशक्तिं प्रपूजयेत् ॥ १३७ ॥
शैवेष प्रथिविजाता पार्वति परमेश्वरः ।
निष्कलं शैलजाकत्तुं सकलं भार्यरूपकम् ।
भावरूपं तु सम्बन्धं लोहजानि शिलान्वितम् ॥ १३९ ॥
प्। २७२)
गौरिस्नानं च कृत्वा तु सवगन्धोक्तमाचरेत् ।
साङ्गोपाङ्गं च प्रत्यङ्गं पूजयेत् त्रिविधं स्मृतम् ॥ १४० ॥
स्नानतोयं च पाद्यं च तथा च मिनीयकम् ।
वस्त्रमाभरणं चैव सुगन्धालेपनं तथा ॥ १४१ ॥
अर्घ्यं च मन्त्रपुष्पं च साङ्गं च त्रिप्रकीर्तिता ।
उपाङ्गं धूपदीपं स्यात् सायं रक्षा तु भस्मना ॥ १४२ ॥
छत्र चामरकं चैव दर्पणदर्शनं तथा ।
नृत्तगेयसमायुक्तम् उपाङ्गं चेति कीर्तितम् ॥ १४३ ॥
नैवेद्यं बलिदानं च होमं कृत्वा समाचरेत् ।
नित्योत्सव चुलुकोदं च प्रत्यङ्गं चेति कीर्तितम् ॥ १४४ ॥
वामायां पूर्वदिग्भागे ज्येष्ठायां पावके यजेत् ।
रौद्रिणवन् दक्षिणे देशे कलिन्या नै-ऋते तथा ॥ १४५ ॥
कलवकरणि प्रतिच्यां बलविकरणिति वामके ।
बलप्रमथनि सौम्ये सर्वभूतदमनिशके ॥ १४६ ॥
मनोन्ममध्यमे पूज्य ओकारादि नमोन्तकम् ।
तत् तत्स्वनाममन्त्रेण तत् तत्स्थानेषु पूजयेत् ॥ १४७ ॥
प्रथमावरणं प्रोक्तं द्वितिर्यवरणं शृणु ।
ब्राह्मी पूर्वे तु सम्पूज्य महेशिमग्निगोचरे ॥ १४८ ॥
कौमारि दक्षिणेभ्यर्च्य राक्षसि वैष्णवि तथा ।
वाराहि पश्चिमे पूज्य इन्द्राणि वायुगोचरे ॥ १४९ ॥
प्। २७३)
चामुण्डि चोत्तरे पूज्य दुर्गायामीशगोचरे ।
वीरभद्रं च विघ्नेशम् ऐशान्यां नैर्-ऋते यजेत् ॥ १५० ॥
द्वितीयावरणे प्रोक्तं तृतिर्यवरणं शृणु ।
वृषभं पूर्वतः पूज्य गणेशं चाग्निगोचरे ॥ १५१ ॥
स्कन्दं च दक्षिणे पूज्य महाशस्तं च नै-ऋते ।
शनैश्वरं पश्चिमे तु वायव्यां वीरमेव च ॥ १५२ ॥
क्षेत्रपालं तु सौम्ये तु ऐशान्या भास्करं यजेत् ।
तृतिर्यवरणे प्रोक्तं चतुर्थावरणं शृणु ॥ १५३ ॥
जम्भिनि पूर्वदिग्भागे स्थम्भिनिमग्निगोचरे ।
शान्तिमोह राक्षाण्ये भेदिनि नै-ऋते तथा ॥ १५४ ॥
रमणिं वारुणे पार्श्वे भद्रकामिनि वायुके ।
दुर्गायां सौम्यदिग्भागे चण्डिशिमिश गोचरे ॥ १५५ ॥
बलिपीठे तथाग्रे तु सर्वशक्तिमयि तथा ।
बलिपीठे तु पूर्वायामाकाशमातरि तथा ॥ १५६ ॥
भूतमातर दक्षिण्यो लोकमातरि पश्चिमे ।
देवमातरि सौम्येयां मतुमातमूर्ध्यतः ॥ १५७ ॥
सर्वशक्तिमयं पीठं बलदेव्यः प्रकीर्तिता ।
वृषादिबलिपीठान्तं कुङ्कुटाण्ड प्रमाणतः ॥ १५८ ॥
प्रातर्मध्यान्नसमयेषु बलितन्त्र विनिक्षिपेत् ।
सर्वभूतविहीने तु बलिनां तत्र त्रप्तये ॥ १५९ ॥
प्। २७४)
बलिहिनं समभ्यर्च्य पूजायां निष्फलं भवेत् ।
तत्स्मात् सर्वप्रयत्नेन बलिदानं समाचरेत् ॥ १६० ॥
आयुश्रीयङ्गलब्धामामैश्वर्यारोग्यवर्धनम् ॥ १६०� ॥
इति सूक्ष्मशास्त्रे गौरिनित्यार्चनविधिं नाम अष्टचत्वारिंशत्पटलः ॥ ४८ ॥