४४

प्। २३८)

ग्रामशान्तिविधिं वक्ष्ये शृणु तत्तत्प्रभञ्जना ।
ग्रामे वा नगरे वापि पट्टणे राजधानिके ॥ १ ॥

कुब्जके खेटके चैव बहुरूपं च वासिना ।
एवं स्थानविशून्यश्चेत् पूर्वे वा दक्षिणेऽपि वा ॥ २॥

पश्चिमे चोत्तरे वापि विदिशास्वन्तरालके ।
ग्राममानं चतुर्भागं वसुभागमथापि वा ॥ ३ ॥

कलांशं च दशां तु तेष्वेकं कल्पवास्तुना ।
एवं निश्चित्य विधिस्याद् बाह्ये वाभ्यन्तरेऽपि वा ॥ ४ ॥

प्रासादपरितो वापि वास्तुविद्यां प्रकल्पयेत् ।
ब्रह्मादीशानपर्यन्तम् इन्द्रादीशान्तकं क्रमात् ॥ ५ ॥

ग्राममाश्रित्य देवानां ग्राममध्ये बलिं क्षिपेत् ।
आद्यन्तं बलियुक्तं तु अयुक्तं तु दिनं प्रति ॥ ६ ॥

ब्रह्मराक्षसपैशाच भूताश्चैव निशाचरः ।
एताश्च देवतास्सर्वे शून्यग्रामं तु वासिना ॥ ७ ॥

गतागतं च कृत्वा तु पूर्वापर सुवास्तुषु ।
तद्ग्रामवासिनास्सर्वे रोगशोकभयं भवेत् ॥ ८ ॥

तद्ग्रामे चोत्सं कुर्यात् तद्राष्ट्रस्य विनिश्यति ।
तद् दोषशमनार्थाय राक्षसादि बलिं ददेत् ॥ ९ ॥

ग्रामाभिमुखसंस्थानं निर्गत्वा द्वारदेशिके ।
राक्षसाद्याश्च ये देवाः द्वारदेशा समाश्रयेत् ॥ १० ॥

प्। २३९)

एतस्थानाश्रितो देवा प्रित्यर्थं बलिमाचरेत् ।
बलिद्रव्यं तु सम्पाद्य देशिकं स्नानमाचरेत् ॥ ११ ॥

सुशुद्धवस्त्रसंवेष्ट्य आर्द्रवस्त्रं परित्यजेत् ।
सकलिकरणं कृत्वा समान्यार्घ्यं च कल्पयेत् ॥ १२ ॥

पञ्चगव्यं तु संसाध्य विघ्नेशं पूजयेत् पुरा ।
नालिकेरफलं दत्वा द्विखण्डं सर्वसिद्धिदम् ॥ १३ ॥

शैथिल्यं कर्मशैथिल्यं तस्माद् दोषं परित्यजेत् ।
विघ्नराज नमस्तुभ्यं विज्ञाप्य परमेश्वरम् ॥ १४ ॥

देवदेवजगन्नाथ जगतामूर्त्तिनाशनम् ।
शिवाध्वरप्रवर्त्तोय तवाज्ञा कुरु मे सदा ॥ १५ ॥

यत् कृतं तेन भगवन्मया च मखमन्दिरे ।
भूताश्च बलिकर्माणि त्वत्प्रसादात् करोम्यहम् ॥ १६ ॥

क्रमुकं नालिकेरस्य पुष्पं प्रत्येकमेव हि ।
नालिकेरफलं मासं सङ्ख्याया प्रतिगृह्यताम् ॥ १७ ॥

तदर्थ तण्डुलद्रोणं पुष्पं तस्य चतुर्गुणम् ।
पीतरत्ननिभं पुष्पं पद्मपुष्पसमृद्धिदम् ॥ १८ ॥

देवस्य मुक्तपुष्पं तु जातिकल्हारकेतुषु ।
अन्यत् सुगन्ध पुष्पं च पुष्पपात्रे निधापयेत् ॥ १९ ॥

कार्पासवर्तिमेकेन महावर्त्तिस्तु पञ्चकम् ।
गजमृगमदं कृष्णं गन्धकर्पूरसंयुतम् ॥ २० ॥

प्। २४०)

कुन्दुरुष्कगरुद्धूपं रक्तवस्त्रं च पञ्चकम् ।
पञ्चकं दारुपीठं तु चतुर्थं वा समन्वितम् ॥ २१ ॥

खड्गशूलधनुबाणक्षुरिक पिण्डिफलकम् ।
नालिकेरं च तैलं च समृद्धकदलिफलम् ॥ २२ ॥

पञ्चचूर्णगुलं क्षीरं कदलिदलसंयुतम् ।
क्रमुकं तैलसंयुक्तं ताम्बूलं च समृद्धिदम् ॥ २३ ॥

शुद्धोदनं पचेद्धीमान् आढकद्वयतण्डुलैः ।
पायसं चाढकेनैव तत्सख्यैश्च सिताक्षतैः ॥ २४ ॥

आद्रेक्षिकमिश्रेण शुद्धपात्रे निधापयेत् ।
एवं द्रव्यं तु सम्पाद्य अस्त्रेश्वरमथार्चयेत् ॥ २५ ॥

शिवखड्गं तु सङ्ग्राह्य विन्यसेच्छिवसन्निधौ ।
विज्ञाप्य परमेशानं बलिद्रव्यन्तु सङ्ग्रहेत् ॥ २६ ॥

अस्त्रेशं शिवखड्गं तु शिष्य सङ्ग्राह्य पाणिना ।
शङ्खभेर्याश्च घोषैश्च डमरू पटमर्दलै ॥ २७ ॥

एतेरन्यैश्च घोषैश्च स्त्रीणां कुरूप संयुतम् ।
सदाखण्डं खोपेतं दीपज्वालसमन्वितम् ॥ २८ ॥

छत्रचामरसंयुक्तं द्वारदेशं समाश्रयेत् ।
द्वारपालान् समभ्यर्च्य स्नानं नैवेद्यकान्तकम् ॥ २९ ॥

बाह्ये बाह्यान्तर वापि वरकं सम्प्रपूजयेत् ।
द्वारप्रक्षाल्य तोयेन नन्दिकालौ बलिं ददेत् ॥ ३० ॥

प्। २४१)

वृषभं पूजयेन्मध्ये महाखण्टां तु ताडयेत् ।
पश्चाद्वारं बहिः कृत्वा पञ्चहस्तप्रमाणतः ॥ ३१ ॥

तृणमूलादिभिस्त्याज्य तत्समं चतुरश्रकम् ।
तन्मध्ये वेदिकां कुर्याद् गोमया लेपनं कुरु ॥ ३२ ॥

प्रोक्षयेत् पञ्चगव्येन बलिद्रव्यं च सङ्ग्रहेत् ।
अस्त्रेशं वेदिकोर्ध्वे तु शिवखड्गं तु विन्यसेत् ॥ ३३ ॥

मध्ये पूर्वे च याम्ये च पश्चिमे चोत्तरे दिशि ।
मध्ये पात्राष्टपन्मं च ऐन्द्रे तु वसुकोणकम् ॥ ३४ ॥

याम्ये तु नवयोनिं स्यात् षट्कोणं पश्चिमे दिशि ।
उत्तरे चाष्टशूलम् च रक्तवर्णेन संलिखेत् ॥ ३५ ॥

तद्बाह्ये सितवर्णेना चतुरश्रं प्रकल्पयेत् ।
अश्रस्याभ्यन्तरं कोणं पञ्चवर्णैरलङ्कृतम् ॥ ३६ ॥

मण्डलस्यात्पदे बाह्ये न्यसेत् पीठचतुष्टयम् ।
पीठं विन्यस्य मध्ये तु मध्ये मण्डलपश्चिमे ॥ ३७ ॥

पीठोर्द्ध्वे वस्त्रमास्तिर्य रक्तपन्मेन संवृतम् ।
वृत्तं कुड्डुपमाधिक्यं तण्डुलं पीठिकोपरि ॥ ३८ ॥

तस्योर्ध्वे नालिकेरं स्यात् स्थापयेत् तु चतुर्दशि ।
खड्गपूर्वे तु विन्यस्य धनुर्बाणं च दक्षिणे ॥ ३९ ॥

क्षुरिकां पश्चिमे स्थाप्य पिण्डिपालमथोत्तरे ।
शूलंश्च मध्यमं स्थाप्य ओदने पश्चभिः शरम् ॥ ४० ॥

प्। २४२)

प्रस्थं कुन्दुपसंयुक्तं तण्डुलं तु निधापयेत् ।
कांस्यपात्रे तु तण्डुल्यं कारयेत् तस्य मूर्द्धनि ॥ ४१ ॥

नालिकेरस्योदकं च घृतेन परिपूरितम् ।
तन्मध्ये तु महावत्तिं विधयुक्तं च विन्यसेत् ॥ ४२ ॥

स्वस्तिकं वायुदेशे तु पञ्चचूर्णैरलङ्कृतम् ।
तस्योर्ध्वे वाथ शुद्धं च नालिकेरसमाशृतम् ॥ ४३ ॥

तस्याग्रे कदलिपत्रं मामूलाग्रसमन्वितम् ।
सिताक्षते न्यसेदूर्ध्व कदलिफलसंयुतम् ॥ ४४ ॥

शास्तुश्च चण्डिकायांश्च अघोरं भैरवं तथा ।
तन्मध्ये भूतनाथेशं पूर्वादिषु समर्चयेत् ॥ ४५ ॥

आग्नेयेमण्डपे पश्चात् पञ्चचूर्णैरलङ्कृतम् ।
मूर्त्तिमानाब्जपूर्वे तु विन्यस्याष्ट दिशासु वा ॥ ४६ ॥

विन्यसेत् कदलीपत्रे कपित्तफलमाघृते ।
पिण्डिमेकं प्रदातव्यं वत्तिदीपसमन्वितम् ॥ ४७ ॥

अनन्तादि बलिं दद्याज्जलेन परिषेचनम् ।
नैर्-ऋते चैव षट्कोणं पञ्चचूर्णैविलिख्य च ॥ ४८ ॥

महाभूतेन षट्कं च बलिं * * यथाक्रमम् ।
ऐशान्यां मण्डलं कल्प्य चतुष्कोणसमन्वितम् ॥ ४९ ॥

सूत्रषट्कसमायुक्तं पञ्चचूर्णैरलङ्कृतम् ।
नालिकेरोदकेनैव लम्बयेत् तु पदार्थकम् ॥ ५० ॥

प्। २४३)

क्रमुकं नालिकेरस्य पुष्पैश्चैव प्रलम्बयेत् ।
चतुष्पथे पिशाचाश्च त्रिप राक्षसां बलिम् ॥ ५१ ॥

कूश्माण्डं त्रिपथे पूज्य नागाश्च त्रिपथे यजेत् ।
त्रिपथे भैरवं पूज्य द्विपथे असुरार्चनम् ॥ ५२ ॥

एतन्नन्दबलिं दत्वा पात्तदीपसमाचरेत् ।
एवं क्रमेण सम्पूज्य पुष्पं ग्राह्य विकीर्य च ॥ ५३ ॥

सिता क्षतं विकीर्याथ द्विष्टो वासनं कुरु ।
शिवखड्गेन संशोध्य रक्ततोयं विसज्य च ॥ ५४ ॥

ऐशान्यामन्यलाग्रे तु अजं शास्त्रे संहरेत् ।
नमस्ते भूतनाथेशं प्रीत्यर्थं बलिगृह्यताम् ॥ ५५ ॥

मया प्रवर्त्तितो याग सर्वाभिष्ट प्रदायकः ।
ततः प्रतिमना भूत्वा गच्छध्वं सि यथा सुखम् ॥ ५६ ॥

शून्यवास्तुषु मध्ये तु पश्चाच्छान्तिं बलिं क्षिपेत् ।
तद् ग्रामे भद्रकाल्याश्च तृप्यर्थं बलिमाचरेत् ॥ ५७ ॥

अन्नैश्च सर्वदेवाश्च तृप्तिमाप्नोति दापयेत् ।
पादप्रक्षालनं कृत्वा पश्चाद् वास्तु प्रवेशयेत् ॥ ५८ ॥

ब्रह्मस्थाने तु सङ्कल्प्य देवाग्रे विधिमध्यमे ।
भूतपीठे द्रमध्ये वा वास्तुमध्ये प्रकल्पयेत् ॥ ५९ ॥

पूर्वाग्निश्च मयमश्चैव निरुतवणवायुषु ।
कुबेर ईश संयुक्ते यथा देवबलिं क्षिपेत् ॥ ६० ॥

प्। २४४)

बलिस्थाने मया तस्य अन्यस्थानेषु वर्जयेत् ।
मृगयात्रादि तीर्थाश्च वास्तु बाह्येषु यानकम् ॥ ६१ ॥

मध्याह्ने वाथ सायह्ने अर्थरात्रिबलिं ददेत् ।
ग्रामशान्तिबलिं कुर्यात् सर्वाभिष्टफलप्रदम् ॥ ६२ ॥

तद्ग्रामवासिनस्सर्वे बलदं बलिरुच्यते ।
ग्रामशान्तिबले हीने तद्राष्ट्रे वास्तुनाशनम् ॥ ६३ ॥

परचक्रभयं राज्यं राजा निर्जयमाप्नुयात् ।
तदृष्ठवासिनस्सर्वे ज्वरमर्यादि पिडिता ॥ ६४ ॥

तस्मात् सर्वप्रयत्नेन ग्रामशान्ति बलिं ददेत् ।
तदन्तो चोत्सवं कुर्यात् सर्वकामफलप्रदम् ॥ ६५ ॥

एवं यः कुरुते मर्त्यः स पुण्यागतिमाप्नुयात् ॥ ६५� ॥

इति सूक्ष्मशास्त्रे ग्रामप्रायश्चित्तविधिं नाम चतुचत्वारिंशत्पटलः ॥