गौरि सङ्कोचनं वक्ष्ये शृणुत्वं तत्प्रभञ्जना ।
आयुरारोग्यजयदं पुत्रपौत्रसमृद्धिदम् ॥ १ ॥
आद्यं द्वितीयमेवं तु द्विविधं तरुणालयम् ।
कर्षणाद्यर्चनान्तं तु तरुणालसङ्ग्रहेत् ॥ २ ॥
प्रासादे पतिते भिन्ने लिङ्गं च चलिते तथा ।
अन्यानि सर्व कर्माणि भाषितानि समानि च ॥ ३ ॥
मूलस्थाने विनिश्चित्य बालस्थानं तु कारयेत् ।
तदूर्ध्वे बालबाल्यत्वं तस्मान् मूले प्रवेशयेत् ॥ ४ ॥
प्रासादाग्रे तु कर्तव्यं दक्षिणे चोत्तरेऽपि वा ।
विंशद्धस्त प्रविस्तारमुत्तमं मण्डपं भवेत् ॥ ५ ॥
मध्यमं रविहस्तं स्याद् दशहस्तं तु कन्न्यसम् ।
षत्त्रिंशद्ग्रात्रसंयुक्तमुत्तमं मण्डपं स्मृतम् ॥ ६ ॥
षोडशस्तम्भसंयुक्तं मध्यमं मण्डपाधमम् ।
दिशिश्च विदिशिश्चैव निच्छिद्रं व्योमसम्भवम् ॥ ७ ॥
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥ ८ ॥
प्। २१६)
दीपैः पुष्पैः फलैः सार्धं माषमङ्गल पूजितम् ।
स्तम्भानि वेष्टयेत् तत्र प्रत्येकं वस्त्रवेष्टितम् ॥ ९ ॥
मण्डपं तु त्रिधा कृत्वा मध्यभागे तु वेदिका ।
रत्निमात्रमुत्सेधं दर्पणोदरसन्निभम् ॥ १० ॥
वेद्या मूले तु परितः उपवेदी प्रकल्पयेत् ।
युगाङ्गुलसमुत्सेधं द्विगुणं नीवृमुच्यते ॥ ११ ॥
कुण्डानि परितः कुर्यात् किञ्चिद्भेदं विशेषतः ।
नवाग्निवाथ पञ्चाग्निम् एकाग्निं समुदाचरेत् ॥ १२ ॥
योनिकुण्डानि सर्वाणि योनौ योनिं न कारयेत् ।
श्रोत्रार्धां शोच्चमानेन क्षेत्रं पञ्चैकभागिकम् ॥ १३ ॥
तत्पुस्ताबहिणिस्त्वाद् भवेत् पिप्पल पत्रवत् ।
योनिकुण्डं ततः कृत्वा लक्षणं सम्यगाचरेत् ॥ १४ ॥
उद्वास्य लिल्पिनं पश्चाद् गोमयेनानुलेपयेत् ।
पुण्याहं वाचयेत् तत्र ब्रह्मणान् भोजयेत् ततः ॥ १५ ॥
पश्चादुद्वास्य दुच्छिष्टं पुनः पुण्याहमाचरेत् ।
समर्यवदे सम्यग्वास्तु होमं तु कारयेत् ॥ १६ ॥
पर्यग्निकरणं कुर्यात् पुनः पुण्याहमाचरेत् ।
कृत्वा तु विधिना स्नात्वनं शुक्लचन्दनलेपितम् ॥ १७ ॥
शुक्लवस्त्रधरोष्णीषं शुक्लमाल्येरलङ्कृतम् ।
अङ्कुरानर्पयेद् धीमान् स्थानशुद्धि समाचरेत् ॥ १८ ॥
प्। २१७)
उत्तराभिमुखो भूत्वा सकलिकरणं कुरु ।
गर्भगेहं प्रविश्याथ स्थानशुद्धिं ततः कुरु ॥ १९ ॥
गौरिशुद्धिं ततः कृत्वा स्नापयेद्रजनोदकैः ।
पुण्याहं तु ततः कृत्वा शुद्धोदैरभिषेचयेत् ॥ २० ॥
पञ्चगव्येन संस्नाप्य बिल्वपत्रेण घर्षयेत् ।
दर्भमूले तु वल्मिकं क्षेत्रे मृद्गृह्य लेपयेत् ॥ २१ ॥
गन्धोदकेन संस्नाप्य पूजयेद् धृदयेन तु ।
चन्दनागरुकोष्ठं च कुङ्कुमो शिरकेसरैः ॥ २२ ॥
कृगेलपत्रकर्पूरैः लाल्योढ्यं गौरि लेपयेत् ।
पिण्डिकाब्ज समालिप्य प्रोक्षयेच्छक्तिबीजकम् ॥ २३ ॥
शिरसा वामहस्तं तु हेमसूत्रं तु कौतुकम् ।
अष्टपुष्पैः समभ्यर्च्य समान्यं पुष्पपूरितम् ॥ २४ ॥
नववस्त्रेण संवेष्ट्य गौरिपीठक्रमेण तु ।
ततो बालगृहं पश्चात् पूजयेद् गौरि संयुतम् ॥ २५ ॥
यात्रा होमं तु कर्तव्यं तदग्रे होममाचरेत् ।
स्थण्डिलं हस्तमात्रेण निर्दोषैस्सिकतैरपि ॥ २६ ॥
अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ।
समिधा सद्यमन्त्रेण ईशानेन घृतं हुनेत् ॥ २७ ॥
अघोरेण चरु हुत्वा प्रत्येकं पञ्चविंशतिः ।
प्रासादं शक्तिबीजैश्च व्योमव्यापि दशाक्षरैः ॥ २८ ॥
प्। २१८)
शक्त्याद्यैश्चैव वामाद्यै प्रत्येकं षोडशं हुनेत् ।
स्पृष्ट्वा तु जुहुयाद्धोमं गौरिबीजमनुस्मरन् ॥ २९ ॥
तस्याग्रे स्थण्डिलं कृत्वा शालिभिः विमलैः शुभैः ।
कुम्भं वा करकं वापि स्थण्डिलोपरि विन्यसेत् ॥ ३० ॥
ससूत्रं सापिधानं च हेमपल्लवसंयुतम् ।
नालिकेरफलैर्युक्तान् लम्बकूर्चसमन्वितान् ॥ ३१ ॥
गौरिस्थं कुम्भमावाह्य कुम्भमध्ये तु विन्यसेत् ।
स्थापयेद् वाम मन्त्रेण अघोरेणावकुण्ठयेत् ॥ ३२ ॥
सान्निध्यं शक्तिमन्त्रेण पञ्चमेनार्चयेत् क्रमात् ।
दर्शये शक्तिमुद्रां च मुकलिं पद्ममुद्रिका ॥ ३३ ॥
नमस्काराख्यमुद्रां च बन्ध्वास्त्रं दिक्षु योजयेत् ।
सूत्रादिभिः समोपेता अभितोऽष्ट घटान्न्यसेत् ॥ ३४ ॥
वामादिशक्तयश्चाष्टौ इन्द्रादीशानमन्तकम् ।
कुम्भमध्ये समावाह्य तत् तद् बीजमनुस्मरन् ॥ ३५ ॥
पूजयेद् गौरिमन्त्रेण गन्धपुष्पादिभिः क्रमात् ।
नैवेद्यं धूपदीपं च ताम्बूलं च निवेदयेत् ॥ ३६ ॥
जयादिरभ्याधानां च राष्ट्रभृच्च क्रमाद्धुनेत् ।
पूर्णाहुतिं च शिरसा घटमुद्धारयेत् ततः ॥ ३७ ॥
अस्त्रेण छादयेद् बिम्बं तटाके चैव निक्षिपेत् ।
पञ्चगव्येन सम्प्रोक्ष्य प्रविशेद्यागमण्डपे ॥ ३८ ॥
प्। २१९)
स्थण्डिलं शालिभिः कुर्यादष्टद्रोणैश्च शालिभिः ।
तण्डुलैश्च तिलैश्चैव लाजैः पुष्पैश्च दर्भकैः ॥ ३९ ॥
तन्मध्ये नलिनं लिख्या अष्टपत्र सकर्णिकम् ।
शिरसा वाहयित्वा तु प्रदक्षिणमथाचरेत् ॥ ४० ॥
सर्वातोद्यं समायुक्तं ब्रह्मघोषसमन्वितम् ।
शनैः प्रदक्षिणं कुर्यादुमासूक्तजपं क्रमात् ॥ ४१ ॥
मण्डपं तु प्रविश्याथ वेदिकोर्ध्वे तु विन्यसेत् ।
गौरिबीजमनुस्मृत्य कुम्भं तत्रैव पूजयेत् ॥ ४२ ॥
अभितस्थापत्कुम्भान् वामादि शक्तयः क्रमात् ।
स्वनाममन्त्रेरभ्यर्च्य गन्धपुष्पादिभिर्यजेत् ॥ ४३ ॥
तत्तन्मूर्त्या कृतं ध्यात्वा स्वस्वबीजेन कुम्भकैः ।
गन्धपुष्पादिभिश्चैव पूजयेत् तु निवेद्यकम् ॥ ४४ ॥
ऋगाध्यायनं कृत्वा उमासूक्तं जपेत् क्रमात् ।
श्रीसूक्तं रुद्रसूक्तं च पुरुषसूक्तत्रयम्बकम् ॥ ४५ ॥
शान्तिद्वयं जपेद्धिमान् दक्षिणे तु विशेषतः ।
आचार्यो मूर्तिपैस्सार्धं ततो होमसमाचरेत् ॥ ४६ ॥
अग्न्यादानादिकं सर्वम् अग्निकार्योक्तमार्गतः ।
समिधाज्य चरून् लाजान् सर्षपाश्च यवान् तिलान् ॥ ४७ ॥
होमद्रव्याणि सप्तैते जुहुयाद्वै क्रमेण तु ।
पलाशोदुम्बरश्वत्थो बिल्वं च खादिरं तथा ॥ ४८ ॥
प्। २२०)
मूलेन जुहुयादाज्यमघोरेण चरूं हुनेत् ।
लाजं वामेन मन्त्रेण सर्षपं कवचेन तु ॥ ४९ ॥
यव हुत्वा तु शिखया तिलमस्त्रेण होमयेत् ।
शतस्यत्रतयं वापि तस्यार्धं वार्धमेव वा ॥ ५० ॥
प्रत्येकं जुहुयाद्धीमान् द्रव्यान्ते व्याहृतिं हुनेत् ।
सर्वद्रव्यसमायुक्तं हव्यवाहेन होमयेत् ॥ ५१ ॥
एवं जागरणौ रात्रौ प्रभाते प्रोक्षणं कुरु ।
आचार्यो मूर्तिपैस्सार्थं विधिना स्नानमाचरेत् ॥ ५२ ॥
पूर्णाहुतिं च शिरसा हुत्वाग्निं च विसर्जयेत् ।
शक्तिकुम्भं समुद्धृत्य कृत्वा हर्म्या प्रदक्षिणम् ॥ ५३ ॥
सर्वतोद्यसमायुक्तं सर्वालङ्कारसंयुतम् ।
पुत्रभृत्र कलत्रैश्च सर्वसम्पत् सुखावहम् ॥ ५४ ॥
गर्भगेहं प्रविश्याथ स्थापयेत् स्थण्डिलोपरि ।
सुमुहूर्ते निरिक्ष्याथ देवाज्ञो सन्निवेशयेत् ॥ ५५ ॥
तत्रैव विन्यसेद् गौरि अष्टत्रिंशत् कलान्यसेत् ।
मन्त्रपुष्पा ततो दत्वा मन्त्रान्नं च निवेदयेत् ॥ ५६ ॥
नववस्त्रेण संवेष्ट्य गन्धपुष्पस्रगादिभिः ।
प्रभात हविषं दत्वा ताम्बूलं च निवेदयेत् ॥ ५७ ॥
मुखवासं ददेद्धीमान् चुलुकोदकसंयुतम् ।
नृगाध्यायनं कुर्यात् स्तोत्रनृत्तं च वाद्यकम् ॥ ५८ ॥
प्। २२१)
प्रोक्षणान्ते विशेषेण स्नपनैरभिषेचयेत् ।
प्रोक्षणान्ते विशेषेण उत्सव्यं सम्यगाचरेत् ॥ ५९ ॥
इति सूक्ष्मशास्त्रे गौरिसङ्कोचविधिं नाम द्विचत्वारिंशत्पटलः ॥